________________ वेल्लहलकुमारकथा 206 भद्र ! भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमर्थ परिचोदितस्त्वं मयेति / प्रकर्षः प्राह--साधु साधूक्तं मामेन, पृच्छामि तौंदानी किश्चिद्भवन्तम् / विमर्शेनोक्तं -प्रश्नयतु भद्रः / प्रकर्षः प्राह--माम ! यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभृता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिवर्तिका सभावार्था चित्तवृत्तिर्महाटवी, एतानि तु महानदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तूनि यानि भवता प्रमत्ततातद्विलसितचित्तविक्षेपतृष्णाविपर्यासाविद्यामहामोहाभिधानानि निवेदितानि तानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि, विकल्पितानि मया यथा नाम्ना परमेतानि भिद्यन्ते नार्थेन, यतः सर्वाण्यपि पुष्टिकारणतयाऽमीषामन्तरङ्गलोकानामनर्थकारणतया च बहिरङ्गजनानां समानानि वर्तन्ते ततो यद्यतेपामस्ति कश्चिदर्थेन भेदस्तं मे निवेदयतु मामः / विमर्शः प्राह-ननु निवेदित एव प्रत्येकमेतेषां गुणान् वर्णयता मया परिस्फुटोऽर्थभेदः तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि / ततः कथितो विमर्शन महानद्यादीनां वस्तूनां प्रत्येकं भावार्थः, बुद्धः प्रकर्षण / __अत्रान्तरे नरवाहनः प्राह-भदन्त ! वयमपि बोधनीयास्तेषां भावार्थ, ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणमूरिणा / ततोऽगृहीतसङ्केतयाऽभिहितं-भद्र ! संसारिजीव ! तर्हि यद्येवं ततोऽहमपीदानीं तेषां महानद्यादिवस्तूनांबोधनीया भवताऽर्थभेदम् / संसारिजीवेनोक्तं-भद्रे ! स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावसेयमेतेषां प्रविभक्तं स्वरूपं, अतो दृष्टान्तं कथयिष्ये। अगृहीतसङ्केतयोक्तं-अनुग्रहो मे। संसारिजीवेनाभिहितं-अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरं, तंत्र च निवारको हरिहरहिरण्यगर्भादीनामपि प्रभुशक्तेरनादिर्नाम राजा, तस्य च नीतिमार्गनिपुणाऽविच्छेदकारिणी कुयुक्तिमिथ्याविकल्पजल्पानां संस्थिति म महादेवी, तयोश्चात्यन्तवल्लभोऽस्ति वेल्लहलो नाम तनयः, स च गाढमाहारप्रियो दिवानिशमनवरतं विविधखाद्यपेयानि भक्षयनास्ते, ततः संजातं महाऽजीर्ण, प्रकुपिता दोषाः, संपन्नोऽन्तींनो ज्वरः, तथापि न विच्छिद्यते तस्याहाराभिलाषः, प्रवृत्ता चोद्यानिकागमनेच्छा, ततः कारिता भूरिप्रकारा भक्ष्यविशेषाः, तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्मामीति प्रवर्तन्ते चित्तकल्लोलाः लौल्यातिरेकेण च भक्षितं सर्वेषामाहारविशेषाणां स्तोकस्तोकं, ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन ददद्दानं विविधैर्विलासैमहता विमर्दैन प्राप्तो मनोरमे कानने, निविष्टं सुखमासनं, तत्र चोपविष्टस्य विरचिताः पुरतो विविधाहार विस्ताराः, ततथाहारलेशभक्षणेन पवनस्पर्शादिना गाढतरं प्रवृद्धो ज्वरः, लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन यदुत आतुरवदनो दृश्यते कुमारः / ततो दत्तस्तेन शङ्खयोर्हस्तः, निरूपितानि सन्धिस्थानानि, निश्चितमनेन यथा ज्वरितः खल्वयं कुमारः / ततोऽभिहितं समयज्ञेन-देव ! न युक्तं तव भोक्तुं, प्रबलज्वरं ते शरीरं वर्तते, यतोऽत्यन्तमातुरा घूर्णते दृष्टिः आताम्रस्निग्धं वदनकमलं द्रगद्रगायेते शङ्खौ धमधमायन्ते सन्धिस्थानानि ज्वलतीव बहिस्त्वम् दहतीव हस्तं, ततो निवर्तस्व भोजनात्, गच्छ प्रच्छन्नापवरके, भजस्व निवातं, कुरुष्व लङ्घनानि, पिब कथितमुदकं, समाचर विधिनाऽस्य सवी प्रतिक्रियां, इतरथा सनिपातस्ते भविष्यति / स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्ते तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामीति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु स्वीयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं नाकलयति अस्य हितरूपतां न चेतयते तं वारणार्थ लगन्तमपि शरीरे / ततो वारयतो वचनेन धारयतो हस्तेन तस्य समयज्ञस्य समक्षमेव बलात्प्रवृत्तो भक्षयितु