________________ तालध्वजनामोपरि धरापालभूपकथा 31 1000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000 B0000000000.. // अथ तालध्वजनामोपरि धरापालभूपकथा / श्रीसिद्धधरणीध्रस्य धरापालः क्षमापतिः / तालध्वजेति नामाऽदात् नानोत्सवपुरस्सरम् // 1 // कुम्भपुर्यां धरापाल-भूपस्य न्यायशालिनः / बभूव प्रेयसी पद्मा नाम्ना श्रीः श्रीपतेरिव // 2 // पुत्रः पुरन्दरस्तस्य पुरन्दरपराक्रमः / मातापित्रोस्तनोतिस्म हर्ष सद्विनयो नयी // 3 // राजाऽन्यदा गुरोः पाश्चे धम्मं श्रुत्वा जिनोदितम् / पूजां श्रीजिननाथस्य तनुते स्मोपवैणवम् // 4 // इतः स्वर्गे सुरेन्द्रोऽवग् धरापालो महीपतिः / पूजां कुर्वन् प्रभो व चाल्यते निर्जराऽसुरैः // 5 // अश्रदधत् सुधाभोजी मुकुन्दाह्वो जगावह(दः)। अहं तं चालयिष्यामि भूपं स्वाभिग्रहात् तम् / / 6 / / उक्त्वेति स्वर्गतः कुम्भ-पुर्यामेत्य स निर्जरः / भूपस्य कुर्वतः पूजां हस्तात् पुष्पाण्यपाहरत् / / 7 / / एवं यदा यदा भूपः पुष्पाणि स्वशये ललौ / तदा तदाऽहरद्दवः पुष्पाण्यलक्ष्यरूपभाग ||8|| एवं दिनत्रयीं यावद् विना पूजा नरेश्वरः / बुभुजे न यदा तावत् स सुरः प्रकृटोऽवदत् / / 6 / / धन्योऽसि त्वं यतस्ताव-कीनं चेतोऽचलन नहि / लाहि चिन्तामणिं चित्त-चिन्तितार्थप्रदं वरम् // 10 // चिन्तामणि समाराध्य याचं याचं च वैभवम् / व्ययति स्म नृपः सप्त-क्षेत्रेषु प्रतिवासरम् // 11 // राजा स्फटिकपाषाणे-रष्टोत्तरशतप्रमैः / मण्डपैः कारयामास जिनौकः स्वगृहाङ्गणे // 12 // प्रासादमण्डपच्छत्र-पर्यङ्कासनविग्रहैः / निर्दोष मूर्त्या दध्यौ च देवो नास्ति जिनात् परः // 13 // प्राच्यरत्नमयी मूल-नाथमूर्तिररप्रभोः / तस्मिन् जिनालयेऽस्थापि भूपेन लसदुत्सवम् // 14 // तत्राऽरजिननाथस्य मणोमयविभूपणः / भूपयामास भूपालो मूर्ति सद्गतिहेतवे // 15 // दिने दिनेऽर्हतः पूजा नव्या नव्या लसत्सुमैः / कुर्वाणः कारयामास भूपो नृत्यं नवं नवम् // 16 // चतुष्कोटिनृसंयुक्तो भूत्वा सङ्घपतिनृपः / ग्रामे ग्रामे महं कुर्वन तीर्थे शत्रुञ्जये ययौ / / 17 / / तत्र मुख्यजिनावासे स्नात्रपूजाध्वजादिभिः / स्वजन्म सफलं चक्र भूपः सङ्घयुतो मुदा // 18 // तस्मिन् मधे जिनध्यानाद् लक्षमेकं जनास्तदा / सम्प्राप्य केवलज्ञानं मुक्तिपुर्यां ययुः क्रमात् // 19 // यत्र तालध्वजः मूरि-र्लक्षसाधुसमन्वितः / सर्वकर्मक्षयाद् ज्ञानं प्राप्य मुक्तिपुरी ययौ // 20 // तत्र शृङ्ग जिनागारं कारयित्वा महत्तमम् / स्थापयामास नाभेयं धरापालो महीधरः // 21 // श्रीसिद्धभूभृतस्ताल-ध्वजेति नाम भूपतिः / साक्षिकं सर्वसङ्घस्य व्यश्राणयद् वरोत्सवम् // 22 // धरापालः पुरे स्वीये समेत्य स्वकमङ्गजम् / न्यस्य राज्ये ललौ दीक्षां पद्माचार्यान्तिके क्रमात् // 23 // पठित्वाऽनेकशास्त्राणि गुरूपान्ते सुभक्तियुग / प्राप्य सूरिपदं चक्रे विहारं स यतीश्वरः // 24 // प्रबोध्य भविनो भूरीन् गत्वा शत्रजयाचले / प्राप्तज्ञानोऽगमन्मुक्ति धरापालगणाधिपः // 25 // इति तालध्वजनामोपरि धरापालभूपकथा *