________________ 30 लौहित्यनामोपरि लौहित्यर्षिकथा .0000000 100000000000000000000000000000000000000000000000000000000001 0000000000000000000 // लौहित्य नामोपरि लौहित्यर्षिकथा / / लौहित्यादियतीन भूरीन् दृष्ट्वा सिद्धिपुरीगतान् / लौहित्याह्वां व्यधा-दिन्द्रः श्रीमसिद्धमहीभृतः // 1 // पद्म पुरे धनः श्रेष्ठो धर्म श्रुत्वाऽन्तिके गुरोः / अदत्तं लाति नो कस्य तृणमात्रमपि क्वचित् / / 2 / / स्थानाधिष्ठायकं देव-मनुज्ञाप्यैव सन्ततम् / श्रेष्ठी तिष्ठति भुङ्क्ते च करोति कायिकामपि // 3 // नाऽइत्तं लाति कस्यापि धन इत्युदिते सति / शक्रेणैकः सुरश्चाल-यितुतं निर्ययो दिवः // 4 // पातयित्वा बहु लक्ष्मी मार्ग स निजरोऽनिशम् / यदा चालयितु नेश-स्तदेति प्रोक्तवान् स्फुटम् / / 5 / / यादृशो वर्णितो नाकि-पतिना तादृशः स्फुटम् / अतो रत्नद्वयं दत्त्वा सुरलोकं समोयिवान् / / 6 / / श्रेष्ठयन्येद्य वहिभूमौ देहचिन्ताकृते गतः / यत्र यत्रानुजानाति स्थानाधिष्ठायकं प्रति 17|| तत्र तत्र जगौ स्थाना धिष्ठाता निर्जरः स्फुटम् / श्रेष्ठिन् ! माऽत्रोपविश त्वं गच्छाऽन्यत्र यथेप्सिनम् / / 8 / / एवं सन्ध्याक्षणं यावद् भ्रमन् श्रेष्ठी वनान्तरे / तं यक्षं वश्चयित्वाऽऽशु कायिकामकरोल्लघु // 6 // यक्षः प्राहाऽय तुष्टोऽस्मि याचस्व त्वं यथेसितम् / श्रेष्ठयवग यदि मे धर्मो विद्यते किं तदा नहि ? // 10 // अलोभिनं तदा श्रोष्ठि-राजं मत्वा मणोन दश / कोटोमूल्यान् वितीयोवग् यक्षो ध्येयोऽस्म्यहं सदा / / 11 / / गते यक्षे मणीन् लात्वा समेत्य श्रेष्ठिरागृहम् / पञ्च रत्नानि विक्रीय जनेभ्यो राजमानितः // 12 // भूरिसङ्घयुतः श्रेष्ठी गत्वा श्रीसिद्धपर्वते / पञ्चभिर्मणिभिः पूजां चकाराऽऽदिजिनेशितुः // 13 // तदा तुष्टो जगौ यक्षः श्रेष्ठिन् ! मार्गय वाञ्छितम् / श्रेष्ठयवग विद्यते सर्व जिनेन्द्राद्धिप्रसादतः // 14 // ततो यक्षो मणीन् पश्च विंशतिकोटिमूल्यकान् / प्रददौ श्रीष्ठिने किं किं जायते न विनावनात् ? // 15 // विक्रीय तान् मणीन् श्रेष्ठी स्फारं जिनवरालयम् / कारयामास तत्राऽऽदि-जिनबिम्बमतिष्ठिपत् / / 16 // धनश्रेष्ठी तदा ध्याय जिनेशं प्रथम मुदा / प्राप्य ज्ञानं ययौ मुक्ति-पुर्यां क्षीणाघसन्ततिः // 17 // इतः पुण्यपुगधीशो लौहित्यो धरणीधरः / राज्ये न्यस्याऽङ्गनं दीक्षा मलात् कोटिजनान्वितः // 18 // . भणितद्वादशाङ्गीकः प्राप्तमरिगटः क्रमात् / कोटिसाधुयुतः शत्रु-जये तीर्थे समायमत् // 16 // जिनागारे जिनामारे नत्वा तीर्थङ्कराधिपान् / लौहित्यर्षिः पुनर्मूल नाथं स्तौति च नौति च // 20 // धनेन श्रेष्ठिना नाभि-पुत्रसमनि कारिते / लौहित्यर्षिर्ययौ देवं नन्तु भूयिष्ठसाधुयुग // 21 // श्रीयुगादिजिनस्याग्रे ध्यानं तस्य वितन्वतः / बभूव केवलज्ञानं हेमानं निर्जरैः कृतम् // 22 // तस्मिन् हेमाम्बुजे ज्ञान्यु-पविश्य धर्मदेशनाम् / तथा चक्रं यथा सर्व साधयो ज्ञानिनोऽभवन् // 23 // लौहित्यादियत्तीन् सिद्धि-गतान ज्ञात्वा हरि गौ / लोहित्याहमिदं तीर्थ नाम्ना जयतु भूतले // 24 // * इति लौहित्यनामोपरि लौहित्यर्षिकथा .