________________ अनन्तजिनस्य शत्रुञ्जयागमन-समवसृतिस्वरूपम 0000000000000000000000000000 // अथ अनन्तजिनस्य शत्रुञ्जयागमन-समवसतिस्वरूपम / / अयोध्यायां पुरि चमापः सिंहसेनोऽभवन्नधी / तस्यासीत् सुयशाः पत्नी लक्ष्मीरिव रमापतेः // 1 // वैशाखासितपक्षस्य त्रयोदश्यां शुभे क्षणे / सुयशाः सुपुत्रे पुत्रं गजादिस्वप्नसूचितम् // 2 // हरिणा विहिते जन्मो-त्सवे जन्मोत्सवं पिता / कृत्वा सुनोरनन्तेति नाम दत्ते स्म सादरम् / / 3 / / प्राप्य राज्यं पितुः पार्थात् त्यक्त्वा लात्वा च संयमम् / कर्मक्षयाइनन्तोऽर्हन केवलज्ञानमञ्जसा (माप्तवान्) वीरं अरिट्टनेमि पासं मल्लिं च वासुपुज्ज च / एए मोत्तण जिणे अवसेसा पासि रायाणा / / 5 / / अनन्तस्तीर्थकृत् पृथ्वीं बोधयन् स्वविहारतः / सिद्धाद्रो समवासार्पोन कोटाकोटिसुरार्चितः // 6 // तत्रासल षु भव्येषु मिलितेषु शिवाचले / अनन्तेशो ददौ धर्मो-पदेशमिति शर्मदम् // 7 // आर्यदेशकुलरूपबलायु-बुद्विवन्धुरमवाप्य नरत्वम् / धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः "मज्जं विसयकसाया निदा विगहा य पंचमी भणिया / एए पंच पमाया जीवं पाडंति संसारे / / 6 / / " जीवस्याभयदानेन मनुजोऽत्र परत्र च / सुखवान् जायते श्रेष्ठि-वदेव बहुकालतः // 10 // पुरे श्रीनिलये जीण-श्रेष्ठिनस्तनयास्त्रयः / कर्मा-ऽमर-मुकुन्दाह्वा बभूवू रूपशालिनः // 11 // पृथक पृथग महेभ्यानां नन्दिनीर्निजनन्दनाः / तातेन कुर्वता चारू-त्सवं तु परिणायिताः॥१२॥ परिग्रहप्रमाणं तु गृह्णता श्रेष्ठिना पुरा / महिष्येका च गौरेका मुत्कले मोचिते ननु // 13 // वत्सस्य कुरुते चिन्ता, वारकेण वधूत्रयम् / चारि-पानीयदानेन सुस्थानबन्धनेन च // 14 // जायमानेऽन्यदोद्वाहो-त्सवे पुत्र्या बुभुक्षितः / विस्मृतो वत्सकश्चारि-पानीयदानतस्तदा // 15 // द्वितीये दिवसे श्रेष्ठी वत्सं वीक्ष्य बुभुक्षितम् / जगाइ भो स्नुपा ! वत्सः कृशो जातः कथं भृशम् ? // 16 // "तिरिश्रा कसंकुसारानिवायवहबंधजंतणसयाई / नवि इहयं पाविता परत्थ जइ निअमिश्रा हुंता // 17 // " स्नुषाः प्रोचुरयं वत्सः पुच्या विवाहवासरे / विस्मृतोऽतस्तृणादीनां दानात्तस्मात् कृशोऽभवत् // 18 // दत्त तृणजलादौ च वत्सो मन्दोऽभवत्तदा / ततः सर्वप्रकारेण चिकित्साः कारिताच तैः // 16 // विश्राणिते नमस्कारे मृत्वा वत्सः सुरालये / गतोऽवधिविदा जज्ञौ श्रोष्ठिनं स्वोपकारिणम् // 20 // अभ्येत्य स्वर्गतो वत्स-देवः श्रेष्टिमतल्लिकाम् / प्रणम्याऽवग ममासि त्वौं गुरुनमस्कृतिप्रदः // 21 // अहं वत्सो गृहे ताव-कीनेऽभूवं मृतः पुनः / तत्र त्वया नमस्कारा दत्ता मे म्रियतः सतः॥२२॥ त्वत्प्रदत्तनमस्कार-प्रभावात्ताविषे सुरः / अहं वत्सो मृतस्ताव-कीने गेहे तदा ध्र वम् / / 23 / / कोटिमल्यानि रत्नानि दश दत्त्वा दृढाग्रहात् / श्रेष्ठिने तत्स्नुषाणां तु हारं पृथक्पृथग् ददौ // 24 // ततः श्रेष्ठी विशेषेण धर्म जीवदयामयम् / आराध्य ताविपि तुर्ये ययौ वधूत्रयं पुनः // 25 // वत्सादयोऽपि ताविषाच् च्युत्वा सुरपुरे वरे / धर्मश्रीष्टिसुतो राम-नामाऽजनि मनोहरः // 26 // रामोऽन्यदा गुरूपान्ते श्रु त्वा धर्म विरागवान् / दीक्षां लात्वा तपस्तीव्र चक्र कल्याणशर्मदम् // 27 / / यतः-पोरिसि चउत्थछ8 काउं कम्म खवंति जं मुणिणो। तं नो नारयजीवा वाससय सहस्सलक्खेहिं // 28 // अत्र सिद्धगिरौ राम-यतिरेतोऽन्यदा क्रमात् / तपःषष्ठादि बहुश-श्वकाराऽनघमानसः // 26 //