________________ फलविशेषो दर्शितो, यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखं, यश्चायं समुल्लसितो लोकमध्ये यशःपटहो, न च संपन्नः कचिदपायगन्धोऽपि विचरतस्तस्य अस्य समस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं, तथापि मयि सप्रसादे नैतावन्मात्रमेवास्य फलमुचितं इति प्रिये ! विशिष्टतरफलसंवादनार्थमस्य मनीषिणो यत्नं कुरुष्वेति / शुभसुन्दर्युवाच--साध्वार्यपुत्र ! साधु, सुन्दरमभिहितं देवेन, स्थितं ममापीदं हदये, योग्य एव मनीषी देवप्रसादानां, तदेषाऽनुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः, विहितमन्तर्धानं, प्रविष्टा गता मनीषिशरीरे, प्रादुर्भतोऽस्य प्रमोदः, सिक्तममृतसेकेनाम्बा (त्म) शरीरं, प्रवृत्ता निजविलसितोद्यानगमनेच्छा, प्रस्थितस्तदभिमुखं, चिन्तितमनेन कथमेकाकी गच्छामि, बहुश्च कालो गृहप्रविष्टस्य तिष्ठतो मध्यमबुद्धरतीतो, विस्मृतोऽधुना लोकस्य बालवृत्तान्तो, व्यपगतं तस्य लज्जाकारणं, अतस्तमपि निजविलसितोद्याने नयामीति विचिन्त्य गतो मनीषी मध्यमबुद्धिसमीपं, निवेदितं तस्मै निजाकूतम् / इतश्च कमविलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसंपत्तये तथैव प्रोत्साहिता, सा ह्यकुशलमालाशुभसुन्दर्योः साधारणवीर्या विचित्रफलदायिनी स्वरूपतो वर्त्तते, ततस्तयाऽधिष्ठितमूर्तेर्मध्यमबुद्धेरपि प्रवृत्ता तत्र गमनेच्छा, बालस्तु भवताऽप्यवश्यं गन्तव्यमिति वदता बलामोटिकया प्रवर्तितो मध्यमबुद्धिना / गतास्त्रयोऽपि निजविलसितोद्याने / अथ नानाविधेस्तत्र, विलसन्तः कुतूहलैः / प्रमोदशेखरं नाम प्राप्तास्ते जिनमन्दिरम् // 1 // तच्च मेरुवदुत्तुङ्ग, विशालं साधुचित्तवत् / देवलोकाधिकं मन्ये, सौन्दर्योदार्ययोगतः॥२॥ युगादिनाथबिम्बेन श्रीमता तदधिष्ठितम् / समन्ताद दूरमो(गो)त्तुङ्गप्राकारपरिवेष्टितम् // 3 // पुरतो लोकनाथस्य, स्तोत्राणि पठतो मृदा। तत्र श्रावकलोकस्य, ध्वनिमाकर्ण्य पेशलम // 4 // किमेतदिति संचिन्त्य, कौतुकाक्षिप्तमानसाः। प्रविष्टा जैनसदने, ते त्रयोऽपि कुमारकाः // 5 // युग्मम् अथ दक्षिणमूर्तिस्थो, देवाजिरविभूषणः। विनीतसाधुलोकस्य, मध्यवर्ती तपोधनः // 6 // जिनेन्द्रगदितं धर्ममकलङ्क सनातनम् / संसारसागरोत्तारमाचक्षाणः सुदेहिनाम् // 7 // प्रविशद्भिर्महाभागश्चन्द्रवत्तारकैर्वृतः / प्रबोधनरति(रः, स सूरिस्तैर्विलोकितः॥८॥ त्रिभिर्विशेषकम् भाविभद्रतया जैन, बिम्ब नत्वा मनीषिणा / सूरेः शेषमुनीनां च, विहितं पादवन्दनम् // 9 // ततस्तदनुरोधेन, मनाक् संशुद्धबुद्धिना / देवसाधुनमस्कारः, कृतो मध्यमबुद्धिना // 10 // पापमातृवयस्याभ्यामधिष्ठितशरीरकः / बालोऽकल्याणभाङ् नैव, कस्यचित्प्रणनिं गतः // 11 // किन्तु ग्रामेयकाकारं, बिभ्राणः स्तब्धमानसः / मनीषिमध्यमासने, सोऽपि गत्वा व्यवस्थितः // 12 // अथ संभाषितास्तेऽपि, धर्मलाभपुरःसरम् / गुरुणा कलवाक्येन, निषण्णास्तत्र भूतले // 13 // इतश्च सूरिवृत्तान्तः, कथचिल्लोकवार्त्तया / मन्त्रिणा जिनभक्तेन, श्रुतस्तेन सुबुद्धिना // 14 // ततःप्रोत्साहितस्तेन, स राजा शत्रुमर्दनः / वन्दनार्थ मुनीन्द्रस्य, व्रजाम इति भाषिणा // 15 // विधूतपापमात्मानं, वन्दनेन महात्मनाम् / साधूनां येऽत्र कुर्वन्ति, ते धन्यास्ते मनीषिणः॥१६॥ ततो मदनकन्दल्या, सामन्तःपुरैस्तथा / सुबुद्धिवचनाद्राजा, निर्गतो मुनिवन्दकः॥१७॥ ततः सर्व पुरं तत्र, नृपे चलति विस्मितम् / सैन्यं च गतमुद्याने, कौतुकाकृष्टमानसम् // 18 // निपत्य पादयोस्तत्र, जिनस्य सबलो नृपः। प्रबोधनरतिं भक्त्या, ववन्दे हृष्टमानसः॥१९॥ प्रणम्याशेषसाधूंश्च, दत्ताशीगुरुसाधुभिः। निषण्णो भूतले राजा विनयनम्रमस्तकः // 20 //