________________ शत्रुञ्जय-कल्पवृत्ती 10000000000000000000000 .00000000000000000000000 अथ पश्चात् सुतोऽसावि नन्दया शुभवासरे / तस्याऽभयकुमारेति नाम तत्राऽभवत् क्रमात् // 41 // वर्धमानः क्रमात्तातं मत्वा राजगृहाधिपम् / दर्शयित्वा धियं स्वीया-ममिलत् पितुरञ्जसा // 42 // चतुर्बुद्धिनिधिं पुत्रं मत्वा श्रोणिकभूपतिः / सर्वमन्त्रिषु मुख्यं तं तद्गुणै रञ्जितस्तदा (तो व्यधात्)॥४३॥ अनाथिसाधुपार्श्वे तु श्रुत्वा धर्म जिनोदितम् / श्रीवीरस्याऽर्हतः सेवां चकार श्रेणिकः सदा // 44 // . पूजयित्वा प्रभु प्रात-रष्टोत्तरशतं यवान् / रैमयान ढोकयित्वैव श्रोणिकोऽत्ति निरन्तरम् // 45 // प्रभोः पूजां वितन्वानः श्रोणिकोऽखण्डभक्तितः / तीर्थकृत्पदवीयोग्य-मर्जयत् कर्म सुन्दरम् // 46 // पूर्व मृगवधाद् बद्धकर्मा श्रोणिकभूधवः / प्रथमे नरके यातो मध्यमायुषि शीघ्रतः // 47 // इतश्चोत्सर्पिणीकाले द्वितीयारावसानके / भविष्यन्ति क्रमात् सप्त वर्याः कुलकरोत्तमाः // 48 // तथाहि'पढमित्थ विमलवाहण बीओ सुदामो तइअ संगमत्रो, चउत्थ सुपासो दत्तो पंचमत्रो छट्टो सुमुहो सत्तमो समुची' आदिमः कुलकृजाति-स्मृत्या पुर्यादिकं समम् / स्थापयिष्यति सजाते प्रकटे ज्वलने भुवि // 46 / / उत्सप्पिण्यरकद्व ता-तिक्रमे भरतान्तरे / पुण्डवर्द्धनदेशे तु शतद्वाराह्वये पुरे // 50 // समुचिच्मापतेर्भद्रा-भिधा सहचरी वरा / भविष्यति लसद्र पा पराभूतामरप्रिया ॥५१॥युग्मम्।। सुखसुप्ताऽन्यदा भद्रा स्वप्नान्येवं चतुर्दश / गजादीनि विशन्त्यास्ये निजे दृक्ष्यत्यहोऽत्यये // 52 // रत्नप्रभाभिधे श्वभ्र प्रस्तटे रोरकाह्वये / चतुरष्टसहस्राब्दी पालयित्वाऽऽयुषः स्थितिम् // 53 // श्रोणिकस्यासुमान् भद्रा-देव्याः कुक्षौ शुभेक्षणे। अवातरिष्यति क्षोणी क्षणं सुशं (स्थां) करिष्यति // 54 // उच्चषु रविचन्द्रादि-ग्रहेषु सकलेष्वमि / शुक्लचैत्रत्रयोदश्यां भद्रा साविष्यते सुतम् // 55 // करिष्यतो हरि-क्ष्मापौ तस्य जन्मोत्सवं क्रमात् / पद्मनाभेति भूपालोऽभिधां दास्यति सूत्सवम् // 56 // सप्तहस्ततनुः स्वर्ण-वर्णः पञ्चाननध्वजः / पद्मनाभमहीभुग्भूः सेविष्यते नृपादिभिः / / 57 / / वर्द्धमानः क्रमाव रि-मर्दनक्षितिभुकसुताम् / पद्मनाभकुमारः सः समहं परिणेष्यति / / 58 / / त्रिंशद्वर्षेषु जातेषु मार्गकृष्णदशम्यथ / पद्मनाभस्य दीक्षाया दात्री क्रमाद्भविष्यति // 59 // वैशाखस्य सिते पक्षे दशमी ज्ञानदायिनी / भविष्यति क्रमात् पद्म-नाभस्य प्रथमाहतः // 6 // कृते सालत्रये देवेः रूप्य-स्वर्ण-मणोमये / उपविष्टो जिनो धम्म कथयिष्यति मुक्तिदम् // 61 // देशनान्ते जिनो गच्छ-नायकान् स्थापयिष्यति / ग्राहयिष्यति सुश्राद्ध-धर्म श्राद्धान् बहुनथ // 62 / / प्रतिबोध्य चिरं भव्य-जीवान् धर्मे शिवप्रदे / कार्तिकामावसी-रात्रौ गमिष्यति स नि तिम् // 63 // सूरदेवः सुपार्श्वश्च स्वयंप्रभो जिनेश्वरः / सर्वानुभूतिः सर्वज्ञो देव-श्र तोदयौ जिनौ // 64 // पेढालः पोट्टिलश्चापि श्रीशतकीर्तिसुत्रतो / अममो निष्कषायोऽथ निष्पुलाकश्च निममः // 65 // चित्रगुप्तसमाधी च संवर-श्रीयशोधरौ / विजयो मल्ल-देवौ चा-ऽनन्तवीयश्च भद्रकृत् // 66 // एते जिनाः क्रमाच्छत्रु-अये तीर्थे शिवप्रदे / समेत्य भव्यजीवेभ्यो दास्यन्ति धर्मदेशनाम् // 67 // तदा कोटिमिता भव्य-जीवाः क्षिप्त्वा तमोऽखिलम् / कल्याणकमलां सद्यो लभिष्यन्ति न संशयः॥६८॥ एवं भाविनस्तीर्थङ्करा असंख्याता मुक्ति गमिष्यन्ति शत्रुञ्जये तीर्थे --