________________ 240 ततो हाहेति जल्पन्तमुद्विग्नं तं स्वमातुलम् / प्रकर्षः प्राह ते माम !, किं व्यलीकस्य कारणम् ? // 47 // स प्राह वसनच्छन्नां, पुष्पालङ्कारभारिताम् / किमेनां निकटे त्वं नो, वीक्षसेऽशुचिकोष्ठिकाम् ? // 48 // तदस्या दूरतः स्थित्वा, देशे गन्धविवर्जिते। वृत्तान्तो योऽत्र जायेत, पश्यावस्तं निराकुलौ॥४९॥ निश्छिद्रा च भवेत् काचिदशुचेरपि कोष्टिका / इयं तु नवभिरैः, क्षरत्येवातिमुत्कला // 50 // तदहं क्षणमप्येकं, नात्र भोः स्थातुमुत्सहे / तुभ्यं शपे शिरोऽनेन, गन्धेन मम दुष्यति // 51 // प्रकर्षणोदितं माम !, सत्यमेतन संशयः / ममापि नासिका व्याप्ता, गन्धेनोत्पादितारतिः // 52 // तत्तूर्णमपसरावः / ततोऽपसृतौ विमर्शप्रकर्षा, स्थितौ सविलोके दूरदेशे / अत्रान्तरे संप्राप्तो रमणः, तदनु चाकृष्टबाणः समागत एव भयसहितो मकरध्वजः / दृष्टा रमणेन कुन्दलिका, ततः प्रत्युज्जीवित इव, सुधासेकसिक्त इव, संप्राप्तरत्ननिधान इव, महाराज्येऽभिषिक्त इव गतः परमहर्ष रमणः। अत्रान्तरे निर्गता निजगृहान्मदनमञ्जरी, दृष्टस्तयाऽसौ, लक्षिता च सकिञ्चनता / ततः संज्ञिता कुन्दकलिका, निरीक्षितः कुन्दकलिकया रमणः, संजातः प्रहृष्टतरः / अत्रान्तरे विज्ञायावसरमाकान्तमापूर्य विमुक्तो मकरध्वजेन शिलीमुखः२, ताडितस्तेन रमणः, गृहीताऽनेन कण्ठे कुन्दकलिका, प्रविष्टोऽभ्यन्तरे, निकटीभूता मदनमञ्जरी, समर्पितं रूपकादि सर्वस्वं, गृहीतमनया, कृतोऽसौ यथाजातः / ततोऽभिहितं मदनमञ्जर्या-वत्स ! सुन्दरमनुष्ठितं भवता यदिहागतोऽसि समुत्सुका त्वयि वत्सा कुन्दकलिका, किं तु भीमनृपतेः सुतश्चण्डो नाम राजपुत्रः साम्प्रतमिहा जिगमिषुर्वर्तते, तदत्रावलीनो भवतु वत्सः / एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः / बेश्यावि- __अत्रान्तरे समागतो द्वारि चण्डः, समुल्लसितो बहुलकलकलः, विजुम्भितो भयः, प्रकम्पितो रमणः, प्रविष्टश्चण्डः, दृष्टोऽनेन रमणः, गृहीतः क्रोधेन चण्डः, समाकृष्टाऽसिपुत्रिका, समाहूतो रणाय रमणः / ततो गतेन दैन्यं, प्राप्तेन नैर्लज्ज्यं, नीतेन क्लीबतां, भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीगृहीतदन्तेनाष्टाङ्गपादपतनं, त्रायस्व देव ! त्रायस्वेति भाषितानि करुणवचनानि, संपन्ना चण्डस्य दया, न मारितोऽसौ केवलं रोषोत्कर्षात् छिन्नो ऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ कण विदलिता दशनपङ्कितः लूषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो मुखे वामपादपाणिप्रहारः निःसारितो भवनात्, हसितं सहस्ततालं मदनमञ्जरीकुन्दकलिकाभ्यां, प्रत्यायितश्चण्डोऽपि पेशलवचनैः कृतो हृतहृदयः / रमणस्तु निर्गच्छनितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकसमं दुःखं वियुक्तः प्राणैः कृच्छ्रेण / ततः प्रकर्षणोक्तं--अहो मकरध्वजसामर्थ्यमहो भयविलसितं, अहो कुट्टनीप्रपञ्चचातुर्य, अहो सर्वथा करुणास्थानं सोपहासप्रेक्षणकप्रायं चेदं रमणचरितमिति / विमर्शेनोक्तं-वत्स ! [ये] गणिकाव्यसने रक्ता, भवन्त्यन्येऽपि मानवाः। तेषामेवंविधान्येवचरितानि न संशयः // 1 // वस्त्रभूषणतम्बूलगन्धमाल्यविलेपनैः / हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् // 2 // संचरिष्णुमहाविष्ठाकोष्ठिकाभिर्विमूढकाः / वाञ्छन्तस्ताभिराश्लेष, कुर्वन्त्येव धनक्षयम् // 3 // ततो भिक्षाचरप्राया, भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते, तामवस्थां गता अपि // 4 // ततस्ते प्राप्नुवन्त्येव, वेश्याव्यसननाटिताः / एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् // 5 // चलचित्ताः प्रकृत्यैव, कुलजा अपि योषितः। चटुलत्वेन वेश्यानां तात ! कः प्रश्नगोचरः? // 6 // पाका 1. बदामि / 2. बाणः।