________________ अजितजिनशत्रञ्जयसमागमनसम्बन्धः 45 00000000000000000000000000000000000000000000000000000 सिरिनेमिनाहवज्जा जत्थ जिणा रिसहपमुहवीरता। तेवीस समोसरिआसो विमलगिरी जयउ तित्थं // 10 // व्याख्या--'श्रीनेमिनाथो' द्वाविंशस्तीर्थकृत् तेन वर्जिता-रहिताः श्रीऋषभाजिताद्याः श्रीवर्द्ध मानपर्यन्तास्त्रयोविंशतिर्जिनाः समवासाषुः यत्र गिरौ स विमलगिरिः-शत्रुञ्जयनामा पर्वतो जगद्वन्धो जयतात् इति सम्बन्धः / तत्रादौ श्रीऋषभजिनस्य समवसृतिस्वरूपं प्रोच्यतेविहरन् वृषभः स्वामी साधूनां शिवहेतवे / सुराय॑ः समवासार्षीत् तीर्थे शत्रुञ्जयेऽन्यदा // 1 // तत्रेति सुरमत्यांना पुरतो वृषभः प्रभुः। धर्मोपदेशनां चक्र पापहन्त्र्या गिरा किल // 2 // विरोधिता बन्धु जनेषु नित्यं सरोगता मूर्खजनेषु सङ्गः।करः स्वभावः कटुवाक सरोषो नरस्य चिह्न नरकागतस्य स्वर्गच्युतानामिह जीवलोके चत्वारि नित्यं हृदये वसन्ति / दानप्रसंगो विमलाच वाणी देवार्चनं सद्गुरूसेवनं च दुर्वारा वारणेन्द्राः जितपवनजवा वाजिनः स्यन्दनौघाः, लीलावत्यो युवत्यः प्रचलितचमरभूषिता राज्यलक्ष्मीः। उच्चैः श्वेतातपत्रं चतुरुदधितटी संकटा मेदिनीयं, प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु नो धर्मलाभः॥ तत्रस्थस्य प्रभोर्लक्ष-मिता वाचंयमा वराः / आसाद्य केवलज्ञानं मुक्तिपुर्या समागमन् // 6 // ततः श्रीवृषभः कृत्वा विहारं बोधयन् जनान् / भूयश्च समवासार्पोन्मुमुक्षुमुक्तिहेतवे // 7 // तदा तत्र प्रभोरर्द्ध-लक्ष तपस्विनो वराः / अलचक्र : क्रमात् प्राप्य ज्ञानं मुक्तिपुरी पुनः // 8 // एवं वारानसङख्याता-नेत्य तत्रादिमो जिनः / साधून् भव्यजनान् भूरीन् प्रापयन्निवृतेः पुरीम् // 6 // यतः 'नवनवई पुव्वाई विहरंतो आगतो असित्तुजे / उसभी देवेहि समं समोसढो पढमतित्थम्मि"॥१०॥ 6685440000000000 एकोनसप्ततिः कोटाकोट्यः पञ्चाशीतिः कोटिलक्षाः चतुश्चत्वारिंशत् कोटिसहस्रा एतान् बारान् वृषभः शत्रुञ्जये समवासाषीत् / तत्र प्रभोगिरं श्रत्वा ये लात्वा संयम खलु / मुक्तिं जग्मुर्न हि तेषां संख्या ज्ञायेत कोविदैः॥११॥ * इति ऋषभजिनस्य शत्रुञ्जयागमनसम्बन्धः * // अथ अजितजिन-शत्रुञ्जयसमागमनसम्बन्धः / अजिततीर्थकृत् भव्य-जनान् भूरीन प्रबोधयन् / श्रागात् शत्रुञ्जये तीर्थे भव्याङ्गिमोक्षहेतवे // 1 // सालत्रये कृतेऽमत्त्य हेमरूप्यमणीमये / उपविश्याऽजितस्वामी धर्ममाख्यातवानिति // 2 // वरपूजया जिनानां धर्मश्रवणेन सुगुरुसेवनया / शासनभासनयोगैः सृजन्ति सफलं निजं जन्म // 3 // अवाप्य धर्मावसरं विवेकी कुर्याद्विलम्ब नहि विस्तराय / ततो जिनरतक्षशिलाधिपेन रात्रि व्यतिक्रम्य पुनर्न नेमे तथाहि-छद्मस्थाव स्थितो नाभि-पुत्रस्तक्षशिलान्तिके / कायोत्सर्गे स्थितः सायं स्वकर्मक्षयहेतवे // 5 // वनपालाननाद बाहु-बलिख़त्वाऽऽगमं पितुः / दध्यौ प्रभो तौ रात्रौ शोभा भवति नो मनाम् // 6 //