________________ शत्रुञ्जय-कल्पवृत्तौ ov.00000000000000000 जीवाभिगमेऽप्युक्त-"वरपुप्फगंधप्रक्खयपईवफलधूवनीर पत्तहिं / नेविजविहाणेहि अजिणपूना अट्टहा होइ / / गंधोदएण लवणं पूजा अढविह मंगलाई च / प्रारतिगाइमाई कायव्यं सयमणुदिअहं // 116 // " एवं यात्रां विधायाथ चक्रयागत्य निजे पुरे / पपाल पृथिवीं न्याय-मार्गेण जनताहितः // 117 / / पुनः सङ्घौं महान्तं तु कृत्वा प्रथमचक्रिराट् / शत्रुञ्जये ययौ नन्तु युगादिजिनपुङ्गवम् // 118 // यदा वरपयःपुष्पः धूपोत्क्षेपनकैः पुनः / चक्रे प्रथमचक्रीशः प्रथमस्य प्रभो मुदा // 119 / / तदादिमद्वितीयस्वः-शक्रौ च चमरो बलिः / मत्वाऽऽदिमं जिनं सार्व-भौमं नेमुः कृताऽऽदराः // 120 // उक्तश्च-चमरेन्द्रबलीन्द्राद्याः सर्वे भवनवासिनः / सेवन्ते यं सदा तीर्थ-राजं सद्भक्तिभाविताः // 121 // अणपन्नी पण पन्नी-मुख्या व्यन्तरनायकाः / सेवन्ते यं सदा तीर्थ० // 122 / / ज्योतिषां वासवौ चन्द्र-सूर्यावन्येऽपि खेवराः / सेवन्ते यं सदा तीर्थ० // 123 // मनुष्यलोकसंस्थाना वासुदेवाश्च चक्रिणः / सेवन्ते यं सदा तीर्थ-राजं सद्भक्ति० // 124 // इन्द्रोपेन्द्रादयोऽप्येते सिद्धा विद्याधराधिपाः / सेवन्ते यं सदा तीर्थ-राजं० // 125 / / ग्रैवेयकानुत्तरस्था मनसा त्रिदिवौकसः / सेवन्ते यं सदा तीर्थ-राजं // 126 // . एवं त्रैलोक्यसंस्थाना ह्य ते नरसुरासुराः / सेवन्ते यं सदा तीर्थ-राजं सद्भक्ति० // 127 // वापीकूपतडागानि दीपिकापल्वलानि च / जलस्थानानि भान्ति स्म यत्रोद्यानानि चोच्चकैः / / 128 // आरोहति गिरि सङ्घ नन्तु जिनेश्वरान् तु तम् / सुधर्मगणभृच्छिष्यः चिल्लणो नाम सत्तमः / / 129 / / पश्चिमेनाध्वना भूरि-साधुलोकसमन्वितः / अर्द्ध मार्गे ययौ यावत् सङ्घोऽभूत्तृषितस्तदा // 130 // तदाऽतितृषितः सङ्घ-चिल्लणं मुनिमूचिवान् / विनाऽम्बु साम्प्रतं प्राणा यास्यन्ति नो मुनीश्वर ! // 131 / / भवत्पादप्रसादेन जीवितं जायते यदि / तदाऽस्माभिर्जिनाधीशो वन्द्यते शिवशर्मदः॥१३२।। ततश्चिल्लणमुनिना वीक्ष्य लाभं मुविद्यया / प्रादुश्चक्रे मरो वारि-पूर्ण सद्योगतस्तदा // 133 / / स्वादं स्वादं जलं तत्र सद्यो वितृषितस्तदा / सुस्थितोऽजनि सर्वज्ञ-मतं प्रशंसति स्म च // 134 // श्रीसङ्घस्य हितायाशु चिल्लणो यत् सरा व्यधात् / चिल्लणाख्यमभूत् ख्यातं तदद्यापि जनेऽभितः / 135 // चिल्लणः सुमुनिस्तत्र तीथ ईर्यापथं स्फुटम् / प्रतिक्रमन् पुनर्नीर-जीवानक्षामयद् बहु // 136 // निन्दन स्वयं कृतं पापं पयो-विकुर्वणादिकम् / चूर्णीचक्रेऽखिलं कर्म-पुञ्ज पूर्वभवार्जितम् / / 137 / / अष्टकर्मक्षयात्तस्य चिल्लणस्य मुनेः क्षणात् / उत्पन्नं केवलज्ञानं मुक्तिस्तत्राभवत्क्रमात् // 138 / / यत्रागात् स मुनिमुक्तिं तत्राद्यश्चक्रिराड मुदा / चिल्लणाख्यं विहारं तु कारयामास सुन्दरम् / / 139 // भृङ्गारस्थालकलश-च्छत्रचामरदीपकान् / विभूषणारात्रिकाणि जिनार्वाय मुमोच सः // 140 // यतः-कारयन्ति जिनानां ये तृणावासानपि स्फुटम् / अखण्डितविमानानि ते लभन्ते त्रिविष्टपे / / 141 // काष्ठादीनां जिनावासे यावन्तः परमाणवः / तावन्ति पल्यल ज्ञाणि तत्कर्ता स्वर्गभाग्भवेत् // 142 // ततः प्रथममालां तु इन्द्रमालाभिधां वराम् / चक्री परिदधाति स्म नानोत्सवपुरस्सरम् / / 143 / / तुष्टो यस्यास्त्ययं शैलः कामधेनु-सुरद्र माः। चिन्तामण्यादयस्तस्य सर्वे तुष्टाः समन्ततः॥१४४॥ सिद्धाद्रि-सर्वशृङ्गषु प्रासादा निखिलाहताम् / चक्रिणा कारिता भूरि-रैव्ययान्मुक्तिहेतवे // 145 //