________________ 66 नमिजिनेश्वरस्य शत्रुञ्जयसमागमनस्वरूपम 200000000000000000000000 000000000000 00000000000000000000000000000 100000000000000000000000000000 ..0000000000000000000000000000 यतः-जह चयइ चक्कवट्टी पवित्थरं तत्तिअं मुहुत्तेण / न चयइ तहा अहन्नो दुब्बुद्धी खप्परं दमो // 2 // तीव्र तपो वितन्वानः सम्प्राप्तावधिचित् क्रमात् / बोधयन् भविनो भूरीन् सिद्धाद्रौ यतिरीयिवान् // 26 // वितन्वानः शुभं भावं मोदकप्रियसंयतः / तत्राद्रौ केवलज्ञानं प्राप्य सिद्धिं समीयिवान् // 27 // यतः-संसारबीजभूतानां कर्मणां जरणादिह / निर्जरा सा स्मृता द्वधा सकामा कामवर्जिता // 28 // ज्ञेया सकामा यमिना-मकामा त्वन्यदेहिनाम् / कर्मणां फलवत्पाको यदुपायात् स्वतोऽपि च // 26 // सदोषमपि दीप्तेन सुवर्ण वह्निना यथा / तपोऽग्निना तप्यमान-स्तथा जीवो विशुद्धयति // 30 // अनशनमौनोदयं वृत्तेः संक्षेपणं तथा / रसत्यागस्तनुक्ल शो लीनतेति बहिस्तपः // 31 // प्रायश्चित वैयावृत्त्यं स्वाध्यायो विनयोऽपि च / व्युत्सर्गोऽथ शुभं ध्यानं पोढेत्याभ्यन्तरं तपः // 32 // दीप्यमाने तपोवह्नौ बाह्य चाभ्यन्तरेऽपि च / यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् // 33 // इत्यादि-रुचिरां धर्म-देशनां मुनिसुव्रतः। वितीर्य भविनो भरीन गमयामास निवृतिम् // 34 // तत्रस्थस्य प्रभोर्लक्ष-त्रयं वाचंयमा वराः / सम्प्राप्य केवलज्ञानं मुक्तिपुर्यां समीययुः // 35 / / * इति मुनिसुव्रतजिनस्य शत्रुञ्जयागमनस्वरूपम * // अथ नमिजिनेश्वरस्य शत्रुञ्जयसमागमनस्वरूपम् / मिथिलायां पुरि श्रीमान विजयक्षोणिनायकः / प्रशशास प्रजां न्याय-मार्गेण धर्मतत्परः॥१॥ तस्य वप्रा प्रिया कुम्भि-मुख्यसुस्वप्नसूचितम् / श्रावणस्यासिताष्टम्या-मसूत तनयं वरम् // 2 // इन्द्रकृतं जन्मोत्सवादि ज्ञानप्राप्तिपर्यन्तमत्र वाच्यम् / नमिनाथों बहून् भव्यान बोधयन् पृथिवीतले / सिद्धाद्रौ समवासार्षीद भूरिसाधुसुरार्चितः // 3 // तत्रैवमुपदेशं ददौ-मुञ्जाभिधे पुरे मुञ्ज-श्रेष्ठिनो धर्मशालिनः / पद्मापत्नीभवः पुत्रो मण्डनोऽजनि सुन्दरः // 4 // वर्धमानः क्रमाद् विज्ञ समोपे पाठितस्तथा / यथा कर्मसु धर्मेषु कुशलोऽजनि मण्डनः // 5 // यतः--"विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन / स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते // 6 // श्रेष्ठिनोक्त सदा कार्य चकार मण्डनाङ्गजः / विनीतः सरलस्वान्तः सर्वेषां रोचितोऽभवत् / / 7 / / श्रेष्ठी शिक्षां ददानस्त्व-न्यदा प्राह सुतं प्रति / वृद्धस्य नोत्तरो देयः कदाचिद्धितमिच्छता // 8 // अङ्गीकृत्य पितुर्वाणो मन्येधुर्म दनः सुतः / वितीर्य सदनद्वारं शय्यायाँ समुपाविशत् / / 6 / / इतः श्रोष्ठी समेतोऽवग् भोः पुत्रोत्तिष्ठ साम्प्रतम् / उद्घाटय गृहद्वारं कार्यमस्ति ममाऽधुना // 10 // पितुर्वचः स्मरंश्चित्ते मदनः सरलाशयः / ददौ प्रत्युत्तरं नैव मनाग बिभ्यन् तमोभयात् // 11 // पित्रा बहूदितः पुत्रो घटीचतुष्टयान्तिके / द्वारमुद्घाटयामास गेहस्य स्वार्थ हेतवे // 12 / / पिता प्राह कथं भूनो ! त्वया नोद्घाटितं गृहम् / पुत्रो जगौ मया तात ! भवदीयं वचः कृतम् // 13 // पिताऽधग मद्वचश्चक्रे कथं ? ततोऽङ्ग जो जगौ / तात ! त्वयोदितं पुत्र ! देयः प्रत्युत्तरो न च // 14 / /