________________ --207 माहारं वेल्लहलः / ततः समुत्कटतयाऽजीर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः तथापि बलादेव क्रामितः कियानपि वेल्लहलेन / ततः समुदत्तं हृदयं संजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनम् / ततश्चिन्तितं वेल्लहलेन-- क्षुधाक्षामं शरीरं मे, नूनमूनतया भृशम् / एतद्धि वायुनाऽऽक्रान्तमन्यथा वमनं कुतः // 1 // एवं स्थिते-रिक्तकोष्ठं शरीरं मे, वाताक्रान्तं विनश्यति। ततश्च प्रीणयामीदं, भुजे भूयोपि भोजनम् // 2 // ततोऽसौ वान्तिसंमिश्रं, तत् पुरःस्थितभोजनम् / निर्लज्जो भोक्तुमारब्धः, सर्वेषामपि पश्यताम् // 3 // तदृष्ट्वा समयज्ञेन, प्रोक्तः पूत्कुर्वता भृशम् / देव देव ! न युक्तं ते, कर्तु काकस्य चेष्टितम् // 4 // मा च राज्यं शरीरं च, यशश्च शशिनिर्मलम् / देव ! हारय भक्तेन त्वमेकदिनभाविना // 5 // अन्यच्चेदं सतां निन्द्यममेध्यं शौचदूषणम् / उद्वेगहेतुों भक्तं, देवः खादितुमर्हति // 6 // देव ! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् / गाढमुल्बणदोषाणा, विशेषेण भवादृशाम् // 7 // का वाऽस्योपरि ते मूर्छा ? यद्बाह्यं पुद्गलात्मकम् / अतो देव ! विहायेदमात्मानं रक्ष यत्नतः॥८॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा / स राजपुत्रः श्रुत्वाऽपि, स्वचित्ते पर्यचिन्तयत् // 9 // अहो विमूढः खल्वेष, समयज्ञो न बुध्यते / नूनं मदीयप्रकृति, नावस्थां न हिताहितम् // 10 // यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति / एतच्च दूषयत्येष, भोजनं देवदुर्लभम् // 11 // तत्किमेतेन मूर्खण ? भुञ्ज भोज्यं यथेच्छया / स्वार्थसिद्धिर्मया कार्या, कि ममापरचिन्तया? // 12 // ततः परिजनेनोच्चैः, सहितेऽपि पुनः पुनः / समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् // 13 // ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा / सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा // 14 // पुनर्वमनबीभत्से, ततस्तत्रैव भूतले / पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः // 15 // स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे / कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा // 16 // अनाख्येयामचिन्त्यां च, तेपार द्वेगकारिणीम् / अशक्यप्रतिकारां च, प्राप्तोऽवस्था सुदारुणाम् // 17 // न शक्यः समयज्ञेन, त्रातुमेष न बान्धवैः। तदवस्थो न राज्येन, न देवैर्नापि दानवैः // 18 // केवलं तदवस्थेन, लुठताऽशुचिकर्दमे ! अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना // 19 // तदेष भद्रे ! दृष्टान्तः, प्रस्तुतानां परिस्फुटः / वस्तूनां भेदसिद्धयर्थ, मया तुभ्यं निवेदितः // 20 // ततोऽगृहीतसङ्केता, प्राह विवलमानसा / संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते // 21 // यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् / त्वयेदं तत्र मे भाति, कोष्ट्रो नीराजना क च ? // 22 // अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि / स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् // 23 // ततः संसारिजीवेन, तद्दार्टान्तिकयोजने / बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता // 24 // कथम् ?–अस्याः प्रज्ञाविशाले ! त्वं, निःशेष मत्कथानकम् / घटय प्रस्तुतार्थेन, निजशीलक(त)या स्फुटम् // 25 // कथोपनयः अथ प्रज्ञाविशालाऽऽह, काम भोः कथयामि ते / भद्रेऽगृहीतसङ्केते ! समाकर्णय साम्प्रतम् // 26 // यस्ते वेल्लहलो नाम, राजपुत्रो निदर्शितः। एषोऽनेन विशालाक्षि ! प्रोक्तो जीवः सकर्मकः // 27 // स एव जायते भद्रे ! नगरे भुवनोदरे / अनादिसंस्थितिसुतः, स एव परमार्थतः // 28 // स एवानन्तरूपत्वादहिरङ्गजनः स्मृतः / सामान्यरूपमुद्दिश्य, स चैकः परिकीर्तितः // 29 // मनुष्यभावमापन्नः, स प्रभुः सर्वकर्मणाम् / महाराजसुतस्तेन, स प्रोक्तोऽने न सुन्दरि ! // 30 // तस्यैव सत्का विज्ञेया, चित्तवृत्तिर्महाटवी / सुन्दरेतरवस्तूनां, सा तस्येव च कारणम् // 31 //