________________ 38 ..2000 000000000000000 .00000000000000000000000000000000000000000000000000000000000 0.000000000000000000000000000000000000 औषधविषये पद्मसेननृपकथा यस्मिन् क्षणे ग्रहा उच्चा द्वित्रा भवन्ति वासरे / तस्मिन्नौषधयोगेन राज्यस्त सुतं वरम् // 12 // जनिते तनये तस्मिन् राज्ञीमृत्युमुपाययौ / चिन्तितं नहि कस्यापि जायते दुष्कृतोदयात् // 13 // अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते / विधिरेव तानि घटयति यानि पुमान् नैव चिन्तयति / / स्तन्यपानादिदानेन धान्या संवर्धितोऽनिशम् / भीमनामा सुतोऽभीष्टोऽभवत् तातस्य सन्ततम् // 15 // ततोऽन्या भूमिभूग्पत्नी सूते स्म नन्दनं वरम् / तस्याऽदाजनको नाम हरेत्याह्वां नरेश्वरः॥१६॥ राज्ञी स्वसुनवे राज्यं दातुकामा सपत्निजम् / निहन्तु ददते धान्य-मध्ये क्ष्वेडं निरन्तरम् // 17 // दृढायुष्कतया तस्य लग्नं न गरलं मनाग / विमातृचेष्टितं सर्व भीमो जज्ञे नृपाङ्गजः // 18 // भोमो दध्यौ न राज्येच्छा विद्यते मम चेतसि / विमातेयं मुधा हन्तु मां वाञ्छति सदा दृढम् / / 19 / / निर्गत्य नगराद् भीमो ययौ शत्रुञ्जयाचले / ददर्श तत्र भूरीणि विवराणि वराणि सः // 20 // तेषु किन्नर-किन्नों गीतानि वृषभप्रभोः / गायन्ती रञ्जयन्त्येव सुरान् यक्षान् नरानपि / / 21 // निझरेषु पिचन्त्यम्बु व्याघ-पञ्चास्य-फेरवः / अदन्तः स्वेहितं भिक्षं तत्र तिष्ठन्ति सौख्यतः // 22 // तपन्तः सन्ततं तीव्र तपोध्यानपरायणाः / गमयन्ति सुखात् काल-मर्जयन्ति शिवश्रियम् // 23 // औषधीभिः सदोद्योतो जायते तत्र सन्ततम् / केलि कुर्वन्ति यक्षाद्या निर्जरा भूरिशो मुदा // 24 // विलोक्य कौतुकान्येवं भीमः पदे पदे मुदा / पूजयित्वा प्रभु झम्पां शैलादातुं यदोद्यतः // 25 // तदा तत्र स्थितो ज्ञानी जगादेति नरोत्तम ! / श्रात्मनो घाततो जीवा न छुटन्ति स्वकर्मतः // 26 // तेन त्वं कुरु तीव्र तु तपः ते स्याद्यतः सुखम् / चन्द्राह्वविवरे गत्वा कुरुष्व च तपोऽनिशम् // 27 // तत्र गत्वा तपस्तस्य भीमस्य कुर्वतः सतः / श्रीपुरस्याऽभवद्राज्यं चतुरङ्गचमूयुतम् // 28 // राज्यं कृत्वा चिरं शत्रु-ञ्जये गत्वा व्रतं स च / लात्वा तपो व्यधातीवं चन्द्राह्वविवरस्थितः // 29 // तत्र भीमऋषेस्तीव्र तपो वितन्वतः सतः / बभूव केवलज्ञानं जगत्त्रयावलोककम् // 30 // तत्रत्य निर्जरा ज्ञान्युत्सवं चक्रस्तयाऽऽदरात / यथा तं पश्यतां नृणां ज्ञानमासीन्निरत्ययम् // 31 // तत्र भीमोगमन्मुक्तिमन्येऽपि बहवः पुनः / साधवश्च ययुः केचित् प्रथमादिसुरालये // 32 // ON इति विवरविषये भीमभूपकथा re // अथ औषधविषये पद्मसेननृपकथा // 'प्रोसह'त्ति-व्याख्या-औषधयो रोगाद्यपहाः सन्ति, तथाहि-- क्षितिभूषापुरे वीर-भूपतेायशालिनः / पत्नी पद्मावती पुत्रः पद्मसेनाभिधोऽभवत् // 1 // वर्धमानः क्रमात् पित्रा पुत्रः पण्डितसन्निधौ / पाठितोऽभूद्यथाधर्म-कर्मशास्त्रेषु कोविदः / / 2 / / यतः-"जायम्मि जीवलोए दो चेव नरेण सिक्खियव्याई / कम्मेण जेण जीवइ जेण मुनो सुग्गइंजाइ // 3 // " भूपतीनां सुताः पश्च शतानि परिणायितः / पुत्रः पिता सुखी जातो दो(गुन्दुक)दुगककुमारवत् // 4 // सन्ततं गीतनृत्यादि कारयन् नृपनन्दनः / अस्तोद्गते न जानाति मार्तण्डस्य मनागपि // 5 //