________________ चन्द्रप्रभजिनस्य समवसृतिस्वरूपम् ......000000000000000000000 0000000000000000000000 दन्तैश्च त्रोटयामास पाशमाखुस्तथा तदा / यथाऽऽसन् शतशः खण्डाः स्वस्थोऽभवदतो गजः // 20 // निर्गत्य पाशतो हस्ती सर्वानाखूस्तदा द्र तम् / धान्यौपदर्शनेनैव प्रीण यामास सादरम् / / 21 // एवं गजसमो जीवो मनो व्याधसमं मतम् / व्यापाशोपमं कर्म भवोऽरण्यसमः पुनः // 22 // जीवः कुमनसा बद्धः शुक्लध्यानाऽऽखुना पुनः / मोचितः सुखवान् सद्यो जायते सामयोनिवत् // 23 // एष दृष्टान्तः कल्पितोऽस्ति “चरिअं च कप्पिरं वा आहरणं दुविहमेव नायव्यं० // अत एव विधातव्यं सन्मार्गे देहिना मनः / मन एव नयत्याशु जीवं श्वभ्र शिवेऽपि च // 24 // इत्यादिदेशनां श्रुत्वा भविनस्तत्र भूरिशः / दीक्षां लात्वा ययुमुक्तिं सर्वकर्मव्रजक्षयात् // 25 // ॐ इति सुपार्श्व-जिनकथा // // अथ चन्द्रप्रभजिनस्य समवसृतिस्वरूपम् / / चन्द्रपुर्यां महीशस्य महासेनस्य लक्ष(क्ष्म)णा / पत्नी शीलगुणेनाऽऽप रेखां सर्वाऽवलासु च // 1 // चतुर्दशमहास्वप्न सूचितः शोभनेऽहनि / सुतो लक्ष(क्ष्म)णयाऽसावि सर्वलक्षणलक्षितः / / 2 / / __ इन्द्रपितृकृतजन्मोत्सवादिज्ञानप्राप्तिपर्यन्तं वाच्यम् / चन्द्रप्रभप्रभुः पृथ्वीं पावयन् पदरेणुभिः / शत्रुञ्जये महातीर्थे सुराय॑ः समवासरत् // 3 // तत्र द्वादशपर्षत्र-पविष्टेषु सुरादिषु / वाण्या योजनगामिन्या चन्द्रप्रभो जगाविति // 4 // क्षेत्रेषु सप्तसु स्वीय-श्रियं व्ययन् सदाऽऽदरात् / वीरसेनेभ्यवन् मुक्ति-सातवान् जायते भवी // 5 // रामपुर्यां महेभ्यस्य वीरसेनस्य सन्मतेः / चन्द्रकेत्वभिधः पुत्रो-ऽजनि मन्मथरूपवान् // 6 // पित्राऽथ पाठितो धर्म-कर्मादिशास्त्रपद्धतिम् / चकार धर्मकृत्यानि तातेन सह सन्ततम् // 7 // श्रीपुरे मदनश्रेष्ठि-पुत्रीं त्रैलोक्यसुन्दरीम् / परिणीन्ये शुभे लग्ने चन्द्रकेतुः सदुत्सवम् // 8 // गेहकृत्यं वितन्वाना त्रैलोक्यसुन्दरी सदा / विततान प्रतिक्रान्ति सन्ध्ययोतिये किल / / 6 / / गृहेऽन्यदा स्नुषा दीपं यावच्चक्रे दिनात्यये / तावदीपादधः पेतु-स्तैलस्य बिन्दवो नव // 10 // मेदिनीपतितान् बिन्दून् दृष्ट्वाश्रीष्ठी उपानहोः। सद्यश्वोपडयामास (स्निग्धयामास तत्कालं) तैलबजनभीतितः / स्नुषा दध्यावयं श्रेष्ठी कृपणः किं करिष्यति ? / व्रतं द्वादशमं पाल-विष्यतेऽत्र मया कथम् ? // 12 // मया सप्तसु क्षेत्रेषु धनं चेद् व्ययते मनाक् / तदाऽसौ श्वसुरो मर्ता-ऽथवा मां मारयिष्यति // 13 // परीक्षार्थ प्रगे सुप्तां स्नुषां वीक्ष्य स नैगमः / पप्रच्छ किं स्नुषे ! सुप्ताऽधुना दुःष्यति किं ज्वरः // 14 // स्नुषाऽवग् विद्यतेऽत्यन्तं शिरोऽतिः प्राणहारिका / अचीकरत् ततः श्रेष्ठयौ-षधानि भूरिशस्तदा // 15 // वधूः प्राह नहीः -रौषधैर्याति वेदना / श्रेष्टयभाणोच्च कीदृक्षः शिरोऽतिजति क्षयम् // 16 // वध्ववग मे शिरःपीडा साम्प्रतं वर्द्धतेतराम् / मुक्ताचूर्णैः शिरोलिप्तः शिरोऽतिम क्षयं व्रजेत् // 17 // जाता(त्य)मुक्तास्ततः श्रेष्ठी नीत्वा तत्राऽश्मना द्रुतम् / चूर्णीकतु यदा लग्न-स्तदोचे स्नुषया पिता / / 18 / /