________________ 223 तथाहि-अवयव्यत्र सामान्य, विशेषोऽवयवाः स्मृताः। राजानचांशिनो ज्ञेयास्तदंशास्तु पदातयः।।५४३॥ इह च--नायातः कस्यचित्साक्षादेकदा ज्ञानगोचरम् / यथैतौ प्रकृतिस्तात !, सा सामान्यविशेषयोः॥५४४॥ देशकालस्वभावैश्व, भेदोऽपि च न विद्यने / तादत्म्यादेतयोस्तात !, तेनैकः प्रतिभाति ते // 545 // तथाहि-के तरोदिनः सन्तु, धवाम्रखदिरादयः। धवाम्रादिविनाभूतः, कस्ता प्रकाश्यताम्॥५४६॥ श्रुतस्कन्धातिरेकेण, नास्त्यध्ययनसंभवः / न चाध्ययननिर्मुक्तः, श्रुतस्कन्धोऽस्ति कश्चन // 547 // केवलं यौगपद्येन. न हौ तावितीयता / नायवेव तौ वत्स!, कालभेदेन दर्शनात // 548 // तथाहि-दृश्यते हि तरुर्दुरान्न लक्ष्यन्ते धवादयः। अभ्यर्णे तेऽपि दृश्यन्ते लक्ष्यते न तरुः पृथक् // 549 // तथापि तवयं दृष्टं, कालभेदेऽपि कीर्त्यते। यथाक्रमेण दृष्टत्वाद् भूपा (दवा)द्याश्चक्षुरादिभिः॥५५०॥ अतो भेदेन दृष्टत्वाद्भिनमेवेदमिष्यताम् / अभिन्नस्य हि नो भिन्न, कालभेदेऽपि दर्शनम् // 551 // तथाहि-अभेदेऽपि स्वभावाद्यैर्यत्सामान्यविशेषयोः। संख्यासंज्ञाऽङ्ककार्येभ्यो, भेदोऽप्यस्ति परिस्फुटः // 552 // तेन तद्द्वारजः सर्वो व्यवहारो न दुष्यति / भेदाभेदात्मके तत्त्वे भेदस्येत्थं निदर्शनात् // 553 // तथाहि-संख्यया तरुरित्येको, भूयांसः खदिरादयः। संज्ञाऽपि तरुरित्येषां, धवाम्रार्कादिभेदिनाम् // 554 // अनुवृत्तिस्तरोस्तेषु, लक्षणं पृथगीक्ष्यते / धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् // 555 // कार्य तु तरुमात्रेण, साध्यं छायादिकं पृथक् / विशिष्टफलपुष्पाद्यमन्यदेवाम्रकादिभिः // 556 // व्यवहारोऽपि सामान्ये, श्रुतस्कन्धेऽन्य एव हि / अन्य एवास्य भेदेषु, यदुद्देशादिलक्षणः // 557 // तस्मात्तं भेदमाश्रित्य संख्यासंज्ञादिगोचरम् / अभेदं च तिरोधाय, देशकालस्वभावजम् // 558 // राजानः परिवाराश्च, मया वत्स ! पृथक पृथक् / नामतो गुणसंख्याभ्यां, तवाग्रे परिकीर्तिताः ॥५५९।।युग्मम् एवं च भेदिनोऽप्येते न परस्परभेदिनः / यौगपद्येन भासन्ते, भद्र तन्मुश्च संशयम् // 560 // .. न चान्यत्रापि कर्तव्यो, विस्मयो लक्षणादिभिः। कथ्यमाने मया भेदे,भोः सामान्यविशेषयोः॥५६॥ प्रकर्षेणोदितं माम !, नष्टोऽयं संशयोऽधुना / ममैष माम ! सन्देहः, परिस्फुरति मानसे // 562 // यदुत-य एते सप्त राजान, एतेषां मध्यवर्तिनः / तृतीयश्च चतुर्थश्च, पञ्चमः षष्ट एव च // 563 // एते महीपाश्चत्वारो यथा व्यावर्णितास्त्वया / तथा जनस्य लक्ष्यन्ते सुन्दरेतरकारिणः // 564 // नैकान्तेनैव सर्वेषामपकारपरायणाः / एते हि बाह्यलोकानां, केषाश्चित्सुखहेतवः // 565 // त्रिभिर्विशेषकम् / आधो राजा द्वितीयश्च, यश्च पर्यन्तभूपतिः। दुःखदा एव सर्वेषां, त्रयोऽप्येते तु देहिनाम् // 566 // ततः सपरिवारेण महामोहमहीभुजा / एतैश्च हृतसाराणां, तेषां किं नाम जीवितम् ? // 567 // एवं च स्थिते-किं विद्यन्ते जनाः केचिदबहिरङ्गेषु देहिषु ? / अमीभिर्न कदर्थ्यन्ते, ये चतुभिररातिभिः // 568 // किंवा न संभवन्त्येव. तादृशा माम ! देहिनः। येऽमीषां निजवीर्येण, प्रतापक्षतिकारिणः॥५६९॥ तच्छ्रुत्वा भागिनेयोक्तं, वचनं विहितादरः / अवादीदीदृशं वाक्यं, विमर्शों मधुराक्षरैः // 570 // विद्यन्ते बहिरङ्गेषु, वत्स ! लोकेषु तादृशाः। एतेषां वीर्यनिर्णाशाः, केवलं विरला जनाः // 571 // तथाहि—सद्भूतभावनामन्त्रतन्त्रशास्त्रा महाधियः। कृतात्मकवचा नित्यं, ये तिष्ठन्ति बहिर्जनाः॥५७२॥ अप्रमादपरास्तेषामेते सर्वेऽपि भूभुजः। महामोहादयो वत्स ! नोपतापस्य कारकाः॥५७३॥ युग्मम् / यतः सततं भावयन्त्येवं, निर्मलीमसमानसाः / जगत्स्वरूपं ये धीराः, श्रद्धासंशुद्धबुद्धयः // 574 // कथम् ?–अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः / राधावेधोपमा लोके, दुर्लभा च मनुष्यता // 575 // मूलं हि सर्वकार्याणामाशापाशनिबन्धनम् / जलबुबुदसंकाशं, दृष्टनष्टं च जीवितम् // 576 // बीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः / गम्यं रोगपिशाचानां, शरीरं क्षणभंगुरम् // 577 //