________________ 272 ततो मया नागन्तव्यमेव, तूर्णमागच्छत यूयं,. इतरथा नास्ति भवतां जीवितमिति / तदाकर्ण्य गतास्तत्समीपमाहायकाः, निवेदितं मन्त्रिमहत्तमानां मदीयवचनं, ततस्ते तत्रास्थाने सर्वे लोकाः सत्रासाः सोद्वेगा नष्टजीविताशाः परस्पराभिमुखमीक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेपि मदीयमन्त्रिमहत्तमाः लक्षितास्तपननरेन्द्रेण / ततोऽभिहितमनेन--भो भो लोका धीरा ! भवत मा भैषुर्न दोषोऽयं भवतां प्रतीतं मे रिपुदारणस्य शीलं ततोऽहं स्वयमेव तेन भलिष्यामि, केवलं भवद्भिरवस्तुनिर्बन्धपरैर्न भाव्यं मौक्तव्यस्तस्योपरि स्वामिबहुमानः नोचितोऽसौ राजलक्ष्म्या न योग्यो युष्मद्विधपदातीनाम् / तथाहि-शुभ्ररूपाणां, रतानां शुद्धमानसे / न जातु राजहंसानां, काको भवति नायकः // 437 // तन्मुश्चत सर्वथा तस्योपरि स्नेहभावं, ततो मयि विरक्तत्वात्तेषामभिहितं सर्वैरपि-यदाज्ञापयति देव इति / ततोऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्णे यदुत गत्वा तस्येदमिदं कुरुष्वेति / योगेश्वरेणोक्तं यदाज्ञापयति देवः, ततः समागतो मत्समीपे सह भूरिराजपुरुषैर्योगेश्वरः, दृष्टोऽहं कृतावष्टम्भः शैलराजेन, समालिङ्गितो मृषावादेन, परिवेष्टितश्चोत्प्रासनपरैर्वहिरङ्गैः पिङ्गलोकैः / ततः पुरतः स्थित्वा तेन योगेश्वरेण तन्त्रवादिना प्रहतोऽहं मुखे योगचूर्णमुष्टया, ततोऽचिन्त्यतया मणिमन्त्रौषधीनां प्रभावस्य तस्मिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः, संपन्नं शून्यमित्र हृदयं, प्रतिभान्ति विपरीता इवेन्द्रियार्थाः क्षिप्त इव महागहरे न जानाम्यात्मस्वरूपं, तपनसत्कोऽयं योगेश्वर इति भीतो मदीयः परिवारः, स्थितः किंकर्तव्यतामूढो, मोहितश्च तेन योगशक्त्या / ___ततो विहितभृकुटिना आः पाप ! दुरात्मनागच्छसि त्वं देवपादमूलमिति वदता ताडितोऽहं वेत्रलतया योगेश्वरेण संपन्नं मे भयं गतो दैन्यं पतितस्तच्चरणयोः / अत्रान्तरे नष्टोऽसौ मद्वयस्यः पुण्योदयः, तिरोभूतौ शैलराजमृषावादौ, ततः संज्ञिता योगेश्वरेणात्ममनुष्यकाः, ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तीव्रमन्तस्तापं विहितस्तैः पुरुषैः यथाजातः कृतः पञ्चजटो विलिप्तो भूत्या, चर्चितो माषपुण्ड्रकैः, प्रवृत्तास्ते तालारवं कर्तुं समवतारितोऽहं रासमध्ये / ततो मां नाटयन्तः प्रारब्धास्ते मनुष्यास्त्रितालकं रासं दातुं, कथम् ?-- यो हि गर्बमविवेकभरेण करिष्यते, धाधकं च जगतामनृतं च वदिष्यते / नूनमत्र भव एव स तीव्रविडम्बना, प्राप्नुवीत निजपापभरेण भृशं जनः // 438 // ध्रुवकः।। एवं च सोल्लासमुद्ायन्तस्ते वल्गमानाः कुण्डकमध्ये मां कृत्वा विजृम्भितुं प्रवृत्ताः, ततोऽहं पतामि तेषां प्रत्येकं पादेषु, नृत्यामि हास्वकरं मनानां, समुल्लसामि तेषूल्लसमानेषु, ददामि च तालाः ततस्तैरभिहितंपश्यतेह भव एव जनाः कुतूहलं, शैलराजवरमित्रविलासकृतं फलम् / यः पुरैष गुरुदेवगणानपि नो नतः, सोऽद्य दासचरणेषु नतो रिपुदारणः // 439 // पुनर्बुवकः—यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि / ततो ममापि मुखं स्फुटित्वेदमागतं यदुतशैलराजवशवर्तितया निखिले जने, हिण्डितोऽहमनृतेन वृथा किल पण्डितः / मारिता च जननी हि तथा नरसुन्दरी, तेन पापचरितस्य ममात्र विडम्बनम् // 440 // पुनर्बुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि /