________________ महाबाहुभूप त्रिविक्रमराजर्षि-मुक्तिगमनसम्बन्धः 85 000000000000000000000000000000 परिधाप्याम्परयः श्रीगुरु ससंयुतम् / अयोध्यायामियायाऽऽद्य-चक्री भरतभूपतिः // 146 // अन्येधुरादिदेवस्य प्रासादे विपुले स्फुटम् / अष्टोत्तरशतं चक्री सन्मण्डपानकारयत् // 147 / / भरतो भूधवोऽन्ये-धानिपार्थे जगावदः / भूरिपापा अपि प्राण-भाजो येऽत्र शिवं ययुः / / 148 // तेषां सम्प्रति सम्बन्धं श्रावय त्वं मम प्रभो ! / ततो ज्ञानी जगौ पूर्व श्रावस्त्यां सुन्दरश्रियि // 149 // त्रिशङ्कोभूपतेः पुत्र-स्त्रिविक्रमाभिधोऽजनि। शास्त्राणि भूरिशोऽपाठि पित्राद्यैव॒धसन्निधौ।१५० त्रिभिर्विशेषकम् गुरोः पार्था निशम्या-हद्धर्म न्यस्य सुतं निजम् / राज्ये जग्राह चारित्रं पापध्वान्तरविप्रभम् / 151 // त्रिविक्रमोऽन्यदोद्याने यावत्तरोरधः स्थितः / तावत्पक्षी कुतोऽभ्येत्य तच्छीर्णोद्ध व्यधाद् द्रवम् // 152 // उड्डापितोऽपि भूपेन पच्युड्डोनो यदा न हि / तदा राज्ञेषुणा विद्धा रटन् पञ्चत्वमाप्तवान् / / 153 / / मृतं पक्षिणमालोक्य पश्चात्तापपरो नृपः / आगतः स्वगृहे भूयो भूयः सस्मार पक्षिणम् // 154 // आर्त्या मृत्वा तदा पक्षी भिल्लो भीमवनेऽभवत् / तत्र भिल्लो व्यधात पापं भूरिजीवादिहिंसनात् // 15 // यतः-“जीवान् निःशूकतायोगाद् यो हिनस्ति निरन्तरम् / नरकेषु स च सर्वेषु वेदना लभते दृढम् / / 156 / / हसन्तो हेलया कर्म यत् कुर्वन्ति प्रमादिनः / जन्मान्तरशतैरेते शोचन्त्यनुभवन्ति च // 157|| इतो धर्मरुचेः पार्थे गत्वा नत्वा तमादरात् / त्रिविक्रमोऽशृणोद् धर्म जैनं जीवदयामयम् // 158 / / जीवान् रक्षन् सदा जीवो लभतेऽव्ययसम्पदम् / यतो जीवोऽस्ति जीवानां सर्वेषां वल्लभः खलु // 159 // यतः-हेम-धेनु-धरादीनां दातारः सुलभा भुवि / दुर्लभः पुरुषो लोके यः प्राणेष्वभयप्रदः // 160 // वृथा दानं वृथा विद्या वृथा निग्रन्यताऽपि च / अनिन्द्ययोगचर्याऽपि विना जीवदयां किल // 161 / / एव धम्म समाकर्ण्य भूपालः करुणापरः / स्मरन् पक्षिवधं चित्ते दध्यावेवं पुनः पुनः // 162 // अहो ! मया कृतं पापं प्रत्यक्षं पक्षि हिंसनात् / तेन पापेन मे श्वभ्र पात एव भविष्यति // 163 / / किं जीवितेनाप्यमुना कि राज्येनामुना पुनः / ययोः सतोरपि श्वभ्र-पातो भवति मेऽग्रतः // 164 // प्रसारादेव संसारात सारं देहाद् व्रतं स्मृतम् / तेन पङ्कादिवाम्भोजं धम्मं गृह्णामि शर्मदम् // 165 // ततो राज्येऽङ्गजं न्यस्य लात्वा त्रिविक्रमो व्रतम् / पठन शास्त्राण्यभूत सर्व-तत्त्वविद् यतनापरः // 166 // श्रीगुर्वनुज्ञया साधु-रेकाकी विहरन् सदा / भीमे वने स्थितः कायो-त्सर्गेण ध्यानतत्परः // 167 / / यति प्रेक्ष्य समुत्पन्न वैरो भिल्लो रुषं दधौ / यष्टि-मुष्टयादिभिर्वाढ-मताडयञ्च निर्दयम् // 168 / / प्रशान्तात्मापि स यति-र्जात-क्रोधस्त्रिविक्रमः / भस्म्यकार्पोद् द्र तं भिल्ल तेजोलेश्याविमोचनोत् / / 169 / / विपद्य भिल्ल नोवोऽय तत्रैव कानने हरिः / अजनिष्ट यतिः सोऽपि विहत्येयाय तत्र च // 170 // प्राग्वैरात्तं यतिं वीक्ष्य जातरोषो हरिभृशम् / हन्तु जगाम तत्पृष्ठौ नष्टः स संयतः क्वचित् // 171 / / पश्यन् यतो यतो याति यतिस्तत्र स केसरी / हन्तु तं समगात् कर-का रोषाऽरुणेक्षणः // 172 // हरिणा खेदितः साधुः प्रशान्तात्मा रुपारुणः / अग्निसाद्विदधे तेजी-लेश्यया मृगशात्रवम् / / 173 / / त्यक्तप्राण स्तदा पश्चा-ननो द्वीप्यभवद्वने / अतिकरः स हन्ति स्म जीवान् नित्यमनेकशः // 174 / / साधुत्रिविक्रमोऽन्येशु विहरंस्तत्र कानने / समेतो द्वीपिना दृष्टः प्राग्वैरात करचेतसा / / 175 / / द्वीपी हन्नु यतिं यावद्दधाव तावता यतिः / नष्टो यत्र व्रजत्येव द्वीपी तत्रति हिंसितुम् // 176 //