________________ 54 श्रीसुविधिजिनस्य समागमनस्वरूपम् 000000000000000000000000000000000000000000om मा मुक्ताश्चूर्णयेदानीं शिरोऽनिमें गता क्षयम् / श्रेष्ठ्याह किं स्नुषे ! शीर्ष वेदना त्वरितं ययौ // 16 // वधूः प्राह तवौदार्य-गुणौषधिनिरीक्षणात् / शिरोऽत्तिमें ययौ सद्यो ध्वान्तं रविकरादिव // 20 // भूमीपतिततैलस्य बिन्दन् गृह्णन् मयेक्षितः / अतः कृत्वा मिषमिदं परीक्षा ते कृता पितः ! // 21 // श्रेष्ठयाहाऽव्यवहारेण यद्याति तद् वृथाऽखिलम् / व्यवहारे तु भूयिष्ठो विभवो व्ययते ध्रुवम् // 22 // विशेषाद्धर्मकृत्येषु व्ययंलक्ष्मीमहं सदा / खेदं कुर्वे मनाग नैव व्ययत्सु नन्दनादिषु // 23 / / ततो वधूर्जगौ तात ! त्वं धन्यः पुण्यवानसि / यतस्तवेदशी बुद्धि-धर्मकर्मणि सुन्दरे // 24 // सद्व्ययः क्रियते सद्भिः सदा सद्गतिहेतवे / असद्व्ययो विधीयेत मूढैदुर्गतिहेतवे // 25 // अन्यायन्यायभेदेन चतुर्भङ्गी धने भवेत् / अन्त्यः सर्वोत्तमो भङ्गो न्यायार्जितस्य सद्व्ययात् // 26 // श्रेष्ठिस्नुषे ततो याव-जीवं लक्ष्मी लसद्व्ययात् / सफलीचक्रतुः सप्त-क्षेत्रेषु विभवव्ययात् // 27 // प्रान्ते श्रीष्ठिस्नुषे मृत्वा-ऽऽदिमे स्वर्भवतां सुरौ / ततश्च्युतौ धरापुर्यां भीमभूपाङ्गजौ पुनः // 28 // द्वावपि भ्रातरौ प्रीति-वन्तौ गुर्वन्तिके गतौ / धर्म दयामयं श्रुत्वा ललतुः संयम पुनः // 26 // पालयित्वा व्रतं भूरि वर्षाण्याप्तविदौ क्रमात् / महोदयपुरीं सद्यो ऽलश्चक्रतुः सहोदरौ // 30 // पुण्योपदेशमित्यादि श्रुत्वा भूरिजनास्तदा / व्रतं लात्वा शिवं जग्मु-स्तीर्थे विमलपते // 31 // * इति चन्द्रप्रभजिनस्य समवसतिस्वरूपम् * // अथ श्रीसुविधिजिनस्य समागमनस्वरूपम् / / काकन्यां पुरि सुग्रीव-भूपस्य न्यायशालिनः / मार्गस्यासितपञ्चम्यां रामाऽमृत सुतं प्रिया // 1 // ___ इन्द्रजन्मोत्सवकरणादि ज्ञानप्राप्तिं यावद्वाच्यम् / बोधयन् भविनो जीवान् सुविधिर्जिननायकः / सिद्धाद्रौ समवासार्षीत् भूरिसाधुसमन्वितः // 2 // तत्र द्वादशसंसत्सू-पविष्टासु जिनेश्वरः / धर्मोपदेशनां दातु-मारेभे शिवशर्मणे // 3 // अन्धीभूताऽवला वृद्धा वैद्योक्तौषधयोगतः / दिव्यनेत्रा यथा जाता तथा भव्यो गुरूक्तितः॥४॥ मीनाह्वनगरे भीम-वैद्यस्य सूनवस्त्रयः / काम-राम-मुकुन्दाह्वा बभूवुः श्रीप्रियाभवाः // 5 // त्रयोपि पाठिता विद्याः पित्रा पुत्रा धनार्जनात् / धन-चन्द्र-बनेभ्यानां नन्दिनीः परिणायिताः // 6 // श्वश्वा समं स्नुषाः सर्वाः कुर्वन्त्यः कलहं सदा / क्षणमेकं न विश्राम लेभिरे कारुलोकवत् // 7 // कुर्वत्सु तेषु कलहं वृद्धाऽथैका नितम्बिनी / प्रष्टुकामौषधं वैद्यो-पान्तेऽभ्येत्य जगावदः / / 8 / / अन्धत्वस्फेटकं दृष्ट्यो-रोषधं रुचिरं मम / वैद्यराड् यच्छ कृत्वा त्वं प्रसादं मयि साम्प्रतम् / / 6 / / पुनः पुनस्तयेत्युक्ते रुष्टो वैद्यो जगाविति / अस्याऽर्कस्य चिप क्षीरं दृष्ट्योरन्धत्वभिद् ध्रुवम् // 10 // तया तथा कृतेऽकस्य क्षीरक्षेपविधानतः / दिव्यनेत्राऽभवद् दृष्टि वैद्यप्रोक्तविधेस्तदा // 11 // टङ्कानां शतं लात्वा वृद्धा नारी कुटुम्बयुग / वैद्योपान्ते समेत्यावक प्रसयैतद्धनं वृणु // 12 //