________________ 72 शत्रुञ्जय-कल्पवृत्ती .000000000 00000000000000000000000000000000000000000000 100000000000000000000000000000000000000 योगिना कथिते घस्र श्रेष्ठिनोऽग्रे च तौ सुतौ / आनीतौ स्वकलाः सर्वा दर्शयामासतुः प्रगे // 48 // आद्य पुत्रं ललौ श्रेष्ठी द्वितीयं योगिराट पुनः / योग्यवरा भवतो गेहे भवताद् भूयसी रमा // 46 / / श्रेष्ठिपुत्रं द्वितीयं तु गृहीत्या योगिराड् ययौ / तत्र पञ्चशती रैणां दत्त श्रेष्ठिसुतः पितुः // 50 // जाते भूरिधने श्रेष्ठी भूयिष्ठविभवव्ययात् / आवासं कारयामास कैलासाचलसोदरम् // 51 // यतः--"घोटकैः क्षत्रिया विप्रा व्याजेन वणिजो गृहैः / कौटुम्बिकाः कृषेलक्ष्मी गमयत्यर्जितामपि" // 52 // आगत्य यस्य कुर्वन्ति स्वजनाः सेवनां सदा / मान्यन्ते सधना लक्ष्म्या निधना न कदाचन // 53 // धर्मकृत्यानि कुर्वाणः श्रेष्ठो दानमनर्गलम् / ददानो दानिनामादौ रेखां पुरि क्रमोद्ययौ // 54 // यतः-"विद्यावृद्धास्तपोवृद्धा ये च वृद्धा बहुश्र ताः / सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः" // 55 // श्रेष्ठिन्याहै कदा पत्युः पुरोऽस्ति नो धनं बहु / तेनायान्ति गृहे स्वीये स्वजना बहवः सदा // 56 // लघुपुत्रः कदाचिन समेति स्वकमद्मनि / एतदेवास्ति मे दुःखं नान्यत् किञ्चित् पतेऽधुना ||57 / / पुत्रेण जायते सौख्यं मातापित्रोनिरन्तरम् / पुत्रं विना गृहं शून्यं श्मशानमिव भासते // 58 // .. यतः--'शर्वरीदीपकश्चन्द्रः प्रभाते रविदीपकः / त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः / / 56 / " यादृशा लघवः पुत्राः पित्रोभवन्ति वल्लभाः / न हि तादृग् धनं धान्यं गेहं देहं कदाचन // 60 // सत्सु भूरिषु पुत्रेषु रूपसौभाग्यशालिषु / लघुपुत्रो विशेषेण मातुर्भवति वल्लभः / / 61 // सतीषु भूरिलक्ष्मीषु गृहे श्रीष्ठिप्रिया रतिम् / तं नन्दनं विना नाऽऽपत् मत्सीव स्तोकवारिणि // 62 // . इतो योग्यन्तिके प्राह गुणराजः कृताञ्जलिः / मातुः पितुरहं पादा-न्नन्तुकामोऽस्मि माम्प्रतम् // 63 / / योग्यवक त्वां विना सारां मदीयां कः करिष्यति?। त्वत्तः स्यान्मे सुखं भूरि विनीतोऽमि त्वमन्वहम् // 64 // गुणराजोऽभणद् माता-पित्रोनत्वा पदाम्बुजम् / स्थित्वा तत्र दिनान्यष्टौ वन्दिष्येऽहं तव क्रमौ // 65 // योग्यभाणीत्त्वया तत्र स्थातव्यं नाधिकं दिनम् / यदि स्थानाधिकं त्वं चेत् तदा मृतिस्तवानघ ! // 66 / / त्वदुक्तादधिकं स्थाता तत्राहं न क्षणं विभो ! / उक्त्वेति गुणराजोऽगाज जनकस्यालये लघु // 67 // मातापित्रोस्ततो भ्रातु-तपत्न्याः क्रमौ क्रमात् / प्रणम्य विधिवन्मोदं गुणराजो व्यधात्तमाम् // 6 // ततो द्वौ सोदरौ राम-लक्ष्मणाविव सन्ततम् / भेजाते प्रीतिमत्यन्तं रविचन्द्राविवाभितः // 66 / / लक्षमूल्यः स्वयं तायर्यो भृत्वा कुम्भी क्वचित्पुनः / गुणराजोऽपि विक्रीय स्थित्वान्यसदने स्वकम् / / 70 // पितुगृहे श्रियं बह्वी-मानीयानीय तत्क्षणात् / स्वरूपं कुरुते माता-पित्रोः प्रमोदहेतवे // 71 // महत्यां पुरि तस्यां तु कृत्वाऽश्वान् भूरिशस्तदा / गुणराजो निनायाऽऽशु पितुगेंहे बहुश्रियम् // 72 // गतेषु बहु-घस्रषु, तस्य स्थाष्णोः पितु है / रुष्टो योगी समायात-स्तमाकारयितु द्रुतम् // 73 // योगिनाऽऽकारितो नैति गुणराजो यदा वणिग् / योगी जज्ञौ तदा तं च ताादिरूपकारकम् // 74 // अश्वरूपधरं योगी गुणराज मनोहरम् / / धनाल्लात्वा रुरोहाऽऽशु कशाघातैरताडयत् // 7 // ताडयंस्तुरगं योगी वक्तीति तं प्रति स्फुटम् / अवज्ञा मे कुरुष्व त्वौं प्रतिज्ञाया विलोपनात् / / 76 / / सायं यावत्तुरंगं तं प्रकुट्टयन् कशादिभिः / स्नानं कत्तु ययौ योगी जलपूर्णे सरोवरे // 77 // प्रविष्ट सवनं कत्तु तस्मिन् योगिनि तत्क्षणात् / मत्स्यरूपधरो भूत्वा तायः सरसि सोऽविशत् // 7 //