________________ महाबाहुभूप-त्रिविक्रमराजर्पि-मुक्तिगमनसम्बन्धः 83 0000000000000000000. तेषु देवालयेष्वेव नेमिवर्जान जिनेश्वरान् / द्वाविंशतिं मणिस्वर्ण-मयान् न्यवीविशन मुदा // 84i / तेषां जिनेन्द्रबिम्बानां चन्द्रगच्छाधिपान्तिकात् / प्रतिष्ठां कारयामास भूरिसङ्घसमन्वितः // 8 // एकदा वृषभोपान्ते माहात्म्यं सिद्धभूभृतः / (श्रुत्वा)सङ्घाधिपपदं वाञ्छन् जगादेति कृताञ्जलिः // 86 // स्वामिन् ! सङ्घाधिपपदं कथं सम्प्राप्यते जनैः ? / स्वामी जगाद भरत ! शृणु सम्प्रति भूधव ! // 87|| न प्राप्यते विना भाग्यं सङ्घाधिपपदं जनैः / प्राप्यते भाग्यतः सङ्घ-नाथस्य पदवी खलु ||8|| ऐन्द्र पदं चक्रिपदं श्लाघ्यं श्लाध्यतरं पुनः / लभ्यते प्राणिभिर्भाग्यात् सङ्घनाथपदं पुनः // 86 / / तीर्थङ्करनामगोत्र-मर्जयत्यतिदुर्लभम् / भूत्वा सञ्चपतिर्भव्य जीवो विशदमानसः // 10 // चतुर्विधेन सङ्घन सहितः शुभवासनः / अधिरोप्य रथे सार्व-बिम्बानि लसदुत्सवम् / / 11 // यतः- यच्छन् पञ्चविधं दान-मुद्वरन् दीनसञ्चयम् / पुरे पुरे जिनागारे कुर्वाणो ध्वजरोपणम् // 12 // शत्रुञ्जयादितीर्थेषु यो गत्वा श्री जिनार्चनम् / करोति लभते मुक्ति-सातं स एव वेगतः // 13 // त्रिभिर्विशेषकम् श्रुत्वेति स्वामिनो वक्त्रात् चक्री प्रोल्लासिताशयः। अाजुहाव बहुं सङ्घप्रेष्य कुङ्कुमपत्रिकाः॥१४॥ अष्टाह्निका-महः सार्व-प्रासादेषु पृथक् पृथग् / यदा चक्री व्यवाच्छक्र-स्तदागात्तत्र ताविषात् // 15 // बिम्ब रत्नमयं स्वर्ण-देवमन्दिरमध्यगम् / वासवः सार्वभौमाय दत्तवान् स्नेहपूर्वकम् // 96 // मणिमयः स्वर्णमय-वर्यकाष्ठमयः पुनः / सहस्रप्रमितैर्देवा-लयमध्यगतीर्थपैः // 17 // रथस्थैश्चामरैर्वीज्य-मानश्छत्र विराजितैः / चक्री गुरुयुतोऽचालीत् शत्रुञ्जयं गिरिं प्रति // 18 // तस्मिन् सऽभवन् सङ्घा-धिपाश्चत्वार एव च / महीधराश्च बहवो राजानो धनिनो वराः // 19 // सङ्घन तिलकं भाले भरतस्य सदुत्सवम् / चक्रे शक्रस्ततोऽन्येषां सङ्घशानां पृथक पृथग् // 10 // ग्रामे ग्रामे जिनेन्द्राचों कुर्वाणश्च पुरे पुरे / सुराष्ट्रासु ययौ चक्री यावत् कुर्वन् महोत्सवम् // 101 // तावद्भरतभूपस्य भ्रातृव्यो विशदाशयः / सुराष्ट्रस्य सुतः शक्ति-सिंहः सन्मुखमागमत् / / 102 / / भरतस्यानमत्पादी शक्तिसिंही महीपतिः / ततस्तस्य व्यधाचक्रो दोामालिङ्ग दृढम् / / 103 / / चक्री जगौ भवान् धन्यः पुण्यवान् प्रवराशयः / यतः शत्रुञ्ज तीर्थ विद्यते त्वदृशोः सदा // 104 // धन्याः सौराष्ट्र का लोका एते सुकृतिनः खलु / ये नित्यं पुण्डरीकाद्रिं निकषा निवसन्ति हि // 10 // अस्य तीर्थस्य सच्छाया स्पृष्टाऽपि प्राणिनां सदा / हरते भूरिपापानि ददते सुखसन्ततिम् // 106 // ये पुण्डरीकमीक्षन्ते पुण्डरीकमिवोज्ज्वलम् / ते त्यजन्त्येनसां पुञ्ज पुण्यामृतपवित्रिताः // 10 // इत्युक्त्वा कुपुमै लाजे वयः शत्रुञ्जयाचलम् / बर्द्धयित्वाऽऽरुरोहाशु कुर्वन् महोत्सवं नृपः // 108 / / शत्रुञ्जयादितीर्थेभ्यः पय आनीय सुन्दरम् / स्नानं कृत्वाऽर्हतश्च की पुष्पैरभ्यर्चयन् मुदा // 10 // मालायाः परिधानस्य क्षणेऽवग भरतं हरिः / त्वं श्रीवृषभपुत्रोऽसि मुक्ति गन्ता भवेऽत्र हि // 110 // अतो मे दीयतां माला वृषभस्य जिनेशितुः / अत्यावहात्तदा चक्री मालां शक्राय दत्तवान् // 111 / / ततो यदा हरिाला परिधत्ते रम भावतः / तदोचे मनु रिन्द्र-मालां परिदधे हरिः // 112 // ततस्तस्याश्च मालाया इन्द्रमालाभिधा जनैः / विश्राणिता ततोऽप्रापि शकमाला निगद्यते // 113 // आरात्रिकं च मङ्गल-प्रदीएं विधिवत्तदा / चक्री कृत्वा व्यधाचार्चा स्तुति स्फारतरैः स्तवैः // 114 //