________________ 26 00000000000000000000000000000000000000000 0000000000000000000000000 .00000000 कोटिनिवासोपरि धर्मनन्दनभूगतिकथा // अथ कोटिनिवासोपरि धर्मनन्दनभूपतिकथा / / धर्ममाराधयन् जेनं शुद्धं धर्ममहीधरः / नाम कोटिनिवासेति सिद्धाद्र हर्षतो ददौ // 1 // धरणीभूषणे नाम्ना पुरे चन्द्रमहीपतेः / पत्नी प्रेमवती पुत्रं प्रासूत शुभवासरे // 2 // कारयित्वा महिपालः सूनोर्जन्मोत्सवं महत् / धर्मनन्दन इत्याह्वां ददौ सज्जनसाक्षिकम् // 3 // द्वितीयो नन्दनो दामो-दराहोऽजनि तस्य तु / द्वावेव पाठितौ धर्म-कर्मशास्त्राणि भूरिशः // 4 // क्रमाचन्द्रः कुसङ्ग-या द्यूतादिसक्तमानसः / राज्यचिन्तां विसस्मार चित्तादधर्ममर्त्यवत् // 5 // क्रमात् समागते तत्र द्विटसैन्ये प्रबले सति / धर्मपुत्रो बलं लात्वा युद्ध कत्त समुत्थितः॥६।। तथा युद्ध कृतं धर्म-नन्दनेनाऽरिभिः समम् / यथा दिशोदिशं भग्ना नेशुनिश्शेषवैरिणः / / 7 / / ततस्तत्र महानन्द-मूरिराट समुपागमत् / पुत्रयुक्तो नृपो धर्म-माकर्णयितुर्मायिवान् / / 8 // तदेति गुरुभिर्धर्म-देशना विहिताऽऽदरात् / धर्मेण लभ्यते राज्यं कल्याणकमला पुनः // 6 // धुतादिव्यसनं यस्तु सेवते मानवः खलु / स एव लभते दुःख-मिहामुत्र निरन्तरम् // 10 // द्यतं सर्वापदां धाम द्यूतं दीव्यन्ति दुर्धियः / यतेन कुलमालिन्यं द्युताय श्लाध्यतेऽधमः // 11 // वर-वैश्वानर-व्याधि-बाद-व्यसनलक्षणाः / महानाय जायन्ते वकाराः पञ्च वर्द्धिताः // 12 // श्रुत्वेति भूपतिस्त्यक्त्वा द्यूतस्य व्यसनं तदा / राज्यं वरोत्सवं वृद्ध-सूनवे दत्तवान् मुदा // 13 // युवराजपदं दत्त्वा लघुपुत्राय भूपतिः / धर्मसेनगुरूपान्ते जग्राह संयमं तदा // 14 // शत्रुञ्जयस्य माहात्म्य-माकर्ण्य धर्मभूपतिः / बहुसङ्घयुतोऽचालीद् वन्दितु जिननायकम् // 15 // गत्वा शत्रुञ्जये मूल-नायकप्रतिमां धुरि / पूजयित्वा नृपोऽन्येषां जिनानामर्चनं व्यधात् // 16 // विस्तरादादिदेवस्य ध्वजान्तामर्चनां तदा / कृत्वाऽऽनर्च प्रभोः पादौ प्रियालोश्च प्रदक्षिणाम् // 17 // शान्तिनाथस्य कृत्वाऽर्चा निशीथिन्यां महीपतिः / ध्यानं वितन्वतः प्रादुर्भूत्वा यक्षो जगावदः // 18 // तीर्थभक्तेस्तवेदानीं तुष्टोऽस्मि मेदिनीपते ! / दृश्या श्रीशान्तिनाथस्य समस्ति रसकूपिका // 16 // तां मुत्कलमुखामद्य करिष्यामि दिनोदये / त्वया ग्राह्यो रसस्तस्यास्ततो हेम भविष्यति // 20 // यक्षदर्शितकूपात रसं लात्वा यथेप्सितम् / कोटिभारमितं हेम व्यरचन् मेदिनीपतिः // 21 // दशवारप्रमाणानि शतबिम्बानि रुक्मिनाम् / चतुर्विंशतिसार्वाणा-मकारयन् महीपतिः॥२२॥ लक्षविम्बानि रूप्यस्य पित्तलस्य वरस्य च / नवलक्षमितान्येव नवति प्रास्तराणि च // 23 // एवं कोटिमितान्येव बिम्बानि सिद्धपर्वते / स्थापयित्वा नृपः सङ्घ भक्तितः पर्यधापयन् // 24 // तदा धर्मधनाचार्यः प्राह नृप ! नृणां पुरः / अयं कोटिनिवासाह्वो गिरिनिगद्यतां जनैः // 25 // धर्मभूपः क्रमाद् राज्ये न्यस्य स्वनन्दनं गजम् / दीक्षां लात्वा तपः शत्रु-जये तीथ बहु व्यधात् / / 26 / / क्षिप्त्वा कर्माऽखिलं धर्म-राजपिनिमव्ययम् / प्राप्य शत्रुजये मुक्ति ययौ भूरिसुसाधुयुग् // 27 // ॐ इति कोटिनिवासोपरि धर्मनन्दनभूपतिकथा के