________________ ऋषभजितस्य शत्रुञ्जयागमनसम्बन्धः 1000000000000000000000000000000000000000000000000000000000 43 0000000000 ..00000000000000. यतः--वाजिवारणलोहानां काटपापाणवाससाम् / नारीपुरुषतोयानामन्तरं विद्यते महत् // 10 // ततः सिताघृतक्षीर-भृतेषु भाजनेष्वथ / नन्दनेषूपविष्ट पु भोक्तु भूपनिदेशतः // 11 // बुभुक्षितान् शुनस्तेषु भाजनेष्वत्तमञ्जसा / मोचयामास भूपालः परीक्षार्थ रहः पुनः // 12 // युग्मम् / क्षीरमत्त समेतेषु श्वसु नष्टा नृपाङ्गजाः / एकः श्रेणिक उत्तस्थौ न तदा बुद्धिभाजनम् // 13 // . खरण्टितान्यमत्राणि कुमारैरुज्झितान्यथ / तेभ्यः श्वभ्यः क्षिपन्नाद श्रेणिको नृपनन्दनः // 14 // भूपाऽऽवासे ज्वलत्याशु भम्भा लात्वाऽऽदिमः सुतः / निर्ययौ निर्ययुश्चान्ये दुकुलादि गृहान्तरात् // 15 // ततो भृपो जगौ रे रे ! श्रेणिकाऽतो व्रजाऽधुना / भम्भा त्वं वोदयन् स्वीयोदरं भर गृहे गृहे // 16 // आकारणं विना नात्राऽऽगन्तव्यं भवता पुनः / त्वया शुना समं भुक्त-मतोऽसि त्वं शुना समः // 17 // श्रेणिकोऽथ निशि च्छन्न निर्गत्य स्वपुरात्तदा / गतोऽटव्यां ददर्शकं स्वप्नं सत्सातदायकम् // 18 // कल्ये गच्छन्नदीतीरे दृक्ष्यस्यश्वत्थ-सागरौ / तन्मूलयोः समस्त्येका शिला मध्ये महत्तमा / / 19 / / मणयोऽष्टादश प्रौढ-प्रभाषाः सन्ति सुन्दराः / पयोग्निव्याघ्रसिंहेभ-शाकिनीस्तम्भकारकाः // 20 // अन्धत्वशूलशीर्षात्ति-स्फेटका वश्यकारकाः / मौढ्योत्पादकसन्तान-वर्धकः कमलाप्रदः // 21 // भयहृत् प्रीतिदः पुष्टि-शान्तिदो रोगहारकः / एतान् मणीन् गृहीत्वा त्वं श्रेणिकाऽदुःखवान् भव // 22 // प्रातस्तांस्तान मणीन लात्वा ग्रन्थौ बद्ध्वा पृथक पृथग। प्रभावं च स्थिरीकृत्य श्रेणिकोऽचलदग्रतः // 23 // भिल्लय का मिलिता मार्गे प्राह मां वृणु सत्तम ! / भिल्लोऽसि मत्पिता लक्ष-ग्रामस्वामी मनोरम ! // 24 // अहं विभेमि नो व्याघ्राद् भूतात् प्रेतात् मतङ्गजात् / अन्यस्मादपि नो कस्माद् भीति मेऽस्त्यस्ति वाऽग्नितः श्रेणिकोऽवग् न ते पाणि-ग्राहं कुर्वेऽत्र भामिनि ! / अहं भूपसुतोऽस्मि त्वं भिल्लीत्येवं कथं वद // 26 / / एवं जल्पन कुमारस्तु तत्राऽऽयाते दवानले / स्मृत्वा वह्निमणि शीघ्र प्रविश्याऽवक च तां प्रति // 27 // आगच्छाऽत्र वृणु त्वं मां ततो भिल्ली जगावदः / मौढ्यान्मयोदितो भेदस्तेनाहं वञ्चिता त्वया // 28 // ततो गच्छन् कुमारस्तु गतो बिन्नानदीतटे / यावद् वृक्षेऽचटन् तावन्मूलात् पपात वारिणि // 26 // आरुह्य तं तरु भृप-पुत्रो बेन्नाटपत्तने / ययौ यावत्तदा जज्ञे करेषु चन्दनं द्र मम् // 30 // इभ्येभ्यस्तं वितीर्य द्र प्राप्य भूरीन् मणीन् वरान् / श्रोणिकः प्रययौ हट्ट धनावहरमावतः // 31 // तस्मिन् हट्टस्थिते भूरि-लाभे जाते वणिग् जगौ / कस्य प्राधूर्णकोऽसि त्वं ? स प्राह भवतोऽस्म्यहम् / / 32 / / स्वगृहे श्रष्टिनाऽऽनीतं दृष्ट्वा च रुचिराकृतिम् / नन्दापुत्री जगौ ताताऽमुना मां परिणायय // 33 // श्रेष्ठिना भोजयित्वा तं तस्मै नन्दा निजाङ्गजाम् / वितीर्य स्वगृहेऽस्थापि स श्रेणिको नृपाङ्गजः // 34 // धृति पूर्वागतां यान-पात्र भ्यः स धनावहः / हट्टस्याग्रेऽक्षिपद्यां तु तां दृष्ट्वा श्रोणिकोऽगदत् // 35 // एवं कथं त्वया क्षिप्ता धूली तेजनतूरिका / श्रेष्ठी प्राहाऽनया धृल्या विद्यते किं प्रयोजनम् ? // 36 / / श्रेणिकः प्रोक्तवानेपा न धूलिर्विद्यते वणिग् ! / इयं क्षिप्ताऽनले स्वर्ण जायते त्रपुयोगतः // 37 // श्रेष्ठ्यपि स्वर्णमादाय धृलितो धनवानभूत् / श्रोणिकोऽन्धां महीपाल-पुत्री दिव्यदृशं व्यधात् // 38 // सगर्भा गेहिनी मुक्त्वा तातेनाऽऽकारितो रहः / श्रेणिकोऽभ्येत्य तातस्य ननाम चरणौ मुदा / / 36 / / प्रसेनजिन्नृपो राज्यं दत्वा श्रोणिकसूनवे / तपो लात्वाऽऽयुषः प्रान्ते स्वर्गसातमवाप्तवान् // 40 //