________________ विवरविषये भीमभूपकथा 37 1000000000000000000000000000000 सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति / कन्दैः फलैमुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् / / 29 // ततो भीमो जगादेति परद्रव्यं मया मनाग ! अदत्तं न ग्रहीतव्यं सदा सद्गतिहेतवे // 30 // एकदा सोदरौ द्वौ तु गतौ श्रीगुरुसन्निधौ / अश्रोष्टामिति माहात्म्यं शत्रुञ्जयावनीभृतः॥३१।। रयणायरे' त्यादि। भीमोऽभणद् गतः सिद्ध-शैलेऽपश्यत् पदेपदे। अपश्यन्न मणीस्तेन त्वयेत्थमुच्यतां किमु ? // 32 // गुरुराह मणीखानिर्देवताधिष्ठिताऽस्ति हि / अतो भाग्यं विना नैव कोपि पश्यति मानवः // 33 // ततो भीमः समेत्याद्रौ तस्मिन्नभ्यर्च्य तीर्थपम् / जगौ यदा मणीखानि दृक्ष्याम्यमि तदा ह्यहम् // 34 // गतेषु दशघस्रषु सुरोऽभ्येत्येवमूचिवान् / उत्तिष्ठ भीम ! ते रत्न-खनिः प्रादुर्भविष्यति // 3 // यावदुत्थाय भीमोऽग्रे वीक्ष्यते तावदेव तु / रत्नखानिरभूद् दृष्टि-गोचरेऽथ सुरो जगौ // 36 // तुष्टोऽस्म्यहं मणीन् पञ्च गृहाणाऽनुगृहाण माम् / साहसी त्वमसीदानी चालितोऽप्यचलन्नहि // 37 // ततः पञ्च मणीन् प्राप्य तस्या रत्नखनेणिग् / प्रासादं रत्नखन्याह्व-मकारयदथार्हतः // 38 // सोमभीमौ क्रमाल्लात्वा चारित्रं गुरुसन्निधौ / गतौ शत्रुञ्जये कर्म-क्षयान्मुक्तिं समीयतुः // 36 // " इति रत्नाकरविषये सोमभीमकथा // अथ विवरविषये भीमभूपकथा / विवराणि गुहारूपाणि सन्ति बहूनि, येषु विवरेषु साधवस्तपस्तपन्तो मुक्तिं गच्छन्ति जग्मुर्यास्यन्ति, यक्षादिदेवा रक्षां कुर्वते, चन्द्राबविवरस्य स्वरूपं प्रोच्यते-- वाराणस्यां प्रजापाल-भूपस्य प्रेयसी रमा / अजनिष्टाऽनघाङ्गश्री-जितप्रीतिसुराङ्गाना // 1 // अनपत्या सुतप्राप्त्यै ज्योतिष्कादिककोविदान् / पृच्छन्ती ददते तेभ्यो धनधान्यादि भूरिशः // 2 // यतः-"रोगिणां सुहृदो वैद्याः प्रभृणां चाटुकारिणः / मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदः // 3 // " तथापि न सुतो जातस्तस्या दुष्कर्मयोगतः / ततः सन्तोषमाधाय तस्थौ सा नृपगेहिनी // 4 // यतः-'सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति / कन्दैः फलैमुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् // 5 // निरीहस्य निधानानि प्रकाशयति काश्यपी / अङ्गोपाङ्गानि डिम्भानां न गोपयति कामिनी // 6 // शुभकर्मोदयेऽन्येद्यु-रागत्यैकः सुरो जगौ / एकस्मिन् हायने याते तव पुत्रो भविष्यति // 7 // ततो राज्ञाऽन्यदा पृष्ट एको ज्योतिषिकस्त्विति ! कस्मिन् क्षणे सुतो जातो भविष्यति लसत्तमः // 8 // ज्योतिष्किको जगावुच्च-ग्रहेषु यो भवेत् सुतः / स एव जायते चक्री वासुदेवोऽथवा बलः // 6 // यतः-"अजवृषमृगाङ्गनाकर्कमीनवाणिजांशकेष्विनाद्यच्चाः। दशशिख्यष्टाविंशति तिथीन्द्रियत्रिधनविशेषु / 10 / सुखी भोगी धनी नेता जायते मण्डलाधिपः / नृपतिश्चक्रवर्ती च क्रमादुच्चगृहे फलम् // 11 //