________________ 000000ndeeDDRIMom .00000....0000000000000000000000 शत्रुञ्जय-कल्पवृत्ती तीर्थस्यास्य प्रभावेण प्राप्य ज्ञानमनुत्तरम् / प्रबोध्य भविनो भूरीन् रामोज मुक्तिमीयिवान् // 30 // श्रेष्ठि-स्नुषासुराः सर्वे च्युताः स्वर्गाद् धरापुरे / प्रजापतेः सुता जाताः सोमो भोमो धनामिधः // 31 // श्रोष्ठिजीवसुरः सोऽपि च्युत्वा स्वर्गात्ततोऽन्यदा / प्रजापतेरभूत् सूनु-रमराह्वो वराकृतिः // 32 // चत्वारोऽपि मिथः प्रीति-भाजः सहोदराः क्रमात् / धर्मघोषगुरूपान्ते जैन धर्म प्रेपेदिरे // 33 // प्रपाल्य धर्ममनिशं चत्वारोऽप्यच्युतं ययुः / ततश्च्युताः कलापुर्यां जाताः श्रीदसुताः पुनः // 34 // अत्र शत्रुञ्जये यात्रा-कृते समागताश्च ते / लात्वा दीक्षां तपस्तीव्र चक्रिरे शिवसातदम् // 35 // क्रमात् कर्मक्षयाज्ञान-मासाद्यानुत्तरं खलु / कल्याण नगरी जग्मु-श्चत्वारोऽपि सहोदराः // 36 // इत्यायनन्तनाथस्य वाणी योजनगामिनीम् / आकर्ण्य भविनोऽनेके महोदयपुरी ययौ // 37|| * इति अनन्तजिनस्य शत्रुञ्जयागमन-समवसृतिस्वरूपम् * // अथ धर्मजिनस्य शत्रुञ्जयागमनस्वरूपम् / / पुरे रत्नपुरे भानु-भूपस्य सुव्रता प्रिया / माघशुक्लतृतीयस्यां सुषुवे नन्दनं वरम् // 1 // शक्रेण विहिते जन्मोत्सवे जन्मोत्सवं पिता / कृत्वा धर्मेति नामाऽदात् सुनोः सज्जनसाक्षिकम् // 2 // राज्यं प्राप्य पितुः पार्थात् पालयित्वा प्रजाश्चिरम् / लात्वा दीक्षां क्रमात प्राप केवलज्ञानमञ्जसा // 3 // धर्मो जिनोऽन्यदा शत्रु-जये तीर्थे समागतः / ददौ धर्मोपदेशं तु भव्याङ्गिभ्यः शिवप्रदम् // 4 // शुद्धं क्रियाकलापं ये कुर्वते गुरुजल्पितम् / ते लभन्ते जनाः स्वर्गा-पवर्गादिसुखश्रियम् // 5 // धर्मादधिगतै खर्यो धर्ममेव निहन्ति यः / कथं शुभगति वो स स्वामिद्रोहपातकी // 6 // अङ्कस्थाने मवेद्धर्मः शून्यस्थाने ततः परम् / अङ्कस्थाने पुनर्भग्ने सर्वशून्यं दरिद्रता // 7 // अत्र कथा-कुण्डाह्वनगरे सोम-वीर-धीरा-मरायाः / चत्वारः सुहृदः प्रीति-भाजो मिथोऽभवंस्तदा // 8 // धनार्जनकृतेऽन्येद्युश्चलिताः सुहृदः समे / मङ्ग शैले वरं सिद्ध-पुरुषं भेजुरादरात् // 6 // षण्मासान्ते नृणां तेषां कुर्वतां तस्य सेवनम् / पुमान् सिद्धो जगी यूयं वरं मार्गयताऽधुना // 10 // ते नरा जगदुर्देहि धनं दारिद्यभेदकम् / सिद्धो जगौ च तुम्ब्या हि फलानि लात पूर्वकम् // 11 // योगे पुष्यार्कयोमध्यं-दिने वारान् शतं महीम् / खेटयित्वा प्ररोप्यन्ते तुम्बीबीजानि भावतः // 12 / मण्डपः क्रियते तस्यो-परि छायाकृते वरः / ओं ही मिति जल्पेत लक्षमेकं रहःस्थितः / / 13 / / इत्यादिविधिनोप्तानि तुम्बीबीजानि सादरम् / तासां बीजानि गृह्यन्ते पुनर्वपनहेतवे // 14 // चूर्णीकृत्य च पत्राणि स्थाप्यन्ते निजसन्निधौ / त्रपुकर्ष षष्टयन्तश्च णं वालमितं क्षिपेत् // 15 // क्षिप्त्वाऽमत्रे च तद्वह्नौ धम्यते प्रहराष्टकम् / सर्व भविष्यति स्वर्ण जात्यं दारिन्यभेदकम् // 16 // एवं चेद्यदि युष्माभि-मदुक्तं क्रियतेऽधुना / तदा गच्छति दारिन्द्यं भवतो मन्दिराननु // 17 // श्रुत्वैतत् सिद्धमानम्य बीजानि तानि तत्क्षणात् / लात्वा ते सुहृदः स्वस्व- सदनं समुपागमन् / 18 //