________________ .0000000000000000000000000 9...300000....................................06044 शत्रुञ्जय-कल्पवृत्ती राजा प्रोवाच भो वैद्य ! सृतं तवौषधैर्मम / सदसद्रोगसत्तां तु केवली वेत्ति नापरः // 12 // द्वितीयः प्राह यद्यस्ति रोगस्तं हन्ति स्वौषधम् / न चेत्तदा गुणं नैव दोषं नैव करोत्यलम् // 13 // राजा प्राहौषधैस्तावकीनः सृतं सुतस्य मे / रोगस्य सदसत्सत्तां वेत्ति ज्ञान्येव नापरः // 14 // तृतीयो वैद्यराट प्राह रोगो यद्यस्ति पूर्वतः / तदा तं हन्ति नान्यं तु भवन्तं हन्ति चौषधम् // 15 // चतुर्थोऽजक् पुराचीन-विद्यमान-भविष्यतः / रोगान् ममौषधं हंति पुष्टिं च कुरुते तनोः // 16 // दापितं भूभुजा तुर्य-मौषधं सूनवे तथा / आजन्माऽजनि नीरोगो यथा भूपतिनन्दनः / / 17 / / / उपनयोऽत्र-दानशीलतपोभावा बलिनः स्युर्य योत्तरम् / भावना विद्यते तुर्यो-पधतुल्या शिवप्रदा // 18 // इत्यादिधर्ममाकर्ण्य भव्या जीवा अनेकशः / लात्वा व्रतं ययुमुक्ति सिद्धपर्वतमस्तके // 16 // तत्र वर्षाचतुर्मासं स्थितः षोडश तीर्थकृत् / बोधयामास भूयिष्ठ-भव्यान् जिनमते क्रमात् // 20 // एवं विहारमातन्वन् शान्तिनाथोऽवनीतले / शत्रुञ्जये समायातो बहून् वारान् सुसाधुयुम् // 21 // * इति श्रीशान्तिजिनस्य शत्रुञ्जयागमनस्वरूपम् * // अथ श्रीकुन्थुतीर्थङ्करस्य शत्रुञ्जयागमन-समवसृतिस्वरूपम् / / हस्तिनागपुरे सूर-भूपस्य श्रीरभूत् प्रिया / वैशाखासितभूतेष्टा-तिथौ सूतेस्म सा सुतम् // 1 // वासवेन कृते जन्मोत्सवे जनुर्महः पिता / कृत्वा सूनोर्ददौ नाम कुन्थुः सज्जनसाक्षिकम् // 2 // साधयित्वाऽथ षट्खण्डां भुव त्यक्त्वा च रेणुवत् / जग्राह संयमं दत्त्वा दानं हायनमात्रतः // 3 // क्षिप्त्वा कर्म क्रमात् प्राप्य ज्ञानं श्रीकुथुतीर्थकृत् / बोधयन् भविनः शत्रु-जये तोर्थे समोयिवान् // 4 // तत्र द्वादश पर्षत्सू-पविष्टासु जिनेश्वरः / दातु धर्मोपदेशं तु प्रववर्ते शिवप्रदम् // 5 // अत्र कथा-सिद्धाहनगरे सिद्ध-सेनस्य मेदिनीपतेः / प्रजाः पालयतः सर्वाः सुखान्त्योऽभवन् क्रमात् // 6 / / तत्र भीमाभिधः कुम्भ-कारोऽतीव विचक्षणः / परजल्पनभूत्यादौ कुरुतेऽणक्षरं सदा // 7 // परेषां गमने वस्त्र-भूषादिपरिधापने / जल्पनं वीक्ष्य कुरुतेऽणक्षरं कुम्भकृत् सदा // 8 // अणक्षरोऽयमायाति याति शेते प्रजल्पति / जल्पन्निति जनो नाम तस्य कुम्भकृतो ददौ / / 6 / / लोकानां जल्पनादीनि कृत्यानि वीक्ष्य कुम्भका / अनीशः सहितुवास-मरण्ये विजने व्यधात् // 10 // तृणात्मके कुटीरे तु तिष्ठन् नित्यं स कुम्भकृत् / अश्वापहृतभूपेन तत्राऽऽयातेन कीक्षितः // 11 // बुभुक्षितो नृपः स्वान्न-पानदानेन तत्क्षणम् / भक्त्या कुम्भकृता स्वस्थी-चक्रं च मुमुदे यथा // 12 // पुरीमध्ये तमानीय वितीर्य सदनं नृपः / भूरिद्रव्यप्रदानेन कुम्भकारममोदयत् // 13 // इतोऽरण्ये बदरिका-फलानि तैलिकाङ्गजाम् / चुटन्तीममरीतुल्यां वीक्ष्य रागी नृपोऽजनि // 14 // तामुद्वाह्य लसद्वस्त्रा-भरणां स्फारसमनि / स्थापयामास भूपालः पौलोमी निर्जरेशवत् // 15 // लसत्सुखासनासीनां वर्यवेषधरी स ताम् / मोटयन्तीं मुखं राज-मार्गे यान्ती सखीयुताम् // 16 //