________________ शत्रुञ्जय-कल्पवृत्ती 100000000000000000000000 000000000000000000 जनेता चोपनेता च यस्तु विद्यां प्रयच्छति / अन्नदः प्राणदश्चेति पिता पञ्चविधः स्मृतः // 15 // स एव कथ्यते पुत्रः यः स्वीयं कुलमन्वहम् / पितुः कीर्ति च धम्मच गुणांश्चापि विवद्धयेत् / / 16 // इत्यादि सूपदेशेन श्रेष्टिपुत्रास्त्रयः क्रमात् / बालिताः सुहृदो भेजस्तातं सद्भक्तिपूर्वकम् // 17 // मित्रेण वालितान् पुत्रांस्त्रीन् मत्वा श्रीष्टिपुङ्गवः / हृष्टः करोति पुण्यानि स्वदानादीन्यनेकशः // 18 // यतः-"वज्रलेपस्य मूर्खस्य नारीणां मर्कटस्य च / एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा // 16 // " चतुर्थस्तनयो निःस्वी-भूतस्त्यक्त्वा पुरं निजम् / ययौ शत्रुञ्जयोपान्ते भीमे कक्षे दिवात्यये / / 20 / प्रातस्तत्र यतीन् दृष्ट्वा गत्वा नत्वा सुभक्तितः / मुख्यसाधोः पुरोऽश्रोषी-देवं सुन्दरनैगमः // 21 // अस्मिन् शत्रुञ्जये तीर्थे श्रीशान्तिदृष्टिगोचरे / रसकूपी समस्त्येव स्वर्णकृद्रसपूरिता // 22 // यः श्रीशान्तिजिनस्याग्रे षष्ठादि कुरुते तपः / कुल्माषान् पारणे भुङ्क्ते विंशतिप्रमितान् पुनः // 23 // रसकूपीसुरस्तस्य स्मरतः शान्तिमहंतम् / दर्शयेच रसस्याशुकरिं स्वर्णविधायिकाम् // 24 // उक्तं च-श्रीशान्तिचैत्यस्य पुरो हस्तानां त्रिंशतः पुनः। पुरुषैः सप्तभिरधः (नींचैः) खानी 8 स्वर्णरुप्ययोः।२४ ततो हस्तशतं गत्वा पूर्वद्वारेऽस्ति कूपिका / अधस्तादष्टभिर्हस्तैः श्रीसिद्धरसपूरिता // 26 // श्रीपादलिप्ताचार्येण तीर्थोद्वारकृते किल / अस्ति संस्थापितं रत्न-सुवर्ण तत्समीपगम् // 27 // पूर्वस्यामृषभबिम्बा-दधश्चर्षभफूटतः / धनू पि त्रिशतं गत्वोपवासांस्त्रीन् समाचरेत् // 28 / / कृते बलिविधानादौ वैरोट्या स्वं प्रदर्शयेत् / तदाज्ञया समुत्पाट्य शिला रात्रौ प्रविश्यते // 26 // तत्रोपवासतः सर्वाः सम्पद्यन्ते च सिद्धयः। तत्रर्षभानमनाद् भवेदेकावतारभाक् // 30 // पुरो धनुःपञ्चशत्या सप्तपाषाणकुण्डिका / ततः सप्त क्रमान् नीत्वा कुर्याद्रलिविधिं बुधः // 31 // शिलोत्पाटनतस्तत्र कस्यचित् पुण्यशालिनः / उपवासद्वयेन स्यात् प्रत्यक्षा रसकूपिका // 32 // श्रुत्वैतत् सुन्दरो गत्वा तीर्थे तस्मिन् गुरूदितम् / तपश्चक्र तथा प्रादु-रभूत् कूपीसुरोऽचिरात् / / 33 // जगौ सुरस्तवेदानीं तुष्टोऽस्मि रसकूपिकाम् / दर्शयिष्याम्यहं तुभ्यं गृहाण रसमञ्जसा // 34 // रसभारत्रयं स्वर्णकरं प्राप्य ततस्तदा / आगतः स्वपुरेऽकार्षीत् सुन्दरः कनकं बहुम् // 35 // सुरोक्त्या सुन्दरो माता-पित्रोभक्तिपरः सदा / प्रासादं कारयामास कैलासगिरिसोदरम् // 36 // तन्मध्ये शान्तिनाथस्य प्रतिमां रैमयीं वराम् / त्रिंशद्भारमितामस्था-पयत् सुन्दरनगमः // 37 // प्रतिमा प्रवरां स्वर्ण-मयीं शत्रुञ्जयाचले / कारयित्वाऽर्हतः शान्ते-गेहे सोऽतिष्ठिपन्मुदा // 38 // सुन्दरो विस्तरान् मातृ-पितृभ्रातृसमन्वितः / यात्रां वितनुते सिद्ध-पर्वते भूरिरैव्ययात् // 39 // तत्र शान्तिजिनस्याग्रे श्रीशान्तिं ध्यायतः सतः / सुन्दरस्याभवज्ञानमव्ययं पातकक्षयात् / / 40 // देवतादत्तलिङ्गः सन् सुन्दरः केवली तदा / तया दिदेश सर्वज्ञा-गमोपदेशमादरात् // 41 // यथा लक्षत्रयी वाचं-यमानां शृण्वतां वृषम् / उत्पेदे केवलज्ञानं विश्वत्रयप्रकाशकम् // 42 / / * इति रस पिकोपरि सुन्दरकथा *