________________ .0000000000 1000000000000000000000000000000000. .....0000000RRsam शत्रुञ्जय-कल्पवृत्ती क्रमात् सर्वेऽपि सिद्धाद्रौ मन्त्रीशाद्या भटाश्च ते / मुक्तिपुर्यां समाजग्मु-निःशेषकर्मणां क्षयात् // 28 // मल्लितीर्थकृतो वाचं-यमा अष्टायुतं तदा / शत्रुञ्जये इहैवेयु-मुक्तिपुर्यां तमःक्षयात् // 26 // * इति मल्लिजिनस्य शत्रुञ्जयागमनसम्बन्ध: . ॥अथ मुनिसुव्रतजिनस्य त्रुञ्ज यागमनस्वरूपम् / / श्रीमद्राजगृहे राजा सुमित्राह्वो नयी धनी / तथाऽरक्षद् जनान् सर्वे यथा ते सुखिनोऽभवन् // 1 // तस्य पद्मा प्रिया कुम्भि-मुख्यसत्स्वमसूचितम् / ज्येष्ठासिताष्टमीरात्रौ सुषुवे नन्दनं वरम् // 2 // जम्भारिणा कृते जन्मो-त्सवे जन्मोत्सवं पिता / कृत्वा सूनोर्ददौ नाम मुनिसुव्रत इत्यपि // 3 // क्रमात् प्राप्य व्रतं क्षिप्त्वा सर्वकर्मव्रज समम् / लेभे च केवलज्ञानं मुनिसुव्रततीर्थकृत् // 4 // श्रीमुनिसुव्रतो भूरि-भव्यान् प्रबोधयन् भुवि / सिद्धाद्रौ समवासार्षीत् साधु-निर्जरसंयुतः॥५॥ .. तत्र द्वादश संसत्सू-पविष्टासु यथास्थिति / श्रीसुव्रतो ददौ धर्मो-पदेशं भविनां पुरः // 6 // तथाहि-कल्याणनगरे भानु-भूपस्य रुक्मिणी प्रिया / सूते स्म तनयं चारु-लक्षणैर्लक्षितं वरम् // 7 // जन्मोत्सवं नृपः कृत्वा सूनो रूपाभिधां ददौ / धात्रीभिः पञ्चभिः स्तन्य-पानः संवर्धितः स च // 8 // पाठितो यौवनप्राप्तः पुत्रो भीमनृपाङ्गनाम् / तातेनोद्वाहितो भोगान् भुङ्क्त स्म गेहिनीसखः // 6 // मोदका एव रोचन्ते तस्य सूनोनिरन्तरम् / मोदकप्रिय इत्यापी-न्नाम लोकेऽभितः पुनः // 10 // वसन्ते सोऽन्यदा प्रात-रुत्थाय मोदकप्रियः / नर्तनं कारयामास नर्तकान् नर्तकीयुतान् // 11 // मध्याह्न मोदकान् वर्यान् जनन्या प्रेषितांस्तदा / श्रादौ परिजनस्यादात् कुमारोऽत्ति ततः स्वयम् // 12 // यतः-"उत्तमैः सह साङ्गत्यं पण्डितैः सह संकथाम् / अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति"॥१३॥ अमृतं शिशिरे वह्नि-रमृतं क्षीरभोजनम् / अमृतं राजसन्मान-ममृतं प्रियदर्शनम् / / 14 // वकालिकं पुनः कृत्वा मोदकैरनुगान्वितः / रात्रियामान्तिके नृत्यं विससर्ज नृपाङ्गजः // 15 // स्वयं पञ्च नमस्कारान् गुणयित्वा शतत्रयम् / यावत् स्वपिति तावत्त वायुर्विनिर्गतो गुदात् / / 16 / / नाशायां पूतिगन्धं तु प्रविष्टमसुखप्रदम् / ज्ञात्वा मोदकरुग् दध्यौ वस्तुनोऽशुचितेदृशी // 17 // मिष्टान्नान्यपि विष्ठासा-दमृतान्यपि मूत्रसात् / स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? // 18 // रसासृग-मांसमेदोऽस्थि-मजाशुक्रान्त्रवर्चसाम् / अशुचीनां पदं कायः शुचित्वं तस्य तत्कुतः ? // 16 // नवस्रोतःश्राद्विस्र-रसनिःष्यन्दपिच्छले / देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् // 20 // अशुचिसुभाषितान्यत्र वाच्यानियद्येवं मोदका वर्या अपि दुर्गन्धतां श्रिताः / तदायं विग्रहो दुष्ट गन्धतां नाश्रयिष्यति ? // 21 // कस्तूरीप्रभृतीन्येव वस्तून्यङ्गाश्रितान्यपि / क्षणादशुचितां भेजु-रहो ईदृग जगत् खलु // 22 // इत्याद्यशुचितां सर्व-विश्वस्य मोदकप्रियः। मत्वा त्यक्त्वेभवाज्यादि गुर्वन्ते संयम ललौ / / 23 / / तलितं गुलितं सर्व स्निग्धाहारमतः परम् / गृहीष्याम्यहकं नैव ह्यवमादादभिग्रहम् // 24 //