________________ जीवस्य अनुषङ्गतो येषां तु संसारोदरविवरवर्तिनां जन्तुसंघातानामवश्यतया ये शब्दादिविषयोपभोगाः सुन्दरभोगप्राप्तिः परिणामास्ते नियमतो भगवच्छासनमन्दिरादुक्तन्यायेन न बहिता वर्तन्ते, तस्मादन्यैरपि प्रेक्षापूर्वकारिभिरक्षेपेण मोक्षप्रापकेऽत्र भगवन्मन्दिरे भावतः स्थेय, अत्र स्थितानामनुषङ्गत एव तेऽपि सुन्दरतरा भोगादयः संपद्यन्ते, न तेषामपि सम्पादकोऽन्यो हेतुरित्युक्तं भवति, अत एव चेदं परमेश्वरदर्शनसदनमप्रतिपातिसुखपरम्पराकारणतया सततोत्सवमभिधीयते / तदेवं यथा यावद्विशेषणकलापयुक्तं तद्राजमन्दिरं तेन कथानकोक्तेनावलोकितं तथा तावद्विशेषणकलापोपेतमेवाऽनेनापि जीवेनेदं सर्वज्ञशासनसदनमवलोकितमिति स्थितम् / यथा च स कथानकोक्तः 'सततानन्दं तद्राजभवनमुपलभ्य किमेतदिति विस्मितश्चिन्तयति, धर्मजिज्ञासा न चासौ सोन्मादतया तद्विशेषगुणांस्तत्त्वतो जानातीत्युक्तम्' तथाऽयमपि जीवः सर्वज्ञशासनं सञ्जातकर्मविवरः कथश्चिदुपलभ्य किमेतदिति जिज्ञासते, न चायं मिथ्यात्वांशैरुन्मादकल्पैरनुवर्तमानै स्तस्यामवस्थायामस्य५५ जिनमतस्य ये विशेषगुणास्तांस्तत्त्वतो जानीते। जिनसदन यथा च तस्य कथानकोक्तस्य 'तात्पर्यवशेन लब्धचेतसः सतो हृदयाकूतैः परिस्फुरितं यदुतदर्शनप्रमोदः यदेतद्राजभन्दिरं सकलाश्चर्यधामास्य स्वकर्मविवरद्वारपालस्य प्रसादेन मयाऽधुना दृश्यते, नूनमेतन्न मया कदाचिद् दृष्टं पूर्व, प्राप्तोऽहमस्य द्वारदेशे बहुशः पूर्व, केवलं मम मन्दभाग्यतया येऽन्ये द्वारपालाः पापप्रकृतयस्तत्राभूवंस्तैरहं प्राप्तः प्राप्तः कदर्थयित्वा निर्धाटित इति, तदेतत्सर्व जीवेऽपि समानं, तथाहि-भव्यस्य प्रत्यासन्नभविष्यद्भद्रस्य कथञ्चिदुपलभ्य सर्वज्ञशासनमविदिततद्गुणविशेषस्यापि मार्गानुसारितया भवत्येवंविधोऽभिप्रायः, यदुत-अत्यदभुतमिदमहद्दर्शनं, यतोऽत्र तिष्ठन्ति ये लोकास्ते सर्वेऽपि सुहृद इव बान्धवा इवैकप्रयोजना इव समर्पितहृदया इवैकात्मका इव परस्परं वत्तन्ते, तथाऽमृततृप्ता इव निरुद्वेगा इव निरौत्सुक्या इव सोत्साहा इव परिपूर्णमनोरथा इव समस्तजन्तुसंघातहितोद्यतचेतसश्च सकलकालं दृश्यन्ते, तस्मात्सुन्दरमिदमद्य मया विज्ञातं न पूर्व, विमर्शाभावात् , अन्यच्चायं जीवोऽनन्तवारान् ग्रन्थिप्रदेशं यावत्प्राप्तो न चानेन तद्भेदद्वारेण क्वचिदपि सर्वज्ञशासनमवलोकितं, यतो रागद्वेषमोहादिभिः क्रूरद्वारपालकल्पैर्भूयो भूयो निरस्त इति एतावतांड शेनेदमुपदर्शितं, न पुनस्तस्यामवस्थायाममुं विभागमद्याप्ययं जीवो जानीते चिन्तयति वा / सद्विचार यथा च तस्य कथानकोक्तस्य पर्यालोचनपरायणवृत्तेः सतः पुनरिदं परिस्फुरितं, यदुत-'येन मया पूर्वमिदं नयनानन्दकारि राजसदनं न दृष्ट, न चास्य दर्शनार्थ कश्चिदुपाय: प्राविहितः सोऽहं सत्यं निष्पुण्यक एव, कीदृशं राजमन्दिरमिति जिज्ञासामात्रमपि ममाधमस्य कदाचिदपि पूर्व नासीत्, येन चानेन महात्मना स्वकर्मविवरद्वारपालेन कृपापरीतचेतसा भाग्यकलाविकलस्यापि ममेदं दर्शितं सोऽयं मे परमबन्धुभूतो वर्तते, एते च धन्यतमा जना येऽत्र राजमन्दिरे सदा निःशेषद्वन्द्वरहिताः प्रमुदितचेतसोऽवतिष्ठन्ते' तदेतदपि समस्तमत्र जीवे योजनीय, तथाहि-शुमध्यानविशुध्यमानाध्यवसायस्यापि जीवस्य विवर्त्तते चेतसीदं सर्व सर्वज्ञदर्शनगोचरं क्वचिदवसरे समवसरणदर्शनेन वा, जिनस्नात्रविलोकनेन वा वीतरागबिम्बनिरीक्षणेन वा, शान्ततपस्विजनसाक्षात्करणेन वा, सुश्रावकसङ्गतेन वा, तदनुष्ठानप्रतिभासेन वा, श्रेणिः 55 मपि प्र०