________________ श्रीश्रेयांसस्य शत्रुञ्जयसमागमनस्वरूपम् 57 00000000000000000000000000000000000000000 0000000. शक्रेण काश्चतक्ष्मानं नीत्वा प्रभु जनुर्महः / कृत्वा मुक्तोऽन्तिके मातु-जग्मे त्रिदशमन्दिरम् // 3 // प्रातः पिता विधायाऽथ जन्मोत्सव मनोहरम् / श्रेयांसेत्यभिधां सूनो ददौ स्वजनसाक्षिकम् // 4 // राज्यप्राप्ति-ज्ञानप्राप्तिं यावत् सम्बन्धोऽत्र स्वयं वाच्यः / श्रीश्रेयांसो जिनो भव्य-जीवान् भुवि विबोधयन् / सिद्धाद्रौ समवासार्षीद् भूयिष्ठसंयतान्वितः // 5 // तत्र स्थितः प्रभुभव्य-जीवान् बोधयितुम् दृढम् / पुण्योपदेशमाधातु प्रावर्त्तत लसगिरा // 6 // देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः / दानं चेति गृहस्थानां षट् कर्माणि दिने दिने // 7 // चन्द्राह नगरे चन्द्र-वीरस्य मेदिनीपतेः / चन्द्रावती प्रिया चञ्चच्छीलसौभाग्यवत्यभूत् // 8 // अन्यदा नृपतिर्यावत् सभायां समुपाविशत् / तावच्छुक-शुकीयुग्म कुर्वत् कलिं समागमत् / / 6 / / किमर्थं क्रियतेऽत्यन्तं, युवाभ्यां कलहोऽधुना / इत्युक्ते भूभुजा शुक्या, प्रोक्तमेष सुतो मम // 10 // शुकोऽवग् मम पुत्रोऽय-मेष एव नरेश्वर ! / भूगोऽवग् क्रियते नैव विवादो हितमिच्छता // 11 // यतः-"विवादं कुर्वतां पुसा, पशुनामिव जायते / दुःखं परत्र पातः स्यात् श्वभ्रे शङ्का (सङ्ख्या) सुखे पुनः सुतोऽयं युवयोरेष, युवाभ्यां जनितो यतः / स्वकुले कलहो दुःख-दायी स्यादुभयोरपि // 13 // ततो मुक्तविवादः सन्, शुकः पत्नीसुतान्वितः / ययौ युगादिदेवस्य, गृहे तस्थौ समाहितः // 14 // तत्रासन्नप्रदेशे तु, ज्ञानतुङ्गगुरूत्तमान् / नत्वा शृण्वत्सु भव्येषु, धर्म कीरः समागमत् // 15 // श्रीमजिनेशनमनं तिलकत्यलीके, वक्षःस्थले विमलमालति सद्विवेकः / ताडङ्कति श्रवणयोः सुगुरूपदेश-स्त्यागस्तु कङ्कणति पाणितले सतां हि / / 16 / / पूआ पच्चक्खाणं पडिकमणं पोसह-परोवयारो य / पंच पयारा जस्स य न पयारो तस्स संसारे / / 17 / / अर्हत्पूजाफलं ज्ञात्वा, प्रत्यहं बहवो जनाः / समेत्य सदने भावात, कुते जिनपूजनम् // 18 // तदा शुकोऽपि पत्र्यंङ्गभूशाली दिवसोदये / ढोकयित्वा प्रभोरग्रे, शस्यशीर्षाणि गच्छति // 16 // अर्हत्पूजाप्रभावेण, मृत्वा कीरः समाधिना / चन्द्रवीरस्य पुत्रोऽभूत्, चन्द्रदेवाभिधानतः // 20 // अर्हत्पूजाप्रभावेण, मृत्वा शुक्यमरे पुरे / लक्षभूपसुता जाता, सुन्दरी नामतः क्रमात् // 21 // चन्द्रदेव कुमारोऽयं, लक्षभूपतिनन्दिनी / परिणिन्ये शुभे लग्ने, तातस्यादेशतः क्रमात् // 22 // क्रमात् शुकसुतः कीरो मृत्वा पूजाप्रभावतः / चन्द्रदेवकुमारस्य पुत्रोऽभूत् कमलाभिधः // 23 // वीरभूपः सुतं न्यस्य स्वपट्ट गुरुसन्निधौ / दीक्षां लात्वा चकारोग्रं, तपो मुक्तिसुखप्रदम् // 24 // गुरूपान्ते पठन्नित्य-मागमं कोविदोऽजनि / ततः मूरिपदं प्राप्य प्राप ज्ञानमनुत्तरम् // 25 / / चन्द्रदेवोऽन्यदा पत्नी-पुत्रयुक्तो दिनोदये / युगादिजिनगेहेऽगाद् नन्तु श्रीवृषभं प्रभुम् // 26 // केनचिड्ढौकितं शस्य-शीर्ष वीक्ष्य नरेश्वरः / पत्नीपुत्रयुतो मूर्छामवाप्प न्यपतत् क्षितौ // 27 // शीतोपचारतः स्वस्थी-कृतो भूपः प्रियादियुग् / स्वं प्राग्भवस्वरूपं च, प्रोवाच मन्त्रिणां पुरः // 28 // अर्हत्पूजाफलं ज्ञात्वा भूपात्तस्माच्च तत्र तु / प्रभुपूजापरा आस-नने के मनुजास्तदा // 29 // पत्नीपुत्रपुतो राजा, पूजयित्वा प्रभु सदा / अन्नपाने मुखे स्वीये क्षिपत्येवान्यथा न हि // 30 //