________________ ऋषभजिनस्य शत्रुञ्जयागमनसम्बन्धः 41 100000000 000000000000000000000000000000000000000000000000000000000000000000000000000000manna B00000000000000000000000000000000000000000 ढङ्कादिपञ्चकूटेषु याता यास्यन्ति यान्ति ये / शिवं तेषां न छद्मस्थैः संख्या ज्ञायेत च क्वचित् // 1 // इत्यादि ढङ्कादिपञ्चकूटवर्णनं पुरापि कृतमप्यस्ति / तेनाऽत्र नोच्यते / जो अरयछग(च्छक्क)म्मि असीसत्तरिसट्ठीपन्नबारजोयणए। सगरयणीविच्छिन्नो सो विमलगिरी जयउ तित्थं // 6 // 'यो' गिरिः अरकेषु षट्सु क्रमात् अशीति-सप्तति-पष्टि-पञ्चाशत्-द्वादश-सप्तहस्तप्रमाणोऽस्ति, स विमलगिरिस्तीर्थ जयतात् चिरम् // 6 // जो अट्ठजोअणुच्चो पन्ना-दसजोअणं च मूलुवरिं। विच्छिन्नो रिसहजिणे सो विमलगिरी जयउ तित्थ॥७॥ 'यो' गिरिः-पर्वतः श्रीऋषभदेवे विजयमाने अष्टौ योजनान्युच्चः, “मौलौ" धुरि पञ्चाशद्योजनानि क्षितौ विस्तीर्णः “उपरि" ऊर्ध्व दशयोजनानि विस्तीर्णः, प्रथमजिने वर्तमाने स विमलगिरिर्जयतात्तीर्थम् जहिं रिसहसेणपमुहा असंख तित्थंकरा समोसरिआ। सिद्धा य सिद्धसेले सो विमलगिरी जयउ तित्थं // 8 // - यत्र ऋषभसेनप्रमुखारतीर्थकरा असङ्ख्याताः समवसृताः 'सिद्धाः सिद्धिगताः ‘सेले' शैले, स च विमलगिरिस्तीर्थ जयतात् / अत्र कथा-- / / अथ ऋषभजिनस्य शत्रुजयागमनसम्बन्धः / / अयोध्यायां जनानन्दा-भिधो भूमीपतिर्नयी / पत्नी शीलवती नाम्ना तस्यासीच्छीलशालिनी // 1 // गजाहिवहनिपर्यन्तैः स्वप्नैश्चतुर्दशप्रमः / सूचितस्तनयोऽसावि शीलवत्या सुखं निशि // 2 // "गयवसहसीहअभिसेयदामससिदिणयरं झयं कुभं / पउमसरसागरविमाणभवणरयणुच्चयसिहिं च" // 3 // जन्मोत्सवः कृतः शक्र-पितृभ्यां तस्य तु क्रमात् / पिता ऋषभसेनेति नामाऽदाल्लसदुत्सवम् // 4 // वर्द्धमानः क्रमात् प्राप्य राज्यं पैतृकमद्भुतम् / त्यक्त्वा च तृणवद्राज्यं जग्राह संयमं स च // 5 // छद्मस्थता व्यतिक्रम्य श्रीमान् ऋषभसेनकः / सम्प्राप्य केवलज्ञानं सुरासुरनमस्कृतः // 6 // वप्रत्रये मणीरूप्य--जाम्बूनदमये वरे / उपविश्याऽऽसने तीर्थ-रोजगौ वृषं तदा // 7 // अपि लभ्यते सुराज्यं लभ्यन्ते पुरवराणि रम्याणि / नहि लभ्यते विशुद्धः सर्वज्ञोक्तो महाधर्मः // 8 // चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः / तेषां पादे तदद्धेवा कर्तव्यो धर्मसङ्ग्रहः // 6 // उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् / आयुषः खण्डमादाय रविरस्तमुपागतः // 10 // अनित्यानि शरीराणि विभवो नैव शाश्वतः / नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ ग्रहः॥११॥