________________ 10000000000000000000000000000000 .000000000000000000000000000000000000 शत्रुञ्जय-कल्पवृत्ती वृद्धस्य दीयते तस्मा-नादां प्रत्युतरं तव / यतः पितुर्वचः पाल्य मुत्तमैः सुखमिच्छुभिः // 15 // पिताऽऽचष्ट दृशे कायें देयः प्रत्युत्तरः सुत ! / ततः पुत्रो ददौ मिथ्या दुष्कृतं पितरि ध्र वम् / / 16 // आराध्य जनकं भूरि कालं सद्विनयाद् दृढम् / प्रत्रज्यां श्रीगुरूपान्ते ललौ मण्डननन्दनः // 17 // पालयित्वा चिरं दीक्षां प्राप्य ज्ञानं चतुर्थकम् / शत्रुञ्जये ययौ भूरि-मुमुक्षुसुरसंश्रितः // 18 // बाह्याभ्यन्तरभेदेन तपो द्वादशधा सदा / कुर्वाणः मदनः साधुः पञ्चमं ज्ञानमाप्तवान् / / 19 // ततोऽनेकजनान् जैन-धर्मे प्रबोध्य मण्डनः / पुण्डरीकाचले मुक्ति-नगरी समुपेयिवान् // 20 // इत्यादि भूरिशो धर्म-कथा नमिजिनेश्वरः / कथयित्वा जनांस्तत्र ग्राहयामाप्त संयमम् // 21 // . नमितीर्थपतेर्धो-पदेशाद् बहवो जनाः / प्राप्य ज्ञानं ययुमुक्ति केचिच्च त्रिदिवं ययुः // 22 // इत्यादि भूरिशो भव्यान् बोधयित्वा नमीश्वरः / विजहाराऽवनीपीठे जनान् बोधयितु बहून् // 23 // * इति नमिजिनेश्वरस्य शत्रुञ्जयसमागमनस्वरूपम् ॐ // अथ पार्श्वनाथस्य शत्रुञ्जयसमागमनस्वरूपम् / / वाणारसीपुरे वर्षे ऽश्वसेनस्य महीपतेः / वामादेवीभवः पार्श्व-नामाऽभूत् तनयो वरः // 1 // कमाल्लात्वा व्रतं दीक्षां गृहीत्वा लब्धवित्तमः / शत्रुञ्जये ययौ भूरि-साधुसन्ततिसंयुतः // 2 // अत्र श्रीपार्वजिनेश्वरेण धर्मदेशना कृता / तथाहि-- गुरुभ्योऽप्यधिकः शिष्यः कोऽपि स्याद्गुणराजवत / करभी-तुरगेभादि-रूपैर्योऽवश्चयद् गुरुम् // 3 // ददानो भीमवद् दानं जीवः प्राप्नोति स क्रमात् / जिनार्चा भङ्गिभिः कुर्वन् सोमवल्लभते शिवम् // 4 // तथाहि-वसन्तनगरे वीर-श्रेष्ठिनोऽभूत् प्रिया रमा / कोटिद्वयमितं हेम्नां व्यवसायात क्रमात् गृहे // 5 // अपत्याऽभावतः श्रेष्ठि-श्रेष्ठिन्यौ दुःखितौ सदा / पृच्छतोऽपत्य सिद्धयर्थं नैमित्तिकविदो जनान् // 6 // यतः-'देवहीनं देवकुलं यथा राज्यं विना नृपम् / विना नेत्रे मुखं नैव यथा राजति भूतले // 7 // तथा सत्यपि भूयिष्ठे विभवेऽभ्र लिहे गृहे / कुलं न शोभते नृणां कदचिन्नन्दनं विना // 8 // यतः- यत्र न स्वजनसङ्गतिरुच्च-यंत्र नैव लघुलघूनि शिशूनि / ___यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि॥९॥ तयोः कुर्वाणयोधर्म कुलायातं निरन्तरम् / रमाया उदरे जीवो-ऽवततार निशात्यये // 10 // ददे दानं सुपात्रेभ्यः कुर्वेऽचर्चा श्रीजिनेशितुः / पालयिष्याम्यहं शुद्ध शीलं चित्ताङ्गबाणिभिः // 11 // इत्यादिदोहदेष्वेव जायमानेषु सन्ततम् / तस्यास्तांस्तान्वितन्वत्यास्त्रुटत्येव रमा गृहे // 12 // युग्मम् श्रेष्ठी प्राह प्रिये वर्य-दोहलेषु तवाधुना / जातेषु किं रमा याति नीरवच्छिद्रहस्ततः // 13 // रमा प्राहाऽऽगतं नूनमभाग्यमात्मनो गृहे / कस्याप्यभाग्यवद्गर्भा-वतारदम्भतोऽधुना // 14 // क्रमाजातेऽङ्गजे जन्मो-त्सवे पित्रा कृते सति / पुत्रस्य वत्सराजेति ददौ नाम शुभे दिने // 15 // एवं पुत्रे द्वितीयेऽपि जाते पित्रा जनुर्महे / कृते नाम ददौ तस्य गुणराजेति च क्रमात् // 16 //