________________ मल्लिजिनस्य शत्रुञ्ज यागमनसम्बन्धः 67 000000000000000000000000000000000000000000000000000000000000000000000000000 // अथ मल्लिजिनस्य शत्रञ्जयागमनसम्बन्धः।। मिथु(थि लाह्वपुरे कुम्भ-भूपपत्नी प्रभावती / असूत तनयं कुम्भि-मुख्यस्वप्नादिसूचितम् // 1 // जम्भारिणा कृते जन्मोत्सवे जन्मोत्सवं पिता / कृत्वा मल्लिकुमारीति नाम पुत्र्या अदान्मुदा // 2 // गृहावासं कमात्यक्त्वा लात्वा वृत्तमनुतरम् / मल्लिः प्रापाऽमलं ज्ञानं समस्ततमसा क्षयात् // 3 // मल्लिनाथोऽन्यदा कुर्वन् विहारं बोधयन् जनान् / सिद्धाद्रौ समवासार्षीद् भूरिसाधुसुरश्रितः // 4 // सुरैर्वप्रत्रये रूप्य-रत्नहेममये कृते। उपविश्य दिदेशेति मल्लिनाथोऽथ देशनाम् // 5 // वन्दे जन्म मनुष्यसम्भवमहं किं तद्विहीनं गुणै स्तानेव त्वरितं स्तुमः किमसमां लक्ष्मी विना तैगुणैः। तां लक्ष्मी तमुपास्महे किमनया दानादिमिर्वन्ध्यया, दानं स्तौमि वृथैव भावरहितं भावो हि भरतं (हितैषी) ततः अत्र कथा- रमापुरे धरापाल-राज्ञो मन्त्री धनाभिधः / राज्यकार्य वितन्वानो ररञ्ज जनता-नृपौ // 7 // यतः-नरपतिहितकर्ता द्वष्यतामेति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन / इति महति विरोधे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्त्ता // 8 // एकदाऽवग नृपो मन्त्रिन् !. परीक्ष्यैव भटास्त्वया / स्थापनीया ममोपान्ते राज्यवर्द्ध नहेतवे // 6 // अपरीक्ष्य कृते कार्ये दुःखं भवति निश्चितम् / सुपरीक्ष्य कृते कार्ये जायते सुखमङ्गिनाम् // 10 // अत्रान्तरे समायाता भटाः पञ्चशती वराः / मिलिताः मापतेः प्रोचु-भविष्यामोऽनुगा वयम् // 11 // रैदानेन तु सन्मान्य भूपोऽधग मन्त्रिणं प्रति / शिष्टादिज्ञप्पये कार्या परीक्षेषां त्वयाऽधुना // 12 / / दापयित्वा धनं तेषां परीक्षणकृते वरम् / शपनाय ददे शय्या सायमेका तु मन्त्रिणा // 13 // ममेयमपिता शय्या मन्त्रिणा शयनाय तु / स्वपिहि त्वं धरापीठे वक्तव्यं नाधिकं त्वया // 14 // एवं ते कलहं बाढं कुर्वाणाः सुभटा मिथः / विराम तेनिरे नैव क्षणमेकं चु(क्रुधाकुलाः // 15 // दृष्ट्वै तद् मंन्त्रिराट् तत्र सर्वसुभटचेष्टितम् / जगाद भूपतेरग्र समेत्यामूलचूलतः / / 16 / / 'भटा मूर्खत ना एते कुर्वते कलहं मिथः / अतो नैको भटो भृत्यो विद्यते ह्यषु साम्प्रतम् / / 17 / / यतः-सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः। सर्वस्य चास्ति वाच्यं न चात्मदोषान् वदति कश्चित् // 18 // परवादे दशवदनः परदोषनिरीक्षणे सहस्राक्षः / सद्व त्तवितहरणे बाहुसहस्रार्जुनः पिशुनः // 19 // मुक्ता भूमीभुजा ते तु गता अन्यावनीभुजाम् / पार्वे न मानितास्तैस्ते कृत्वा परीक्षणं पुनः // 20 // यावजीवं ततस्ते तु कुवन्तः कलहं मिथः / बभुवुदु:खिता अत्र परत्र च पदे पदे // 21 // एव विरोधिनो ये ये मिथो न मन्वते गुरुम् / ते तेऽत्र परलोकेऽपि भवन्ति दुःखिनश्चिरम् // 22 // ये ये जना गुरु देवं तातं च जननी (च मन्यते) वृषम् / ते ते स्वर्गापवर्गादि-सुखभानो भवन्ति हि // 23 // इत्यादि श्रीजिनेन्द्रोक्त श्रुत्वा भूरिजनास्तदा / स्वर्गापवर्गसातानि लेभिरे तत्र पर्वते // 24 // एवं परीक्ष्य मन्त्रीशो भटान् पञ्चशतीं वरान् / चक्रे यान् कुर्वते सेवां ते भक्त्या भूपतेः क्रमात् // 25 / / एकदा स नृपो मंत्रि-भटादिबहुसंयुतः / शत्रुञ्जये ययौ नन्तु युगादिजिनपुङ्गवम् / / 26 / ! तत्र श्रीऋषभं तेषां भटानां ध्यायतां मुदा / उत्पन्नं केवलज्ञानं मन्त्रीशस्य तदा पुनः / / 27 / /