________________ शत्रुञ्जय-कल्पवृत्तौ .00000000000001 0000000000000000 300000000000000000000000000 अथ प्रभासराट प्राह सुराष्ट्रामण्डले वरे / शत्रुञ्जयाभिधं तीर्थ विद्यते शिवशर्मदम् // 54 // अनन्तमहिमापूर्ण-मनन्तसुकृताऽऽस्पदम् / नानारत्नौषधिकुण्ड-रसकूपीमहर्द्धिमत् // 55 // वीक्षणात् कीर्तनात् स्पर्शा-च्छवणादपि पापहृत् / स्वर्गापवर्गसातानि दत्त यत् प्राणिनां क्षणात् ॥५६॥युग्मम्॥ उक्तञ्च-"तीथ भूतपुराराम-नगदेशादिभूमिषु / शत्रुञ्जयसमं तीथ नास्ति त्रैलोक्यपावकम् // 57 / / अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं भवेन्नृणाम् / तदेकयात्रया पुण्यं शत्रुञ्जयमहागिरौ // 58 // " तस्य तीर्थस्य पार्श्वेऽस्ति नदी शत्रुञ्जयाभिधा / सत्प्रभावपयःपूर्णा याऽर्हच्चैत्यविभूषिता / / 59 / / शत्रुञ्जयी पवित्रेयं विशेषात्तीर्थसङ्गमात् / गङ्गासिन्धुनदीदिव्य-जलाधिकफलप्रदा // 6 // या पूर्ववाहिनी गङ्गा या पूर्वसुकृतै कभूः / नानाहदप्रभावाल्या बहुचित्रकरा नदी // 61 // शत्रुञ्जया जाह्नवीव पवित्रजलपूरिता / प्रक्षालयात पापानि शत्रुञ्जयाद्रिसङ्गता // 62 // कादम्ब-पुण्डरीकाद्रि-शीर्षयोरन्तरा ह्रदः / तस्यामुच्चप्रभावाढ्यो विद्यते कमलाभिधः // 63 // हृदस्यास्य मृदं लात्वा पिण्डीकृत्य च तजलैः / बद्ध्वा चक्षुषि तद्रोगान् हन्ति दोषान्धतादिकान् // 64 // तस्य हृदस्य पानीयं कान्तिकीर्तिमतिप्रदम् / शाकिनी-भूत-ताल-बातपित्तादिदोपहृत् // 65 // उपसर्गा घनास्ते ते तत्पयःस्पर्शनाद् ध्र वम् / यान्ति दूरं तमोत्रातं सूर्यस्येवोदयात् किल // 66 / / प्रत्यब्दं पुण्डरीकाद्रि-तीर्थ नन्तु व्रजाम्यहम् / अर्हत्स्नात्रकृते नीरं ह्रदान्नेष्याम्यहं वरम् // 6 // निःशेषविघ्ननाशाय रक्षितं नीरमप्यदः / पया तु स्वामिने तुभ्यं देयं प्रीतिकरं पुनः // 68 / ढौकितं मयका ह्यतद्वारि शत्रुञ्जयीभवम् / दिगजयं कुर्वतः सर्व-विघ्नहृत् भावि ते प्रभो! // 69 // प्रभासेशकृतस्फार-विमानारोहणात्ततः / सिद्धाद्रौ भरतो गत्वा ननाम तीर्थमादरात् // 70 // स्नात्वा शत्रुञ्जयायां तु स्पृष्ट वा तत्तीथमुत्तमम् / स्मरन् शत्रुञ्जयं राजा स्वसेनामीयिवान् स्वयम् // 71 / साधर्मिकोऽसि मित्र ! त्वं तीर्थप्रभावदर्शनात् / सन्मान्य भरतस्तं च ददौ देशाननेकशः // 72 // शत्रञ्जय नदीह्रद-प्रभाववर्णनम् / साधयित्वाऽखिलान् देशान् भरतो मेदिनीपतिः / कारयामास चक्रीशा-भिषेकं भूपपार्श्वतः // 73 // एकदा भरतो यावत् सभायां समुपाविशत् / तावदेको नरोऽभ्येत्य जगादेति कृतादरम् / / 74 // स्वामि स्तव सुतः पुण्ड-रीको गणाधिपो वरः / प्रथमः प्रथमेशस्य तुङ्गक्षोणीधरोपरि // 75 / / साधुभिः पञ्चकोट्या तु सार्द्ध सर्वतमःक्षयात् / चैत्रस्य पूर्णिमारात्री मुक्तिपुर्यां समीयिवान् // 76 // आकण्यतत्तदा चक्री दानं भूरितरं द्र तम् / तस्मै दत्त्वा स्वचित्ते तु दध्यावेवं पुनः पुनः / / 77|| समस्तक्ल शसङ्घातान्निर्गतोऽसौ गणाधिपः / पुण्यवान पुण्डरीकस्तु मुक्तिपुर्यां समीथिवान् / / 78 / / मोहपाशैरहं बद्धः क्लिश्यमानः पदे पदे / रागादिवैरिभिदुःखं सहिष्ये करवे किमु ? // 76 / / ततस्तुङ्गगिरौ चक्री प्रासादं रेमयं पृथुम् / कारयामास नाभेय देवस्य भूरि मावतः / 80 / / तत्र रत्नमये बिम्बे नाभेय-पुण्डरीकयोः / अस्यापयत् शुभे लग्ने चक्री वृषभनन्दनः // 81 // नेमिवा जिना अन्ये द्वाविंशतिः सुरार्चिताः / शत्रुञ्जये समेष्यन्ति पावयन्तो महीं क्रमात् // 82 // श्रुत्वेति चक्रिराट् तेषां द्वाविंशति जिनालयान् स्वर्णरूप्यमयान् भूरि-लक्ष्मीव्ययादची करत् / / 83 //