________________ 226 विमर्शनाभिहितं--वत्स ! समाकर्णय साम्प्रतं श्रुतं मयाऽऽप्तजनसकाशात्पूर्व यदुत अस्ति समस्तवृत्तान्तसन्तानाधारविस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमितलं भवचक्रं नाम नगरं, अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहून्यवान्तरपुराणि, सन्ति बहुतराः पाटकाः, संभवन्ति बहुतमा भवनपङ्क्तयः, संभाव्यन्ते भूयांसि देवकुलानि, सङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रतिवसन्ति / ततोऽहमेवं वितर्कयामि यदुत विद्यन्ते तत्र भवचक्रे नगरे बहिरङ्गलोकाः यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्येण विक्षिप्त इति / __ प्रकर्षः प्राह-माम ! तत् किमन्तङ्गं तनगरं ? किं वा बहिरङ्गमिति ? विमर्शेनोक्तं-तात ! न शक्यते तदेकपक्षनिक्षेपेणावधारयितुं यथाऽन्तरङ्गं यदिवा बहिरङ्गमिति, यस्मात्तत्र यथा बहिरगजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते, यतोऽमीषां प्रतिपक्षभूतोऽसौ सन्तोषस्तत्रैव नगरे श्रूयते ततोऽमीभिरनुविद्धं समस्तं नगरम् / प्रकर्षणोक्तं-नन्वमी अत्र वर्तमानाः कथं तत्र विद्येरन् ? विमर्शेनोक्तं-तात ! योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते, न कश्चिद्विरोधः, यतो जानन्ति यथेष्टबहुविधरूपकरणं, कुर्वन्ति परपुरप्रवेश, समाचरन्ति चान्तर्धानं, पुनः प्रकटीभवन्ति यथेष्टस्थानेषु, ततोऽचिन्त्यमाहात्म्यातिशयाः खल्वेते राजानः, ते यथाकामचारितया कुत्र न विद्येरन् ? तस्मादुभयलोकाधारतोभयरूपमेवैतद्भद्र ! भवचक्रं नगरम् / प्रकर्षणोक्तं तर्हि यदि तत्र सन्तोषो वर्तते, ते चामीषां भूभुजां दर्पोद्दलनकारिणो महात्मानो प्रतिगमनेच्छा लोका विद्यन्ते ततो द्रष्टव्यं तनगरं, महन्मे कुतूहलं अनुग्नहेण दर्शयतु माम ! गच्छावस्तावत्तत्रैव नगरे। विमर्शेनोक्तं-ननु सिद्धमिदानीमावयोः समीहितं, दृष्टो विषयाभिलाषो मन्त्री, निश्चितमस्य रसनाजनकत्वं, अतोऽवगता तस्याः सम्बन्धिनी मूलशुद्धिः, संपादितं राजशासनं, अतः किमधुनाऽन्यत्र गतेन ? स्वस्थानमेवावयोगन्तुं युक्तम् / प्रकणेणोक्तं--माम ! मैवं वोचः, यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तदर्शनकौतुकं, ततो नादर्शितेन तेन गन्तुमर्हति मामः. दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन, निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुद्वयमात्रमतिक्रान्तं, यतोऽधुना शिशिरो वर्तते, तथाहि-पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते साम्प्रतं प्रियङ्गुलताः, विकासहास निर्भरा विराजन्तेऽधुना रो-वल्लयः, विदलितमुकुलमञ्जरीकमिदानीं विभाति तिलकवनम् / शिशिरतु- अपि च-शिशिरतुषारकणकनिर्दग्धमशेषसरोजमण्डलं, सह किसलयविलाससुभगेन महातरुकाननेन भोः ! / वर्णनम् पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं. नन खलसदृश एष तोषादिव हसति कुन्दपादपः // 1 // नूनमत्र शिशिरे विदेशगाः, सुन्दरीविरहवेदनातुराः। शीतवातविहताःक्षणे क्षणे, जीवितानि रहयन्ति मूढकाः॥ पश्य माम ! कृतमुत्तरायणं, भास्करेण परिवर्धितं दिनम् / शर्वरी च गमितेषदूनतां, पूर्वरात्रिपरिमाणतोऽधुना // 3 // बहलागरुधृपवरेऽपि गृहे, वरहल्लककम्बलतूलियुते / बहुमोहनृणां शिशिरेऽत्र सुखं, न हि पीनवपुर्ललनाविरहे॥४॥ अथापि वर्धितं तेजो, महत्त्वं च दिवाकरे / अथवा-विमुक्तदक्षिणाशे किं, म्लानिलाघवकारणम् // 5 // कार्यभारं महान्तं निजस्वामिनो, यान्त्यनिष्पन्नमेते विमुच्याधुना / पश्य माम ! स्वदेशेषु दुःसेवकाः, शीतभीताः स्वभार्याकुचोष्माशया // 6 // ये दरिदा जराजीर्ण देहाश्च ये. वातला ये च पान्था विना कन्थया / भोः कदा शीतकालोऽपगच्छेदयं, माम ! जल्पन्ति ते शीतनिर्वेदिताः // 7 // यावमश्वादिभक्ष्याय लोल्यते, भूरिलोकं तुषारं तु दोयते /