________________ 243 निर्गते तस्मिन्नास्थायिकायां प्रस्तुताऽनेन राजकथा यदुत प्रबलास्ते रिपवः, पराभविष्यन्ति राजानं, आगमिष्यन्ति ते पुरलुण्टनार्थ, ततो यथाशक्त्या पलायध्वं यूयम् / तदाकर्ण्य नष्टं समस्तं पुरं, समागतो राजा, दृष्टं तन्निरुद्वसं चणकपुरं, किमेतदिति पृष्टमनेन, कथितः केनचियतिकरः, कुपितो दुर्मुखस्योपरि तीव्रनरेन्द्रः, ततः पुनरावासिते पुरे प्रख्याप्य तं दुर्वचनभाषणलक्षणमपराधं पौराणामेवंविधोऽस्य दण्डो निर्वतितो राज्ञेति / प्रकर्षणोदितं माम ! महाकष्टकमीदृशम् / यदुर्भाषणमात्रेण, संप्राप्तोऽयं वराककः // 1 // मातुलेनोदितं वत्स ! विकथाऽऽसक्तचेतसाम् / अनियन्त्रिततुण्डानां, कियदेतदुरात्मनाम् // 2 // इयं हि कुरुते वैरं, देहिनां निनिमित्तकम् / विधत्ते जनसन्तापं, मुत्कला भद्र ! भारती // 3 // ते धन्यास्ते. महात्मानस्ते श्लाघ्यास्ते मनस्विनः। ते वन्द्यास्ते दृढास्तत्त्वे, ते जगत्यमृतोपमाः // 4 // येषां मिताक्षरा सत्या, जगदाहादकारिणी। काले सद्बुद्धिपूता च, वर्तते भद्र ! भारती // 5 // युग्मम् / ये तु मुत्कलवाणीका, तदन्तेऽर्दवितर्दकम् / तैरत्रैव महाना, नेदृशा वत्स ! दुर्लभाः // 6 // मुश्लिष्टा मोचयत्येषा, भारती तात ! देहिनाम् / उच्छृङ्खला पुनर्वत्स ! तामेषा बन्धयत्यलम् // 7 // तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् / इदमीदृशमापन्नं, परलोके च दुर्गतिः // 8 // अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता / दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः // 9 // ततः पप्रच्छ तं वीक्ष्य, क एष इति मातुलम् / तेनोक्तं वत्स ! हर्षोऽयं, रागकेसरिसैनिकः // 10 // अस्त्यत्र मानवावासे, वासवो नाम वाणिजः / इदं च दृश्यतेऽभ्यर्णे, तस्य गेहं महाधनम् // 11 // बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः / धनदत्तः समायातो, वासवानन्ददायकः // 12 // इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति / अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ? // 13 // ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते / इतश्च वासवस्तेन, धनदत्तेन मीलितः // 14 // ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके / संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् // 15 // आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः / ततो गायन्ति, नृत्यन्ति, वादितानन्दमर्दलाः // 16 // अपि च-चरभूषणमुज्ज्वलवेषधरं, प्रमदोधुरखादनपानपरम् / धनदत्तसमागमजातसुखं तदभूदथ वासवगेहसुखम् / 17 प्रय तादृशि विस्मयसञ्जनके, क्षणमात्रविवर्धितवधेनके। निजमाममवोचत बुद्धिसुतः, प्रविलोकनकौतुकतोषयुतः॥१८ यदिदं वेल्लते माम ! सर्वमर्दवितर्दकम् / वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ? // 19 // विमर्शनोदितं-वत्स ! साधु साधु विनिश्चितम् / अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् // 20 // अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः / दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः // 21 // ततस्तेनोदितं माम ! क एष पुरुषाधमः? / विमर्शेनोक्तं-वत्स ! शोकवयस्योऽय, विषादो नाम दारुणः॥२२॥ यश्चैष पथिकः कश्चित्प्रवेष्टुमिह वाञ्छति / प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते // 23 // * ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ / एकान्ते वासवस्यैव, गुह्य किश्चिन्निवेदितम् // 24 // अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके / मूर्च्छया पतितश्चासौ, वासवो नष्टचेतनः // 25 // हा हा किमेतदित्युच्चैर्विलपनिखिलो जनः। ततः समागतस्तस्य, निकटे भयविहलः // 26 // अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः / प्रलापं कर्तुमारब्धः, सविषादः स वासवः // 27 // कथम् ?-हा पुत्र ! तात वत्सातिसुकुमारशरीरक / ईदृशी तव संजाता, काऽवस्था मम कर्मणा ? // 28 // निर्गतोऽसि ममापुण्यैर्वत्स ! वारयतो मम / दैवेन निघृणेनेदं, तव जात ! विनिर्मितम् // 29 // हा इतोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विलक्षणः। एवं व्यवस्थिते वत्स ! त्वयि किं मम जीवति // 30 //