________________ 212 मिथ्यादर्शनमहिमा अनेन तन्त्रितं राज्यं, वहत्यस्य महीपतेः / बलसम्पादकोऽत्यर्थममीषामेष भूभुजाम् // 170 // अत्रैव संस्थितो भद्र ! निजवीर्येण देहिनाम् / यदेष बहिरङ्गानां, कुरुते तन्निबोध मे // 171 // अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् ।अतत्त्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् // 172 // अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् / संसारहेतौ निर्वाणहेतुभावं करोत्ययम् // 173 // युग्मम् / तथाहि-हसितोद्गीतविब्बोकनाटयाटोपपरायणः / हताः कटाक्षविक्षेपैर्नारीदेहार्धधारिणः // 174 // कामान्धाः परदारेषु, सक्तचित्ताः क्षतत्रपाः / सक्रोधाः सायुधा घोरा, वैरिमारणतत्पराः // 175 // शापप्रसादयोगेन, लसच्चित्तमलाविलाः। ईदृशा भो! महादेवा, लोकेऽनेन प्रतिष्ठिताः।१७६। त्रिभिर्विशेषकम् / ये वीतरागाः सर्वज्ञा, ये शाश्वतसुखेश्वराः / क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः // 177 // शान्तक्रोधा गताटोपा, हास्यस्त्रीहेतिवर्जिताः। आकाशनिर्मला धीरा, भगवन्तः सदाशिवाः // 178 // शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः / त्रिकोटिशुद्धशास्त्रार्थदेशकाः परमेश्वराः // 179 // ये पूज्याः सर्वदेवानां, ये ध्येयाः सर्वयोगिनाम् / ये चाज्ञाकारणाराध्या, निद्वन्द्वफलदायिनः॥१८॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः / देवाः प्रच्छादिता भद्र !, न ज्ञायन्ते विशेषतः // 18 // पञ्चभिः कुलकम् / तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः। स्नानं पानं च धूमस्य, पञ्चाग्नितपनं तथा // 182 // तर्पण चण्डिकादीनां, तीर्थान्तरनिपातनम् / यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः // 183 // वापीकूपतडागादिकारणं च विशेषतः / यागे मन्त्रप्रयोगेण, मारणं पशुसंहतेः // 184 // कियन्तो वा भणिष्यन्ते ! भूतमर्दनहेतवः / रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः // 185 // सर्वेऽपि बलिनाऽनेन, मुग्धलोके प्रपञ्चतः। ते मिथ्यादर्शनावेन, भद्र ! ज्ञेयाःप्रवर्तिताः॥१८६।। पञ्चभिः कुलकम्॥ शान्तिमार्दवसन्तोषशौचार्जवविमुक्तयः / तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः // 187 // अहिंसास्तेयसद्धयानवैराग्यगुरुभक्तयः / अप्रमादसदैकाउयनैर्ग्रन्थ्यपरतादयः // 188 // ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः / सद्धर्मा जगदानन्दहेतवो भवसेतवः // 189 // तेषामेष प्रकृत्यैव, महामोहमहत्तमः / भवेत्प्रच्छादनो लोके, मिथ्यादर्शननामकः॥१९०॥ चतुर्भिःकलापकम् तथा-श्यामाकतण्डुलाकारस्तथा पश्चधनुशतः। एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः // 191 // क्षणसन्तानरूपो वा, ललाटस्थो हृदि स्थितः / आत्मेति ज्ञानमात्रं वा, शून्यं वा सचराचरम् // 192 // पञ्चभूतविव? वा, ब्रह्मोप्तमिति वाऽखिलम् / देवोप्तमिति वा ज्ञेयं, महेश्वरविनिर्मितम् // 193 // प्रमाणबाधितं तत्त्वं, यदेवंविधमञ्जसा / सद्बुद्धिं कुरुते तत्र, महामोहमहत्तमः // 194 // चतुर्भिः कलापकम् // जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः / आस्रवो बन्धमोक्षौ च, तत्त्वमेतनवात्मकम् // 195 // सत्यं प्रतीतितः सिद्ध, प्रमाणेन प्रतिष्ठितम् / तथापि निझुते भद्र ! तदेष जनदारुणः ॥१९६।युग्मम् / तथा-गृहिणो ललनाऽवाच्यमर्दका भूतघातिनः। असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपग्रहे रताः // 197 // तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च / मद्यपाः परदारादिसेविनो मार्गदूषकाः // 198 // तप्तायोगोलकाकारास्तथापि यतिरूपिणः / ये तेषु कुरुते भद्र ! पात्रबुद्धिमयं जने // 199 // त्रिभिविशेषकम् सज्ज्ञानध्यानचारित्रतपोवीर्यपरायणाः / गुणरत्नधना धीरा, जगमाः कल्पपादपाः // 200 // संसारसागरोत्तारकारिणो दानदायिनाम् / अचिन्त्यवस्तुबोहित्थतुल्या ये पारगामिनः // 201 // तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् / एषोऽपात्रधियं धत्ते, महामोहमहत्तमः॥२०२। त्रिभिर्विशेषकम् / तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् / निर्विषीकरणं तन्त्रमन्तर्धानं सविस्मयम् // 203 // मिथ्यात्व. वर्णन