________________ अभिनन्दनस्य शत्रुञ्जयागमनसम्बन्धः 0000000000000000000000 मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता / स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः // 16 // ध्यात्वेति ताः सहोदर्यो भावारीन् जेतुमन्वहम् / धर्मकर्म क्रियास्वेव-मस्थापयन् मनो निजम् // 20 // इतः संसदि मोहस्य जगादेति स्मरानुगः / शश्वत् श्रीष्ठिसुतास्तिस्र-स्तथा धर्म वितन्वते // 21 // पश्चात् स्तोकेर्दिनेरेव भवन्तं भवतोऽनुगान् / जित्वा पद्मसुताः स्वाज्ञां ग्राहयिष्यन्ति नृन् पुनः // 22 // तेनाऽधुना विजेतु ता भवतोऽवसरोऽस्ति हि / उद्गच्छन्नेव नो शत्रुर्हतः सैव हनिष्यते // 23 / / ता जेतु मोहभूपेन बीटके स्वकरे कृते / प्रमीला-विकथे मोहं नत्वेति प्रोचतुस्तदा // 24 // आवयो/टकं देहि प्रसद्य मोहभूपते ! / तवाज्ञां ग्राहयिष्यावो गत्वा तास्तत्र शीघ्रतः // 25 // ता निद्रा-विकथे जेतु चलन्त्यौ स्वामिपार्श्वतः / पद्मनार्यन्तिके गत्वा प्रथमं चेति जल्पतः // 26 // वीरश्रेष्ठिप्रिया वर्य-रसवत्यादिदानतः / भोजयामास भूयिष्ठाः श्राद्धीः किमजमीस्त्वकम् / / 27 / / पद्माऽवक चिन्तया किं मे तथा सम्प्रतिवार्तया / गुणवन्त्यश्च ताः श्राद्धयो भोजिता नागुणास्पदम् // 28 // एवं निद्राविकथाभ्यां कुर्वतीभ्यां कथां पृथग् / विकथा कारिता पद्मा निद्रापि ग्राहिता पुनः // 26 // प्रमीला-विकथे एवं लक्ष्मीमपि क्रमात् तदा / ग्राहयामास तु स्वाज्ञां विकथादिविधानतः // 30 // चन्द्रावती तु भक्तादि-कथाभिभू रिभिभृशम् / चालिता न मनाग धर्मध्यानान्निर्जरशैलवत् // 31 // पद्मा-लक्ष्म्यौ तु भक्तादि-कथाकरणतत्परे / मृत्वा श्वभ्र गते भूरि-दुःखभाजौ वभूवतुः // 32 / / चन्द्रावती वितन्वाना शुद्ध धर्म जिनोदितम् / अस्मिंस्तीर्थे समायाता नन्तु श्रीवृषभं जिनम् // 33 // कुर्वाणा सततं ध्यानं तपश्च पुरतः प्रभोः / सम्प्राप्य केवलज्ञानं ययौ मुक्तिपुरी क्रमात् // 34 / / एवं श्रीसम्भवप्रोक्त वचः श्रुत्वा जना मुदा / बहवः क्षीणकर्माणः कल्याणनगरी ययुः // 35 // 1 इति सम्भवजिनस्य शत्रुञ्जयागमनसम्बन्धः / / // अथ अभिनन्दनस्य शत्रुञ्जयागमनसम्बन्धः / / विहरन्नेकदा पृथ्व्या-मभिनन्दनतीर्थ कृत् / सिद्धाद्रौ समवासार्षीत् भूरिसंयतसेवितः // 1 // धर्म श्रोतु समेतेषु भव्येषु बहुष्वन्यदा / अभिनन्दनतीर्थेशो जगौ भव्याङ गिशमणे // 2 // एकेऽह्निभ्यां जना लक्ष्मी हस्ताभ्यां मौलिना धिया / अर्जयन्ति क्रमात्तत्र पादाभ्यामजने कथा // 3 // वीणापुरे वणिग भीमो दुःस्थो महेभ्यभूभुजाम् / लेखं लात्वा बजत्येव दूरदेशे श्रियः कृते // 4 // प्राप्य लेखाद् धनं स्वस्य निर्वाहं स वणिग् व्यधात् / लेखवाहक इत्यासीन्नाम तस्य जने क्रमात् // 5 // सन्ध्याद्वये प्रतिक्रान्ति गच्छन् मार्गे ततान सः / मध्याह्न जिननाथस्य पूजां वितनुते स्म च // 6 // गुरुयोगो भवेद् यत्र तत्र श्री गुरुपादयोः / वितीर्य वन्दनं नीरमपि पिबति ( व्ययति ) सर्वदा // 7 // वने तथाविधे दुःखो-पार्जितं धर्मकर्मणि / एक लौहडिकं सोऽपि व्ययति स्म सुभावतः // 8 // एवं पद्भयां धनं भीमो ऽर्जयित्वा धर्मकर्मणि / व्ययित्वा च वृषं कृत्वा स्वर्गलोकेऽगमद् वणिग् // 9 //