________________ रसकूपिकोपरि सुन्दरकथा 36 100000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 एवं सुखातिलीनस्य कुमारस्य निरन्तरम् / राजयक्ष्माभिधो रोगो जातस्तीवार्तिकारकः // 6 // ततश्चिकित्सका राज्ञाऽऽकारिताः सुतरुछिदे / औषधानि ददुस्तस्य यानि तानि मुधाऽभवन् // 7 // राज्ञाऽऽकार्योदिता विज्ञा गणकाः पुत्ररुछिदे ! जगुस्तव सुतस्यैति क्षयं रोगोऽष्टभिर्दिनः // 8 // तेषामप्युदितं नैव मिलितं च यदाऽभवत् / तदा शान्तिकपौष्ट्यादि कारयामास भूपतिः // 6 // तस्मिन्नपि मुधो जाते कृत्ये नन्दनदुःखतः। महीपालोऽभवह:खी बाढं नारकजीववत् // 10 // मेलयित्वा ततः सङ्घ भूपः पुत्रसमन्वितः / ययौ शत्रुञ्जये तीर्थे नन्तु श्रीजिननायकान् // 11 // गेहे गोमुखयक्षस्य कृत्वा क्षपण सप्तकम् / उपविष्टो जगौ भूप-सुनुरेवं तदग्रतः // 12 // भो यक्ष ! वक्षि मे रोगच्छिदे त्वमौषधं हि तत् / येन मद्विग्रहाद् याति राजयक्ष्मा क्षयं क्षणात् // 13 // गोमुखः प्रोक्तवान् राज-पुत्राऽमुष्य तरोः फलम् / आस्वादयाऽधुना रोगः सद्यस्ते यास्यति क्षयम् // 14 // यक्षोक्तवृक्षतो लात्वा फलान्यास्वाद्य भूपभूः / नीरोगोऽभूत्तदा देवकुमार इव वेगतः // 15 // पद्मसेनस्ततो गत्वा श्रीयुगादि-जिनालये / पूजयित्वा जिनं चक्र पारणं भवतारणम् // 16 // . ततो वीरनृपो मत्वा नीरोगं तनयं तदा / प्रासादं कारयामास तुषाराचलसोदरम् // 17 // ततः श्रीशान्तिनाथस्य प्रतिमां रैमयीं वराम् / स्थापयित्वा नृपः स्वीय-नगरं समुपेयिवान् // 18 // ॐ इति औषधविषये पद्मसेननृपकथा & // अथ रसकूपिकोपरि सुन्दरकथा // कुन्तलाबपुरे श्रेष्ठी धनदो धनदोपमः / धनवत्यभिधा पत्नी शीलादिगुणभूषिता // 1 // क्रमात् सोमामरश्रीदसुन्दराहबास्तनूभवाः / चत्वारो जनिताः श्रेष्टि-पत्न्या शोभनवासरे // 2 // सुवस्त्राभरणैः सर्वान् पुत्रान् विषयान् सदा / सदन्नपानतः श्रेष्ठो पुपोष मुदिताशयः // 3 // भूरिरैव्ययतो धर्म-कर्मशास्त्राणि भूरिनिः / पाठिता नन्दनाः सर्वे पित्रा च परिणायिताः // 4 // श्रेष्ठी पृथक पृथक सर्व-पुत्रेभ्यो धवलालयान् / वितीर्य जनको मोदं तनुते वीक्ष्य नन्दनान् // 5 // क्रमाच्छ ष्ठिसुताः सर्वे स्वस्वपत्नीवशीकृताः / धनं लात्वा पृथग भूताः पशुव पितृपाश्वतः॥६॥ लक्ष्म्यर्जनकृते सत्सु चतुर्यु तनयेष्वपि / रलति श्रेष्ठिराट् रात्रि दिवं विश्रामवर्जितः // 7 // एकदा श्रेष्ठिनं सर्पिरानयन्तं स्वयं गृहे / दृष्ट्वाऽऽह विमलो मित्रं श्रेष्ठिन् ! रलसि किं स्वयम् ! // 8 // श्रेष्टयाह वसति ग्रामे नारीभिमुषितोऽस्म्यहम् / श्रेष्ठी बमाण का नार्यो याभिस्त्वं मुषितः सुहृत् ? // 6 // श्रेष्ठयवक् पश्यतो मेऽत्र स्नुषाभिमुषिताः सुताः / विमलोऽयक स्नुषाः किं स्युस्तस्कर्यस्तव सम्प्रति 1 // 10 // श्रेष्ठयभाणीद् वरं स्तेनास्ते ये लात्वाधनं गृहात् / नायान्ति चक्षुषोरेताः स्नुषास्त्वाऽऽयान्ति सन्ततम् // 11 // सुहजगौ वधूभ्यस्ते वालयिष्यामि नन्दनान् / त्वया दुःखं न कत्तव्यं कार्यों धर्मादरः पुनः / / 12 / / ततो मंत्रिसुतोपान्तेऽभ्येत्येति विमलो जगौ / मातुः पितुः समं तीथं विद्यते न जगत्त्रये // 13 // यतः-'ते पुत्रा ये पितुर्भक्ता स पिता यस्तु पोषकः / तन्मित्रं यत्र विश्वासः सा भार्या यत्र नितिः // 14 //