________________ श्रीशान्तिजिनस्य शत्रुञ्जयागमनस्वरूपम् गुरूक्तविधिना येन बीजान्युप्त्वाऽवनीतले / कृत्वा चामीकरं भूरि सुखीभूतं चिरं पुनः // 19 // [विधिनैव कृता धर्म क्रिया शिवप्रदा भवेत् ] द्वितीयेन नरेणा क्रियां कृत्वान्तरान्तरा / साधितं रजतं किञ्चित् सुखीजातो नरः स च // 20 // तृतीयेन गुरुप्रोक्ते स्तोके विधौ कृते सति / कृतं लोहं चतुर्थश्च तस्मिंश्चक्रे च हीलनाम् // 21 // स च लोहमपि प्राप्य(५) दुःखी जातो भृशं सदा / एवं पुण्यमपि कृतं सुख [ पुण्यात् सुखं पापात् ध्रुवं ] दुःखादि जायते // 22 // देवपूजाप्रतिक्रान्ति-मुख्यानि निखिलान्यपि। कुर्वन् जीवः समाप्नोति सुखदुःखादि (माह्लादि) सन्ततम् / / 23 // सोमः सङ्घन संयुक्तो गत्वा शत्रुञ्जयाचले / भूरि धनं व्ययित्वाऽऽशु पुण्योधमा यद् बहु // 24 // क्रमात् स्वं विभवं सप्त क्षेत्रे वप्त्वाखिलं मुदा / दीक्षां जग्राह देवेन्द्र-वरिपार्थे शिवाप्तये // 25 // सोमर्पिः सिद्धभूमिधे तपस्तप्त्वा बहु क्रमात् / अवाप्य केवलज्ञानं ययौ कैवल्यपत्तने // 26 // वीरधीरावपि प्रौढ-भावाच्छत्रुञ्जयाचले / यात्रां कृत्वाष्टमे स्वर्गे ययतुः स्वायुषः क्षये // 27 // चतुर्थो भावरहितोऽप्राप्य द्रव्यमसातवान् / यावजीवमभूदुःखी विना धर्म भवे भवे // 28 // अस्मिन् शत्रुञ्जये देवान् नोति यः कुरुते तपः / स एव लभते स्वर्गा-पवर्गादिसुखं द्र तम् // 26 // यतः-"अन्यतीर्थेषु यद् यात्रा-शतैः पुण्यं भवेन् नृणाम् / तदेकयात्रया पुण्यं शत्रुञ्जयगिरौ स्फुटम् // 30 // एकैकस्मिन पदे दत्त पुण्डरीकगिरि प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते // 31 // धर्मोपदेशमित्यादि श्रुत्वा धर्मजिनान्तिके / अनेके भविनो मुक्तिं ययुः शत्रुञ्जयाचले // 32 // 0 इति धर्मजिनस्य शत्रुञ्जयागमनस्वरूपम् // अथ श्रीशान्तिजिनस्य शत्रुञ्जयागमनस्वरूपम् / / हस्तिनागपुरे विश्व-सेनस्य मेदिनीपतेः / अचिराह्वा प्रिया जाता शीलादिगुणशालिनी // 1 // चतुर्दशमहास्वप्न सूचितं नन्दनं वरम् / पेष्ठासिनत्रयोदश्या-मचिरा सुषुवे सुखम् // 2 // हरिणा विहिते जन्मो-त्सवे जन्मोत्सवं पिता / कृत्वा शान्तिकुमारेति नामाऽदात् तनयस्य तु // 3 // क्रमाचक्रिपदं प्राप्य त्यक्त्वा च संयमश्रियम् / लात्वा कर्मक्षयात् प्राप शान्तिानमनुत्तरम् / / 4 // योधयन् भविनो भूरीन् शान्तिस्तीर्थङ्करः क्षितौ / सिद्धाद्रो समवासाषीद् भूरिसाधुसमन्वितः / / शुद्धधर्मोषधेनैव भावयन्नात्मनो मनः / भवी भवति कल्याण-सातभाक् तमसां क्षयात् // 6 / / भीमाह्वनगरे भीम-भूपस्याभूत् सुरी प्रिया / बहूपयाचितैः पुत्रोऽजनि जीवाभिधानभृत् // 7 // वर्धमानः क्रमात् पुत्रो जीवितादतिवल्लभः / आसीद् भूपस्य लोकानां सदारामकुमारवत् // 8 // राज्ञा ध्यातं सुतायाऽस्मै वेद्यैर्दास्यामि स्वौषधम् / तथा यथा भवेत् सूनुर्नीरोगोऽयं चिरं खलु // 9 // तत आकार्य चत्वारो वैद्याः पृष्टा इति स्फुटम् / दत्थौषधं तथा सूनो-यथा रोगो न जायते // 10 // श्राद्यो वैद्यो जगावग्र-तनं हन्ति ममौषधम् / यदि रोगो भवेन्नैव तदा हिनसति तं द्रुतम् // 11 / /