________________ 86 शत्रुञ्जय-कल्पवृनौ .0000000 9000000000000000000000000000000000000 कषायाणां फलं साधु-र्जानन्नायतिदारुणम् / अग्निसाद् द्वीपिनं चक्रे तेजोलेश्याविमोचनात् // 177 // ततो द्वीपी मृतः कक्षे भैरवेऽर्तिवशात्तदा / अभवद् गवयः पीनस्कन्ध उन्मत्तशण्डभः // 178 // तपस्यन्तं तपस्तीव्र तत्रायान्तं मुनिं च तम् / दृष्ट्वा स गवयो हन्तु चेता आसीद् रुषारुगः / 179 // गवयेन यदा तीव्रः सङ्कटे मरणप्रदे / पातितः स तदा हन्तु-कामोऽभूत्तं त्रिविक्रमः // 10 // मृत्वा स गवयजीवः उज्जयिन्या बहिर्वने / आशीविषो विषोइन आसीत् कर्मनियोगतः // 181 // विहरन्ननिशं ग्रामाद् ग्रामं त्रिविक्रमो यतिः / उज्जयिन्या बहिस्थाने ययौ यत्रास्त्यहिः स च॥१८२॥ दृष्ट्वाऽहिः संयतं पूर्व-वैरादुत्पन्नतीव्ररुट / दंष्टु' यावदगात्ताव-दन्यत्र स यतिर्ययौ // 183 // तत्रापि भुजगः सोऽपि दंष्टुं तं यतिमीयिवान् / सोऽपि नंष्ट्वा यतिर्यातोऽन्यत्र स्थाने यतीश्वरः // 184 // तत्राप्यायान्तमालोक्य सर्प यतिस्त्रिविक्रमः / रुष्टो ज्वलनसाच्चक्रे तेजोलेश्याप्रयोगतः // 185 / / यतः-अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च / एकस्य शाम्यति स्नेहा वर्द्धतेऽन्यस्य वारितः // 186 / "तं नत्थि घरं तं नत्यि राउल देउलंपितं नत्थि / जत्थ अकारणकुवित्रा दो तिनि खला नदीसंति // 187 // अकामनिर्जरायोगात् क्षिपन् कर्म पुरार्जितम् / अहिजीवो द्विजो रोरोऽभवद्राजगृहे पुरे / / 188 / / यतः-"संसारवीजभूतानां कर्मणां जरणादिह / निर्जरा सा स्मृता द्वधा सकामा कामवर्जिता // 189 // " ज्ञेया सकामा यमिना-मकामास्त्वन्यदेहिनाम् / कर्मणां फलवत्पाको यदुपायात्स्वतोऽपि च // 190 // इत्यादि पर्यटन्नन्यदा ग्रामाद् ग्रामं यतित्रिविक्रमः / मध्ये राजगृह भिक्षा-कृते वभ्राम सद्मसु / 161 / / कर्मयोगाद् भ्रमन् गेहे गेहे शुद्वान्नहेतवे / अहिजीवस्य विप्रस्य दृग्गोचरं समीयिवान् / / 162 // स द्विजो जातरुड् हन्तु तं साधुमोहतेतराम् / ग्राममध्ये न शक्नोति हन्तु भूपतिभीतितः // 163 // यतः- "राजदण्डभयात्यापं नाचरन्त्यधमो जनः / परलोकभयान्मध्यः स्वभावादेव नोत्तमः // 164|| भिक्षां लात्वा बहिर्यातं तं पुर्याः साधुशेखरम् / निहन्तुं स द्विजस्तत्र ययौ यष्टिसखा रुपा / 165 / तत्रादौ बहुशो विप्रः क्रूरजल्पनतः परम् / कृत्वोपसर्गमादाय तस्य हन्तुमधावत / / 196 / / भिक्षयन्तं यति यष्टि-मुष्टिभिः स द्विजाधमः / यदा न व्यरमद् हिंसन् तदा क्रुद्धोऽभवद्यतिः // 197 / तेजोलेश्याप्रयोगेण कोपाविष्टस्त्रिविक्रमः / द्विजं तं नन्तमझाया-नैषीत् सद्यो यमालयम् // 198 / / अकामनिर्जरायोगात् क्षिप्त्वा काशुभोदयम् / बाणारस्यां महाबाहुभूपो जातः स वाडवः // 199 // मेलयित्वा बलं भूरि महाबाहुर्न रेश्वरः / साधयामास भूयिष्ठ प्रत्यर्थिपार्थिवान् क्रमात् // 20 // पालयन् न्यायतः पृथ्वीं भोगान् भुञ्जन् यथेप्सितान् / हृष्टचित्तो महाबाहु-हुँ समयमत्यगात् // 201 // वातायनस्थितोऽन्येधु-महावाहुर्यतीश्वरम् / पालोक्य ध्यातवानेवं भूयो भूयः स्वचेतसि // 202 // पुराऽप्येवंविधं साधु महनीयं मनीषिणाम् / अपश्यन् क्वाप्यहं शान्त-दान्तचित्तं जितेन्द्रियम् / / 203 // ध्यायन्नेवं नृपः प्राप्तो जातिस्मृति रजःक्षयात् / जन्म सप्तमस्मादि निष्पादितवधात्मकम् / / 204 / / राजा दध्यौ निहन्ता मे प्राग् योऽभूद् भवसप्तके / स हि चेद् ज्ञायते मिथ्या-दुकृतं दीयते तदा // 205 // न मिथ्यादुष्कृतमृते वैराभावो भवेन्नृणाम् / मिथ्यादुष्कृततो ज्ञानं वन्दनाया अजायत // 206 / / ध्वात्वेति भूपतिः स्वीय-वधकज्ञप्तिहेतवे / समस्यायोः पदद्वन्द्वं कृत्वा नृभ्यो ददाविति / / 207 //