________________ 241 अलीना अपि भो ! नार्यः, सर्वमायाकरण्डिकाः। को मायांजीर्णवेश्यानां, वत्स ! पृच्छेत्सकर्णकः॥७॥ शेषाभिरपि नारीभिः, स्नेहे दत्तो जलाञ्जलिः। यस्यास्था गणिकास्नेहे, स मूर्खपट्टबन्धकः // 8 // अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः / अन्यश्चित्ते परः पार्श्वे, गणिकानामहो नरः // 9 // कुर्वन्ति चाटुकर्माणि, यावत्स्वार्थः प्रपूर्यते / च्युतसारं विमुश्चन्ति, निर्लाक्षलक्तकं यथा // 10 // पुरापघसरप्राया, गणिकाः परिकीर्तिताः / ये तास्वपि च गृध्यन्ति, ते श्वानो न मनुष्यकाः // 11 // तस्मादेवंविधं नूनमन्येषामपि देहिनाम् / चरितं यैः कृतं पापैर्गणिकाव्यसने मनः // 12 // प्रकर्षणोक्तं-सत्यमेतनास्त्यत्र सन्देहः / ततोऽतिवाहितस्ताभ्यां क्वचिद्देवमन्दिरे रात्रिशेषः / अत्रान्तरे गलत्तारा, कथितध्वान्तकेशिका / नभाश्रीः पाण्डुरा जाता, रोगाघ्रातेव बालिका // 1 // आददानः श्रियं तस्या, निजवीर्येण भास्करः / कारुण्यादिव संजातः, सप्रभावो भिषग्वरः // 2 // ततोऽरुणप्रभाभिन्ने, पूर्वे गगनमण्डले / जाते रक्तेऽभ्रसङ्घाते, गतच्छाये निशाकरे // 3 // तस्करेषु निलीनेषु, लपत्सु कृकवाकुषु / कौशिकेषु च मूकेषु, कुररेषु विराविषु // 4 // स्वकर्मधर्मव्यापारच्छलेनेव कृतादरम् / सर्वं तदा जगज्जातमारोग्याथै नमःश्रियः ॥५॥त्रिभिविशेषकम् अथोदिते सहस्रांशौ, प्रबुद्धे कमलाकरे / सङ्गमे चक्रवाकानां, जने धर्मपरायणे // 6 // विमर्शः प्राह ते वत्स !, महदत्र कुतूहलम् / भवचक्रं च विस्तीर्ण, नानावृत्तान्तसङ्कलम् // 7 // स्तोककालावधिः शेषो, द्रष्टव्यं बहु तिष्ठति / न शक्यते ततः कर्तुमेकैकस्थानवीक्षणम् // 8 // तदिदं वचनं तात ! मामकीनं समाचर / आकालहीनं ते येन, पूर्यते तत्कुतूहलम् // 9 // य एष दृश्यते तुङ्गः, शुभ्रः स्फटिकनिर्मलः / महाप्रसादो विस्तीर्णो, विवेको नाम पर्वतः॥१०॥ आरूढदृश्यते भद्र ! समस्तमिह पर्वते / इदं विचित्रवृत्तान्तं, भवचक्रं महापुरम् // 11 // तदत्रारुह्यतां तात ! निपुणं च विलोक्यताम् / यच्च न जायते सम्यक्, पृच्छयतामेष तज्जनः // 12 // यतोऽत्राखिलवृत्तान्ते, विदिते नगरे तव / पश्चादपि न जायेत, चित्तौत्सुक्यं कदाचन // 13 // एवं भवतु तेनोक्ते, समारूढौ च पर्वते / अथ तत्र विवेकाख्ये, तुष्टौ स्वस्त्रीयमातुलौ // 14 // प्रकर्षः प्राह मामैष, रमणीयो महागिरिः / दृश्यते सर्वतः सर्व, भवचक्रं मयाऽधुना // 15 // किं तु देवकुले माम !, नग्नो ध्यानपरायणः / वेष्टितः पुरुषैर्दीनः, क्षामो मुत्कलकेशिकः 16 // नंष्टुकामो दिगालोकी, सेटिकाशुभ्रहस्तकः / दृश्यते पुरुषः कोऽयं, पिशाचाकारधारकः ? // 17 // विमर्शेनोदितं वत्स ! विख्यातातुलसंपदः / कुबेरसार्थवाहस्य, सूनुरेष कपोतकः // 18 // धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् / अस्य पूर्वगुणैः पश्चादाहृतोऽयं कपोतकः // 19 // अनर्घ्यरत्नकोटीभिः, पूरितं पापकर्मणा / अनेनापि पितुर्गेहें, श्मशानसदृशं कृतम् // 20 // छूतेषु रतचित्तोऽयं, न चेतयति किञ्चन / निर्वाहिते धन स्वीये, यतार्थ चौरिकापरः // 21 // चौर्य पुरेऽत्र कुर्वाणो, भूरिवारान् कदर्थितः / राज्ञाऽसौ मान्यपुत्रत्वात्केवलं न विनाशितः // 22 // अद्य रात्रौ पुनः सर्व, हारितं कर्पटादिकम् / ततो व्यसनतप्तेन, मस्तकेन कृतः पणः // 23 // एभिरेष महाधूर्वराकैः कितवैर्जितः / शिरोऽपि लातुमिच्छद्भिरधुनैवं विनाटयते // 24 // नंष्टुमेभ्यो न शक्नोति, स्वपापभरपूरितः / क्षुद्रैर्वितर्ककल्लोलैः, केवलं परितप्यते // 25 // प्रकर्षः प्राह न ज्ञातं, किमनेन तपस्विना / द्यूतं हि देहिनां लोके, सर्वानर्थविधायकम् ? // 26 // धनक्षयकरं निन्छ, कुलशीलविदूषणम् / प्रसूतिः सर्वपापानां, लोके लाघवकारणम् // 27 // संक्लिष्टचेतसो मूलमविश्वासकरं परम् / पापैः प्रवर्तितं घृतं, किमनेन न लक्षितम् ? // 28 //