________________ 32 कदम्बकनामोपरिइन्द्रष्ठिकथा .00000000000000 000000000000000000000000000000000000000000 // अथ कदम्ब कनामोपरिइन्द्रश्रोष्ठिकथा // स्वर्गादागत्य देवेशोऽमरमानवसाक्षिकम् / ददौ कदम्बकेत्याह्वां श्रीसिद्धधरणीभृतः॥१॥ लक्ष्मीपुरे पुरे भीम-भूपतेायशालिनः / लक्ष्मीवती प्रिया पुत्रः पोऽभूतां मनोहरौ // 2 // तत्रैव नगरे भीम-श्रोष्ठिनः श्रीष्ठचेतसः / रतिप्रीत्यभिधे पत्न्यौ सुष्ठुरूपे बभूवतुः / / 3 / / तेद्व प्रिये अपि प्रीति-रोचिष्णू सततं मिथः / न पृथक तिष्ठतः कस्मिन् वासरे क्षणमेककम् // 4 // श्रेष्ठी दध्य विदं चित्तेऽन्यदेति गृहिणीद्वयम् / कथं प्रीतियुतं त्यक्त्वा सपत्नीभावमस्ति मे ! // 5 / / ध्यायन् छन्नं निशि श्रेष्ठ्य-न्यदा पत्न्योनिरीक्षितुम् / चरित्रं तस्थिवान यावत् तावत्ते उत्थिते शनैः॥६॥ वटवृदं समारुह्य दु अपि श्रेष्ठिनः प्रिये / नमोऽध्धना क्वचिद्याते हुंकारारावतत्परे / / 7 / / श्रेष्ठो दध्याविमे पत्न्यौ मदीये व्योमवर्त्मना / यत्राऽद्य जग्मतुः स्थाने तज्ज्ञातव्यं मयाऽचिरात् !!8|| एवं चिन्तयतस्तस्य यामादनु प्रिये तके / समेत्योत्तीर्य तरुतः स्वस्थाने तस्थतुः शनैः / / 6 / / श्रेष्ठी दध्यौ मया पत्न्यो-रमुयोश्चरितं पुरा / ईदृशं वीक्षितं नैव कदाचित्तिष्ठता गृहे // 10 // एवं निशि नितम्बिन्यो याः प्रयान्ति निजेच्छया / तासां सुशीलता नेव दृश्यतेऽत्र महीतले // 11 // यतः- “यात्रा-जागर-दूरनीरहरणं मातु हेऽवस्थिति-र्वस्त्रार्थ रजकोपसर्पणमपि स्याचर्चिकामेलकः / स्थानभ्रंश-सखीविवाहगमनं नृत्यप्रवासादयो, व्यापाराः खलु शीलजीवितहराः प्रायः सतीनामपि // 12 // ततोऽन्येधुनिशि श्रेष्ठी तस्य वृक्षस्य कोटरे / पत्न्योः पूर्व समेत्यास्थात् तयोश्चरितमीक्षितुम् // 13 // ते गेहिन्यौ समारूढे तस्मिन् महीरुहे द्र तम् / व्योमाधना गते स्वर्ण द्वीपे लक्ष्मीपुरान्तिके // 14 // सरःपालो तर न्यस्व तत्पुरं वीक्षितु तदा / जग्मतुः श्रीष्ठिनः पत्न्यौ निर्गतोऽथ स कोटरात् // 15 // इतः तत्पुरवास्तव्यः श्रेष्ठो श्रीदः कुलामरीम् / पारराध स्वनन्दिन्या वरार्थ पूजयन् सुमैः // 16 // तया सन्तुष्टया प्रोक्तं भो! अंष्ठिन् पञ्चमे दिने / सरःपालौ निशामध्ये यः समेति नरो वरः // 17 // तस्मै त्वया प्रदातव्या तनया सुरसुन्दरी / विचारोऽत्र त्वया श्रीष्ठिन् ! विधातव्यो न चेतसि // 18 // यतः-जं जेण किंपि विहियं सुहं व दुक्वं व पुव्वजम्मम्मि / तं सो पावइ जीवो वच्चइ दीवंतरं जइवि // 16 // श्रुत्वैतद्वचनं श्रेष्ठी सरःपालो समाययौ / वराकारं वरं वीक्ष्य शेष्ठी च मुमुदेतराम् // 20 // तमानीय गृहे सद्यः श्रेष्ठी प्राहेति सगिरा / गृहाणोद्वाहतः (मे) पुत्री-मिमां त्वं सुरसुन्दरीम् // 21 // ततो विवाहवस्त्रादि-भूषितो भीमनगमः / माहरे श्रीदहस्तां तां गृहीत्वा समुपाविशत् // 22 // इतस्ते ततप्रिये तत्राऽऽगते वीक्ष्य वरंवरम् / जजल्पतुर्वरो ह्यप विद्यते स्वपतेः समः // 23 // भ्रमद्भिभूतले तुल्य-रूपा नार्यो नराअपि / वीक्ष्यन्ते तेन न भ्रान्तिः कार्याऽऽवाभ्यामिहाधुना // 24 // प्रोक्त्वैवं वरमालोक्य द्रष्टुमन्यं वरं पुनः / जग्मतुस्ते नितम्धिन्यौ पुरमध्ये कृतत्वरे // 25 // श्रेष्ठी दध्यौ मृगाक्षीणां विद्यते चपलं मनः / कौतुकानि यतो द्रष्टुं ययतुर्मे प्रिये पुनः // 26 // यतः-पुरतोपि स्थितं वस्तु नैवान्धो द्रष्टुमीशते / अहो ! चित्रं यदीक्षन्ते रागान्धा रेमयं जगत् // 27 // इतः पाणिग्रहं तस्या विधाय भारपट्ट के / स्वाह्वां निजपुरावां च लिलेख भीमनैगमः ||28|| देहचिन्ता-छलं कृत्वा समेत्य वटकोटरे / तस्थो श्रेष्ठी रहो याव-त्तावत्तं समुपागते // 26 //