________________ शत्रुञ्जय-कल्पवृत्तौ .0000000000 .0000000000000000 संसारासारतां मत्वा गुरोरास्याद्धराधवः / वितीर्य सूनवे राज्यं संयम सप्रियो ललौ // 31 // तस्मिन्नेव भवे कम्मै-धांसि दग्ध्वा तपोऽग्निना / चन्द्रदेवयतिः प्राप महोदयपुरं रयात् // 32 / / राज्ञी तप्त्वा तपो गत्वा तृतीये ताविषेष क्रमात् / प्राप्य मर्त्यभवं मुक्तौ गन्ता सर्वतमःक्षयात् // 33 // कमलः स्वं तनूजातं स्वपट्ट न्यस्य सूत्सवम् / लात्वा दीक्षां ययौ मुक्तिं प्राप्य ज्ञानमनुत्तरम् / / 34 // एवं प्रभोगिरं श्रुत्वा भूयांसो भव्यदेहिनः / छित्त्वा निःशेषकर्माणि जग्मुः शत्रुखये शिवम् // 35 // X इति श्रीश्रेयांसस्य शत्रुञ्जयसमागमनस्वरूपम् X // अथ श्रीवासुपूज्यजिनस्य श्रीशत्रुञ्जयतीर्थे समागमनस्वरूपम् / / चम्पायां वसुपूज्यस्य भूपस्याऽभूजया प्रिया / चतुर्दशमहास्वप्न-सूचितं गर्भमादधौ // 1 // फाल्गुनासितमार्तण्ड-तिथावुच्चग्रहेष्वथ / जयाऽसूत सुतं वर्य-लक्षणैर्लक्षितं शुभैः // 2 // शक्रेण विहिते जन्मोत्सवे जन्मोत्सवं पिता / कृत्वाऽदात् वासुपूज्येति नाम सूनोः सदुत्सवम् // 3 // अत्र ज्ञानप्राप्ति यावच्चरित्राद् ज्ञेयं त्व(स्व)यम्विहरन्नन्यदा वासु-पूज्यस्तीर्थङ्करो भुवि / सिद्धभूमीधरस्योर्ध्व-धरणौ समवासरत् // 4 // तत्रानेके जना स्वामि-वाणी योजनगामिनीम् / सर्वपापछिदं श्रोतु समीयुईरदेशतः // 5 // * तथाहि--प्रासादप्रतिमाधर्म-शालादिपुण्यतः किल / लभन्ते मनुजाः स्वर्गा-पवर्गादिरमा रयात् // 6 // यतः- अङ्गठमात्रमपि यो बिम्ब कारयति वरम् / वृषभादिमवीरान्त-जिनानां स शिवं श्रयेत् // 7 // अङ्गुष्टमात्रमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् / __ स्वर्गप्रधानविपुलर्द्धिसुखानि भुक्त्वा, पश्चादनुत्तरगतिं लभते स धीरः // 8 // अर्हत्प्रासादबिम्बानि कारयन्ति जनाश्च ये / तेषां स्वर्गादिशर्म स्या-धीरभूपकलत्रवत् // 9 // आसंश्चन्द्रपुरे धीर-भूपस्याष्टौ प्रियाः प्रियाः / आसीत्तासु वरा पट्ट-राज्ञी वीरमतिः क्रमात् // 10 // जैनधर्म वितन्वानो-पदेशं ददतीतराम् / पट्टराज्यन्यराज्ञीभ्य-स्तासां तत्राभवद् गुरुः // 11 // आदौ जिनालयं वयं कारयित्वा धनव्ययात् / पट्टराज्ञी ददौ तासा-मुपदेशं शिवप्रदम् // 12 // आरोग्यभाग्याभ्युदयप्रभुत्वं, सत्वं शरीरे स्वजने महत्त्वम् / तत्त्वं च चित्ते सदने च सम्पत्, सम्पद्यते पुण्यवशेन पुसाम् // 13 // पट्टराज्ञीजिनावासा-दन्या भूपप्रियाः प्रियाः / अधिकान् स्वान् जिनागारा-नचीकरन् मनोहरान् // 14 // तासां जिनालयान् प्रौढान् वीक्ष्य दध्यो च सा हृदि / मया मोघाद् ददे धर्मो जैन आसां पुरोऽधुना // 15 // आभिर्ये कारिताः सर्वा(सार्वा)-लया उच्चतरा वराः। ते पतिष्यन्ति चेच्छीघ्र जायते मे तदा वरम् // 16 // प्रायो विभूतिमन्येषा-मालोक्य मानवाः सदा / ईयां वितन्वते शश्वत् कत्तुं तानि सदादरात् // 17 //