________________ शीतलजिनस्य शत्रुञ्जयसमागमनस्वरूपम् 1000000000 00000000000000000000000000000000000000000000 000000000000. अहं त्वया कृता दिव्य-चक्षुः स्वौषधदानतः / सत्योऽसि त्वं महान् वैद्यः परोपकृतिकारकः // 13 // वैद्यो जगौ मया कुत्र ददे तवौषधं वद / वृद्धाऽऽह भवता प्रोक्त-मर्कस्य क्षीरमौषधम् // 14 // वृद्धादत्त धनं लात्वा वैद्यस्तस्य तरोरधः / खनित्वा घृतसम्पूर्ण भाजनमाप्तवान् रहः // 15 // घृतेन तेन लोकानां बहूनामन्धतां दृशोः / स्फेटयित्वा महेभ्योऽभूद् विख्यातो देशमध्यतः // 16 // क्रमात् स वैद्यराट प्राप्त-वैराग्यो गुरुसन्निधौ / लात्वा व्रतं तपश्चके तीव्र कमरजश्छिदे // 17 // वैद्यपुत्रास्त्रयः पितृ-दत्तरिक्था धनं निजम् / दीनदुःस्थादिलोकेभ्यो ददते सादरं सदा // 18 // ततोऽशेषतमश्छेद कृते वैद्य-तपोधनः / मासे मासे करोति स्म पारणं भवतारणम् // 16 // क्षिप्त्वा सर्व तमो वैद्यः प्राप्तकेवलवित् क्रमात् / उपविश्य ददौ धर्मोपदेशमिति देहिने // 20 // धर्मोऽयं धनवल्लभेपु धनदः कामार्थिनां कामदः, सोभाग्यार्थिषु तत्प्रदः किमथवा नानाविकल्पैनृणाम् / वैद्यज्ञान्युपदेशेन गुर्वाद्या बहुसाधवः / सम्प्राप्तकेवलज्ञाना ययुमुक्तिपुरीं क्रमात् // 22 // श्रुत्वेति जिननाथोक्तं धम भूयिष्ठभाविनः / जिनधर्म व्रतं चापि तदा प्रपेदिरे सुखम् // 23 // क्षिप्त्वा निःशेषकर्माणि केचित्तत्र यतीश्वराः / अभवन् स्वामिनो मुक्ति-नितम्धिन्या गिरौ क्रमात् // 24 // एवं श्रीसुविधिः सार्वः प्रबोध्य भविनो बहून् / अन्यत्र विजहाराऽथ भव्याङ्गिबोधहेतवे // 25 // ॐ इति श्रीसुविधिजिनस्य समागमनस्वरूपम् * / // अथ शीतलजिनस्य शत्रुजयसमागमनस्वरूपम् / / भदिलाबपुरे वों, भूपो दृढरथोऽजनि / तस्य नन्दाभिधा राज्ञी बभूवाऽनघशीलभाग् // 1 // चतुर्दशमहास्वप्न-भूचितो नन्दया सुतः / असावि माघमासस्य, कृष्णस्य द्वादशीतिथौ // 2 // __शक्रकृतजन्मोत्सव-ज्ञानप्राप्तिं यावद्वाच्यम् / शीतलतीर्थकृत् कुर्वन्, विहारं वसुधातले / सिद्धाद्रौ समवासापी दनेकसाधुसंयुतः // 3 // तत्राऽऽगतेष्वसङ्ख्येषु, यात्रार्थ भविषु ध्र वम् / धर्मोपदेशनां चक्रे, शीतलस्तीर्थनायकः // 4 // परिग्रहप्रमाणं तु, यश्चकार धनादिषु / कालनैगमवद् याति, मुक्तिपुर्या स मानवः // 5 / कुन्तपुर्या वणिक् कालो, यद् यल्लाति क्रयाणकम् / द्वित्रिचतुर्गुणाभ-विक्रीणीते स्म तत्तदा // 6 // भाग्योदये भवेत् पुसां पुत्रपौत्रादिकं धनम् / अभाग्यस्योदये दुःखं जायते च भवे भवे // 7 // यथा यथा गृहेऽभ्येति, लक्ष्मीस्तस्य निरन्तरम् / तथा तथा भवेत्तृष्णा वद्ध मानाऽन्तरिक्षवत् / / यतः-तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते ? / या महद्भिरपि क्षिप्तः पूरण द्धतेतराम् // 9 // अर्ज यन् कमलां कालो, विश्राम लाति नो यदा / तदा रमा प्रिया प्राह कष्टं किं क्रियतेऽधिकम् ? // 10 // यतः--"अर्थानामर्जने दुःख-मर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखभाजनम् // 11 // परत्र गच्छतः कस्य (कैश्चित्) सह याति रमा नहि / तेन श्रीय॑यते सप्त-क्षेत्रेषु स्याद् यतः स्थिरा // 12 //