________________ गमनं प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी / संसारचक्रविभ्रान्तिहेतुर्नारी बुधैर्मता // 42 // पुंभिरास्वादितं दिव्यं, विवेकामृतभोजनम् / क्षु देव वामयत्येषा, भुज्यमाना न संशयः // 43 // अनृतं साहसं माया, नैर्लज्ज्यमतिलोभिता / निर्दयत्वमशौचं च, नार्याः स्वाभाविका गुणा // 44 // वत्स ! कि बहुनोक्तेन?, ये केचिद्दोषसश्चयाः / ते नारीभाण्डशालायामाकालं सुप्रितिष्ठिताः // 45 // तस्मात्तस्याः सदा पुंसा, न कर्तव्यो हितैषिणा / विश्रम्भवशगो ह्यात्मा, तेनेदमभिधीयते॥४६॥ येयं ते रसना भार्या, संपन्ना लोलतायुता / न सुन्दरैषा मे भाति, को बा योगस्तवानया // 47 // यतो न ज्ञायतेऽद्यापि, कुतस्त्येयं ततस्त्वया / सङ्ग्रहं कुर्वताऽमुष्या, मूलशुद्धिः परीक्ष्यताम् // 48 // यतः-अत्यन्तमप्रमत्तोऽपि, मूलशुद्धेरवेदकः / स्त्रीणामर्पितसद्भावः, प्रयाति निधनं नरः॥४९॥ ततो निजचारुतयाऽभिहितं--वत्स विचक्षण ! सुन्दरं ते जनकेन मन्त्रितं अन्विष्यतामस्या रसनाया मूलशुद्धिः, को दोषः ? विज्ञातकुलशीलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति, बुद्धयाऽभिहितं-आर्यपुत्र ! यद्गुरू आज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य, अलङ्घनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति / रसनामूल- प्रकर्षः प्राह-तात ! सुन्दरमम्बया जल्पितम् / विमर्शनोक्तं-को वाऽत्रासुन्दरं वक्तं जानीते? शुद्धये विम- सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति / विचक्षणेन चिन्तितं-सुन्दरमेतानि मन्त्रयन्ति, शप्रकर्ष न संग्रहणीयैव विदुषा पुरुषेणाविज्ञोतकुलशीलाचारा ललना, केवलं कथितमेव मम लोलतया रसनायाः सम्बन्धि मलोत्थानं, विज्ञातश्चाधना मया शीलाचारो यदुत खादनपानप्रियेयं रसना। अथवा नहि नहि, को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् ? किं पुनर्दासचेटयः, तत्कीदृशो मम लोलतावचने संप्रत्ययः ? शीलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग विज्ञायते, न यथाकथश्चित्, तत्किमनेन बहुना ? करोमि तावदहं तातादीनामुपदेशं गवेषयाम्यस्या रसनाया मूलशुद्धिम्। ततो विज्ञाय यथोचितं करिष्यामीति विचिन्त्य विचक्षणेनाभिहितं---यदाज्ञापयति तातः, केवलं तातः स्वयमेव निरूपयतु, कः पुनरत्र रसनामूलशुद्धिगवेषणाथै प्रस्थापनायोग्य इति / शुभोदयेनोक्तं वत्स ! अयं विमर्शः परमरूपकार्यभरस्य निर्वाहणक्षमः / तथाहि-युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः / अयुक्तं युक्तवद्भाति, विमर्शेन विना जने // 1 // तस्य हेयमुपादेयमुपादेयं च हेयताम् / भजेत वस्तु यस्यायं, विमर्शों नानुकूलकः // 2 // अत्यन्तगहने कार्ये, मतिभेदतिरोहिते / विमर्शः कुरुते नृणामेकपक्षं विवेचितम् // 3 // किं च-नरन्य नार्या देशस्य, राज्यस्य नृपतेस्तथा / रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा // 4 // देवानां सर्वशास्त्राणां, धर्माधर्मज्यवस्थितेः। विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्त्रये // 5 // येषामेष महाप्राज्ञो, वत्स ! निर्देशकारकः / ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् / / 6 / / अतो धन्योऽसि यस्यायं, विमर्शस्तव बान्धवः / न कदाचिदधन्यानां, चिन्तारत्नेन मीलकः // 7 // एष एव नियोक्तव्यो, भवताऽत्र प्रयोजने / भानुरेव हि शर्वर्यास्तमसः क्षालनक्षमः // 8 // विचक्षणेनाभिहितं--यदाज्ञापयति तातः, ततो निरीक्षितमनेन विमर्शवदनम् / विमर्शः प्राह-अनुग्रहो मे। विचक्षणेनोक्तं-यद्येवं ततः शीघं विधीयतां भवता तातादेशः। विमर्शेनाभिहितम्-एष सजोऽस्मि, केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयांसि राज्यान्तराणि तद्यदि कथश्चिन्मे कालक्षेपः