________________ रत्नाकरविषये सोमभीमकथा 000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000001 // अथ रत्नाकरविषये सोमभीमकथा॥ श्रीपुरेऽभवतां सोम-भीमाह्वौ सोदरद्वयम् / तयोः पत्न्यौ रमारामे वभूवतुर्मनोरमे // 1 // पृथग जातावपि द्वौ तु सोदरौ विहृतिं सदा / एकत्र कुरुतः स्मैव स्नेहलौ तु परस्परम् // 2 // गुरूपान्तेऽन्यदा सोम-भीमौ वन्दितुमीयतुः / तदेति देशनां श्रीमद्गुरवो ददुरादरात् // 3 // हस्तो दानविधौ मनो जिनमते वाचः सदा सूनृते, प्राणाः सर्वजनोपकारकरणे वित्तानि चैत्योत्सवे / येनैवं विनियोजितानि शतशो विश्वत्रयीमण्डनं, धन्यः कोपि स विष्टपैकतिलकं काले कलौ श्रावकः // 4 // दोर्भाग्यं प्रेष्यतां दास्य-मङ्गच्छेदं दरिद्रताम् / अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् // 5 // देशनान्ते ललौ सोमोऽभिग्रहं चातिसादरम् / अतः परमदत्तं नो मया ग्राहय मनागपि // 6 // भीमो जग्राह नादत्ता-भिग्रहं गुरुणोदितः / यतः सर्वे न जायन्ते सदृशाः मनुजाः क्वचित् / / 7 / / एकोदरसमुत्पन्ना एकनक्षत्रजातकाः / न भवन्ति समाः शीलैः (समशीला) यथा बदरीकण्टकाः॥८॥ द्रव्यार्जनार्थमन्येद्यावेव सोदरौ मुदा / गच्छन्तौ विषयेऽन्यत्र गतौ वीरपुरान्तिके // 9 // ततः सोमो व्रजन्नग्रे मणीखचितकुण्डलम् / कोटिमूल्यं निरीक्ष्याला-न्न निर्लोभतया तदा // 10 // भीमश्छन्नं गृहीत्वा तत् सोदरस्यामिलत् पथि / सोमोऽवक् किं त्वया दृष्टं भीमः प्राह मया नहि // 11 // ततस्तावपि पायां पुर्यगातां सहोदरौ / कुर्वाणौ व्यवसायं तौ लक्ष्मीमर्जयतः क्रमात् // 12 // विक्रीय कुण्डलं छन्नं भीमो भूरिक्रयाणकम् / यदाऽगृह्णात्तदा पृष्ट सोमेनेति कृतादरम् // 13 // भूरिक्रयाणकं ताव-कीनोपान्ते किमीक्ष्यते ? / भीमोऽभाणीन्न पृष्टव्यं त्वया भ्रातरिहाधुना // 14 // पृष्टः बह्वाग्रहाद् भ्राता भीमः कुण्डलसङ्ग्रहम् / यदाऽगदत्तदा सोमः प्राहेति सोंदरं प्रति // 15 // कुण्डलेन क्रयाणं यद् गृहीतं भवताऽधुना / तदस्तु तव नो लामि विभागं तस्य सोदरः // 16 // व्यवसायमतः कुर्म आवां पृथक् सहोदरौ / परकीयं धनं प्राणा त्ययेपि लामि न क्वचित् // 17 // ततः पृथक् पृथक् स्वीयं क्रयाणं द्वौ सहोदरौ / लात्वाऽऽगत्य पुरे स्व-स्वसदने निन्यतुश्च तत् // 18 // तस्यामेव निशीथिन्यां भीमस्यैव निकेतने / प्रविश्य धाटिकाऽहार्षीत् सर्व विभवसञ्चयम् // 19 // गतं सर्व धनं दृष्ट्वा कुट्टयन्नुदरं दृढम् / भीमोऽभणन्ममाऽऽवासो धाट्याऽद्य मुषितो निशि // 20 // सोमोऽभ्येत्य जगौ भ्राता ! रुदनेन तवाऽस्ति किम् / अदनं द्रविणं लातं त्वया तन्न वरं कृतम् // 21 // अदत्तो विभवो लातोऽग्रेतनविभवं समम् / नाशयत्येव भूपाग्नि-तस्करादिकपार्श्वतः // 22 // अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति / प्राप्त षोडशमे वर्षे समूलं च विनश्यति // 23 // वरं वह्निशिखा पीता सर्पस्य डङ्कितं वरम् / वरं हलाहलं पीतं परस्त्रहरणं न तु // 24 // चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी / अन्नदः स्थानदर्थ ते चौरः सप्तविधः स्मृतः // 25 // " हरिऊणं परदव्वं पूअं जो करइ जिणवरिदाणं / दहिऊण चंदणतरु कुणइ अंगारवाणिज्ज // 26 // " अतः परं त्वयाऽन्यस्याऽदत्तं द्रव्यं मनागपि / न ग्रहीतव्यं ततस्ते स्या-दिहामुत्र सुखं खलु / / 27 / / सन्तोषं कुर्वतां पुंसां सुखं चात्र परत्र च / जायते सततं दुःख-मसन्तोषाम्न संशयः // 28 //