________________ पाश्वनाथस्य शत्रुञ्जयसमागमनस्वरूपम् पित्रा द्वौ तनयो लेखगृहे मुक्तौ बुधान्तिके / पठन्तौ बहुशास्त्राणि बभूवतुर्विशारदौ // 17 // श्रेष्ठिनः सदने सर्व-धान्याभावेन कष्टतः / निर्वाहो दुःशको जातो दुःखी श्रेष्ठी ततोऽजनि // 18 // समीपे गणकादीनां लक्ष्यार्थ श्रेष्ठिराट् सदा / पृच्छन् वितनुते सेवां वागङ्गाभ्यां सुभक्तितः // 16 // यतः--रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः / मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदाम् // 20 // परगेहेषु कर्माणि कारं कारं दिवानिशम् / धान्यं किञ्चित् समाप्तायो-दरं श्रेष्ठी बभार सः // 21 // श्रेष्ठी पत्न्या समं वार्ता मेवं वितनुते सदा / एतयोः पुत्रयोरात्म-पद्मन्यायातयोः सतोः // 22 // गता लक्ष्मीः समायातं दारिन्द्यं दुःखदायकम् / लक्ष्मी विना नरा नैव शोभन्ते कहिंचित् क्वचित् // 23 // यतः-"जाई रूवं विजा तिन्नि वि निवडंतु कंदरे विवरे / अत्थुचिय परिवड्ढउ जेण गुणा पायडा हुंति"॥२४॥ तेन तौ तनयौ कस्मैि-चिन्नरायाऽर्थसाधवे / वितीर्यावां सुखी स्यावो दारिद्यं नो यतो वरम् // 25 // यतः--"अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः सह / अप्रियः सम्प्रयोगश्च सर्व पापविज़म्भितम्" // 26 // एवं वितन्वतो वार्ता श्रेोष्टिनः प्रियया समम् / एको योगो समेत्यावग् भिक्षां देहीह मेऽधुना // 27 // ताभ्यामुक्त कथं भिक्षा दीयते भवतोऽधुना / यतो न मुञ्चतेऽस्माकं गृहं दारिद्यपादपः // 28 // यतः-सहोदरव्ययाः(थाः) पंच दारिद्रयस्यानुजीविनः / ऋणं दौर्भाग्यमालस्यं बुभुक्षाऽपत्यसन्ततिः॥२९॥ विपुलमतेरपि बुद्धि-नश्यति पुरुषस्य विभवहीनस्य / घृतलवणतैलतन्दुल-वस्त्रेन्धनचिन्तया सततम् // 30 // योग्याचष्टाऽनयोस्मन्वो-लसल्लक्षणशालिनोः / सतोर्भवद्गृहे दुःखं दारिद्रयसम्भवं कथम् ? // 31 // श्रेष्ठयमाणोत् सदाकार बहिर्वर्यतमद्युति / अन्तःकटु कथ मोद-प्रदं स्यादिन्द्रवारणम् ? // 32 // योगी जगों गृहे यस्य नास्त्येकोऽपि तनूभवः / शून्यं तस्य समस्त्येव गेहं जानीहि नैगम ! // 33 // यतः--"अपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः / मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता" // 34 // श्रेष्ठयवक क्रियते तेन हेम्ना किं येन शालिना / त्रुटतः श्रवणे दुःखं जायते देहिनां यतः // 35 // योग्यवक् तनयावेतौ मह्यमर्पय सम्प्रति / येन सर्वाः कलोः कल्पाः (ल्याः) शिक्षयाम्येतयोद्र तम् // 36 // श्रेष्ठी वभाण तनयावर्येत भवतः कथं ? / त्वं तु लात्वा मम सुतौ नंष्ट्वा यास्यसि दूरतः // 37 // योग्यवक शिक्षयिष्यामि तथा ते तनयौ कलाः / यथा ताभ्यां महीशाद्या नरा रज्यन्त एव च // 38 / तयोर्मध्ये भवेद् वर्य-तमो यस्तनयस्तव / स एव भवता ग्राह्यो देयोऽन्यो मम नैगम ! // 36 / / एवं चेत् क्रियते श्रेष्ठि-स्त्वया ममोदितं ध्र वम् / तदा तवालये लक्ष्मी-भूयसो भवति ध्र वम् // 40 // मयैव शिक्षिता नूनं मनुजाः सुकलाः कलाः / श्लाध्या भवन्ति विश्वेषां जनानां भूभुजामपि // 41 // अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च / पुरुषविशेपं प्राप्ता भवन्ति योग्या अयोग्याश्च // 42 // वाजि-वारण-लोहानां काष्ठ-पापाण-वाससाम् / नारी-पुरुष-तोयानामन्तरं विद्य-ते बहु / / 43 / / ततः श्रेष्ठी ददौ तस्मै योगिने तनयो निजौ / कलाशिक्षाकृते पन्या सार्द्ध विचार्य तत्क्षणान् // 44 // उज्जयन्ताचले गत्वा योगी कलकलाभिधः / श्रीष्टिपुत्रौ कला रम्या अशिक्षयदनेकशः // 45 // आद्यः श्रीष्टिसुतः प्रातः कृतै ककगलाम्भसा / मुखात् पतति दीनार-शतपञ्चकमञ्जसा // 46 // द्वितीयः कलयेभाश्व-पत्त्यादि रुचिरं बलम् / विधाय विक्रयात्तेषा-मर्जयद् बहुशो धनम् ॥४७॥युग्मम्।।