________________ 271 नरवाहन दीक्षा तपनचक्रया गमः साक्षादमृतरूपे ते, ते सर्वसुखदायिके / अत्यन्तदुर्लभे भूप ! मृदुतासत्यते जनैः // 416 // एवं च स्थिते-कदाचिदेष ते कन्ये, लप्स्यते रिपुदारणः / तल्लाभे च वयस्याभ्यामाभ्यामेष वियोक्ष्यते // 417 // यतः-गुणसन्दोहभूते ते, तथेमी दोषपुञ्जको / तस्मात्ताभ्यां सहावस्था, नानयोभूप ! पापयोः // 418 // ततः प्रयोजनस्यास्य, कश्चिदन्यो विचिन्तकः / यत्तु तेऽभिमतं भूप! तदेवाचर साम्प्रतम् // 419 // तच्छ्रुत्वाऽचिन्तयद्राजा, स तदा नरवाहनः / अहो कष्टमहो कष्टं, सूनोर्मम तपस्विनः॥४२०॥ यस्येदृशौ रिपू नित्य, पार्श्वस्थौ दुःखदायिनौ / अहो वराको नैवासौ यथार्थों रिपुदारणः॥४२१॥ ततः किं क्रियतामत्र ? नैवास्त्यस्य प्रतिक्रिया। त्वक्तसङ्गोऽधुनाऽहं तत्करोमि हितमात्मने // 422 // ततोऽभिषिच्य मां राज्ये, कृत्वा सर्व यथोचितम् / विचक्षणगुरोः पार्थे, निष्क्रान्तो नरवाहनः॥४२३॥ ततश्च-विवेकशिखरस्थोऽपि, स विचक्षणमूरिणा / सार्ध बाह्येषु देशेषु, विजहार महामतिः॥४२४॥ ममापि राज्ये संपन्ने, लब्धावसरसौष्ठवौ / शैलराजमृपावादौ, नितरामभिवर्धितौ // 425 // तृणतुल्यं जगत्सर्व, पश्यामि सुतरां ततः / जलगण्डूषसंकाशमनृतं प्रतिभाति मे // 426 // एवं च-षिङ्गरुत्पास्यमानस्य, निन्द्यमानस्य पण्डितैः / तुष्टस्य धूर्त्तवचनैरलीकैश्चाटुकर्मभिः॥४२७॥ पुण्योदयस्य माहात्म्याद्राज्यं पालयतो मम। गतानि कतिचिद्भद्रे ! वर्षाणि किल लीलया // 428 // इतश्चोग्रप्रतापाज्ञः, सार्वभौमो द्विपंतपः / चक्रवर्ती तदा लोके, तपनो नाम भूपतिः // 429 // स सर्वबलसामग्र्या, महीदर्शनलीलया / भ्रमंस्तत्र समायातः पुरे सिद्धार्थनामके // 430 // ततो विदिततद्वार्तेरहं मन्त्रिमहत्तमैः / हितकारितया प्रोक्तो, विज्ञातनृपनीतिभिः॥४३॥ यदुत-चक्रवर्ती जगज्ज्येष्ठस्तपनोऽयं महीपतिः / तदस्य क्रियतां देव !, गत्वा सन्मानपूजनम् // 432 // पूज्योऽयं सर्वभूपानामचितस्तव पूर्वनैः / विशेषतो गृहायातः, साम्प्रतं मानमर्हति // 433 // अहं तु शैलराजेन, विधुरीकृतचेतनः / आध्मातस्तब्धसर्वाङ्गस्तानाभाषे तदेदृशम् // 434 // * यदुत-अरे विमूढाः ! को नाम, तपनोऽयं ममाग्रतः / येनास्य पूजनं कुर्यामहं न पुनरेष मे / / 435 // __तदाकर्ण्य मन्त्रिमहत्तमैरुक्तं—देव ! मा मैवं वदतु देवः, अस्य हि पूजनमकुर्वता देवेन लडितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः, प्रलयं नीताः प्रकृतयः, समुज्झितं राज्यसुखं परिहापितो विनयः अपकणितमस्मद्वचनं भवति, तन्नैवं वदितुमर्हति देवः, क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः / ततो मृभूतो मनाङ् मे शैलराजीयहृदयावलेपनावष्टम्भः, केवलं संज्ञितोऽहं मृषावादेन / ततो मयाऽभिहितं न ममात्र क्षणे चित्तोत्साहः तद्वच्छत यूयं, कुरुत यथोचितं, अहं तु पश्चादागमिष्यामि, दत्तास्थाने राजनि प्रवेक्ष्यामीति / ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च, सन्ति च तस्य तपननृपतेर्विविधदेशभाषावेषवर्णस्वरभेदविज्ञानान्तर्धानविज्ञातारो बहवश्वरविशेषाः / ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय / / _इतश्च मन्त्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरुपस्थापितानि महाहप्राभृतानि समावर्जितं हृदयं दत्तं चास्थानं तपननरेन्द्रेण, पृष्टा रिपुदारणवार्ता / मन्त्रिमहत्तमैरुक्तं-देव ! देवपादप्रसादेन कुशली रिपुदारणः, समागच्छति चैष देवपादमूलमिति / ततो दत्ता ममाहायकाः, विजृम्भितौ शैलराजमृषावादी, ततस्ते मयाऽभिहिताः यदुत-- अरे वदत तान् गत्वा, सर्वान्मन्त्रिमहत्तमान् / यथा-केनात्र प्रहिता यूयं, दुरात्मानो नराधमाः // 436 // रिपुदारण चेष्टा