________________ 87 000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 महाबाहुभूप-त्रिविक्रमराजर्षि मुक्तिगमनसम्बन्धः पक्षी भिल्लो हरिद्वीपी शण्डः फणी द्विजोरयः / ............... // 208 // सचेता जन एतेषां समस्यां पूरयिष्यति / तस्मै दास्यामि दीनार-लक्षं सन्मानदानतः // 209 // समस्यायाः पदद्वन्द्वं सर्वो लोकः पुरे वने / पपाठोच्च धनप्राप्ति-लिप्सयो निशि वासरे // 210 // सञ्चरिष्णुरितः साधुदिक्षु सर्वासु सन्ततम् / तत्रोद्याने समस्यायाः पदद्वन्द्वमथाशृणोत् / / 211 // पामरोक्ता समस्यां तां श्रुत्वा त्रिविक्रमो जगौ / 'येनामी निहताः सप्त सोऽहं भावी कथं हहा' ? // 212 / / समस्यां पूरितां वाचं-यमेन पामरस्तदा / समेत्य नृपतेरग्रे पपाठ मुदिताशयः // 213 / / राजा जगा त्वयाऽपूरि समस्या वाऽन्येन केनचित् / पामरोऽवक पुरोद्याने स्थितेन साधुना ननु // 214 // ततोऽभ्येत्य नृपस्तत्र प्रणम्य तं मुनि जगौ / समस्या पूरितेदानी कथं साधो ! त्वया वद ? // 215 / / यतिजंगौ मया ज्ञानाज-ज्ञातमेतन्नरेश्वर ! / दध्यो भूपो ह्ययं साधुः कुत्रापि वीक्षितो मया // 216 // एवं संस्मरतो भूमी-पतेर्जातिस्मृतिस्तदा / अजायत ततो ज्ञातो यतिर्हन्ता निजात्मनः // 217 / / यतिः प्राह मया पूर्व-भवेषु सप्तसु ध्र वम् / कोपाविष्टेन निहत स्तपोऽपि गमितं स मे // 218|| राजाऽऽचष्ट मयाऽपि त्वौं भवेषु तेषु तेष्वपि / खेदितोऽभूस्तथा पापं तीव्र मेऽजनि संयत ! // 21 // उत्थाय नृपतिः साधोः प्रणम्य चरणद्वयम् / क्षमयामास तं साधु संयतोऽपि क्षमापतिम् // 220 // यति-भूपौ मिथो यावत् क्षमयित्वोचतुमुदा / तावद्द न्दुभिनिहादोऽजनिष्ट मरुतां पथि // 221 // किमेतदिति जल्पन्तौ यतिक्ष्मापो सुरोक्तितः / अज्ञासिष्टां मुनेर्शानो-त्पत्ति सुन्दरकानने // 222 // साधुमापौ ततस्तत्र वने गत्वा प्रमोदतः / नत्वा केवलिनं जैन धर्म-मित्यशृणोत्तदा // 223 // न्यग्रोधे दुर्लभं पुष्पं दुर्लभं स्वातिजं पयः / दुर्लभं मानुषं जन्म दुर्लभं देवदर्शनम् / / 224 // अनाण्यपि रत्नानि लभ्यन्ते विभवः सुखम् / दुर्लभो रत्नकोट्याऽपि क्षणोऽपि मनुजायुषः // 22 // ताभ्यामुक्त कृतं पापं तीव्र दुःखशतप्रदम् / तस्मान्मे छुट्टनं पापात् कथं ज्ञानिन् ! भविष्यति ? // 226 // ज्ञानी. जगौ विना शत्रु-जयं तीर्थ मनोहरम् / भविष्यति न पापेभ्यो विमुक्तिर्भवतो द्र तम् / / 227 / / इम यतिं पुरस्कृत्य भूप ! त्वं सङ्घसंयुतम् / सिद्धक्षेत्रादितीर्थेषु कुरु यात्रां समाहितः / / 228 / / तत्र तीर्थे यतेस्ते च सर्वेषां कर्मणां क्षयात् / महोदयसुखं सद्यो भविष्यति न संशयः / / 226 // यतः- 'टंकणेन यथा हेम जलेन लवणं यथा / तथा शत्रुञ्जयस्मृत्या याति कर्म पुरा कृतम् // 230 // " श्रुत्वेति भूपतिर्वाचं-यमेन तेन संयुतः / शत्रुञ्जये ययौ देवा-न्नन्तु कुर्वन् महोत्सवम् / / 231 // तत्र विस्तरतः पूजां कुर्वतो मेदिनीपतेः / उत्पन्नं केवलज्ञानं मुक्तिरप्यभवत् क्रमात् // 232 // त्रिविक्रमयतीशस्य कुर्वतो ध्यानमादरात् / सर्वकर्मक्षयात् सद्यो मुक्तिसातमजायत / / 233 / / तदा वाचंयमास्तत्र बहवः सिद्धपर्वते / कर्मणां क्षयतो मुक्ति प्रापुः स्वर्ग गता पुनः // 234 // श्रुत्वेति भरतः शत्रु-जये गत्वा जिनेश्वरान् / नत्वा च पूजयित्वा च सफलं स्वजनुर्व्यधात् / / 235 // * इति महाबाहुभूप-त्रिविक्रमराजर्पिमुक्तिगमनसम्बन्धः समाप्तः 8