________________ सम्भवजिनस्य शत्रुञ्जयागमनसम्बन्धः 000000000000000 0000000000000000000000 तेनाहमुषसि न्यक्ष-विभूत्या चरणौ प्रभोः / वन्दिष्ये कृतशोभायां नगर्यां भूरिभूपयुम् / / 7 / / सामग्री रुचिरां कृत्वा बाहुबलिः सदुत्सवम् / वन्दितु वृषभं यावद-चालीद् बहुभूपयुग् // 8 // इतस्तावत् प्रगे स्वामी वायुवञ्चलितोऽग्रतः / तत्राऽऽयातः सुतस्तात-मनीच्येत्यरुदत् स च // 9 // स्वामिन् ! किं न त्वयाऽदर्शि दर्शनं स्वं ममैकशः / अलक्ष्यत्वं कथं जातो दृग्पथात् साम्प्रतं प्रभो ! // 10 // इत्यादि विलपन् बाहु-बलिः सचिवपुङ्गवः / कारितः कारयामास स्तूपं जिनाङ घिराजितम् ॥११॥युग्मम्।। धर्मेच्छुर्यो जनश्चक्रे विलम्ब क्षणमेककम् / स एवं शोचति स्वस्मिन् बाहुबलिनरेन्द्रवत् // 12 // इत्यादि धर्ममाकये बहवो भविनो जनाः / मुक्तिं तत्र गिरौ जग्मुः सर्वकर्मस्थितिक्षयात् // 13 // एकदाऽजिततीर्थेशे कुर्वाणे धर्मदेशनाम् / साधु-लक्षत्रयं मुक्ति-मीयिवत् सिद्धपर्वते // 14 // ॐ इति अजितजिन-शत्रुञ्जयसमागमनसम्बन्धः * // अथ सम्भवजिनस्य शत्रुञ्जयागमनसम्बन्धः // एकदा सम्भवस्तीर्थ-करः प्रबोधयन् जनान् / बहुसंयतसंयुक्तः सिद्धाद्रौ समुपेयिवान् // 11 // कृते वप्रत्रये देवैः रूप्य-स्वर्ण-मणीमये / उपविश्य ददौ धर्मो-पदेशं सम्भवो जिनः // 2 // नन्दीश्वरेषु यत्पुण्यं द्विगुणं कुण्डले नगे / त्रिगुणं रुचके हस्ति-दन्तेषु च चतुर्गुणम् // 3 // एतद् द्विगुणितं जम्बू-चैत्ये यात्रां वितन्वताम् / षोढा तु धातकीखण्डे तच्छाखिजिनपूजनात् // 4 // पुष्करोदरबिम्बानां द्वात्रिंशद्गुणसम्मितम् / मेरुचूलार्हदर्चायां पुण्यं शतगुणं भवेत् // 5 // शत्रुञ्जये कोटिगुणं स्वभावोत् स्पर्शतो मतम् / मनोवचनकायानां शुद्धयाऽनन्तगुणं नृणाम् // 6 // वर्द्धमानपुरे पद्म-श्रीष्टिनः श्रीमती प्रिया / तिस्रः पुत्र्योऽभवन् पद्मा-लक्ष्मी-चन्द्रावती क्रमात् // 7 // तिस्रोऽपि पाठिताः पित्रा धर्मकर्मकलाः समाः / सन्ध्याद्वये प्रतिक्रान्तिं जिनार्चा च वितन्वते // 8 // एकमेव वरं तिस्रो भगिन्यः कोविदोत्तमम् / वाञ्छन्त्यो जनकस्याग्रे जगदुश्चित्तचिन्तितम् / / 6 / / ततः पिता धनश्रेष्ठि-नन्दनं श्रीदसज्ञितम् / विज्ञमाकर्ण्य शास्त्राणा-मर्थ पप्रच्छ सादरम् // 10 // लक्षणालङ कतिच्छन्दो-मुख्यशास्त्रार्थमद्भुतम् / श्रेष्ठी पप्रच्छ यं यं च तं तं सोऽचकथद् द्रुतम् // 11 // ततः श्रेष्ठी व्ययन् भूरि-विभवं लसदुत्सवम् / तिस्रः पुत्रीर्ददौ श्रीद-बराय धनसूनवे // 12 // वर्षद्वये गतेऽकस्मादुत्पन्ने विषमामये / चिकित्सितोपि वैद्यः स पञ्चत्वमगमत्क्रमात् // 13 // यतः-मातापिता भैषजमिष्टदेवो विद्याप्रियानंदनबान्धवाश्च / गजाश्च भृत्या बलपद्मवासे नेशा जनं रक्षितुमन्तकाले अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः सह / अप्रियः सम्प्रयोगश्च सर्व पापविजम्भितम् // 15 // ततस्तिस्रः सहोदर्य:मिथः प्रोचू रहः स्थिताः / अस्माभिर्न कृतं पुण्य-मखण्डं पूर्वजन्मनि // 16 // तेनेदानीं समायातं वैधव्यं नः कुकर्मतः / अखण्डं चेद् विधीयेत पुण्यं वरं तदा भवेत् // 17 // यतः-पत्यौ मृतेपि या योषिद् वैधव्यं पालयेत् क्वचित् / सा पुनः प्राप्य भर्तारं स्वर्गभोगान् समश्नुते // 18 //