________________ कूटशतायोत्तरनानोपरि वीरनृपति कथा 25 000000000000000000000000000000000000000000000000000000000000 000000000000000000 कृत्वा देवालयान् स्वर्ण-मयान् पञ्च शतान वरान् / वर्यदारुमयान् सप्त-दशैव च शतानि च // 23 // सप्तकोटिनृसंयुक्तः सोमदेवोऽवनीपतिः / कुर्वाण उत्सवं शत्रुञ्जये तीर्थे समीयिवान् // 24 // स्नात्रपूजा-ध्वजारोप-कृत्यानि निखिलानि तु / कृत्वा सोममहीपालः तुष्टावाऽऽदिजिनेश्वरम् // 2 // श्रीसङ्घसन्मुखं भूय-स्तीथस्य शिवदायिनः / शतावर्त्तति नामाऽदात् शतावर्तायुधाप्तितः // 26 // शतावनि गुहारूपाव निरीक्ष्य मेदिनीपतिः। शतावत्तेति नामाऽद्वात् शतावर्तायुधाप्तितः / / 27 / / पाठान्तरं / सोमेदेवोऽन्यतीथेषु यात्रां कृत्वाऽतिविस्तरात् / स्वपुर्यामेत्य पुत्राय निजं राज्यं वितीर्णवान् // 28 // सहस्र रेष्टभिभृत्यैः पञ्चाशद्भ मिपः समम् / सोमदेवो ललो दीक्षां चन्द्रसूरीश्वरान्तिके // 26 / / पठन गुर्वन्ति के सोम-देवराजर्षिरन्वहम् / गुरुभिः स्वपदे न्यस्तः सर्वशास्त्रार्थपारगः // 30 // प्रबोध्य भविनो भूरीन विहरन् सोमयतीश्वरः / शत्रुञ्जये ययौ भूरि-मुमुनुसहितोऽन्यदा // 31 // त्र ध्यायन् जिनं सोम-देवसूरीश्वरः क्रमात् / प्राप्तज्ञानो ययौ मुक्ति लक्षसाधुसमन्वितः // 32 // 28 इति शतावर्तनामोपरि-सोमदेवमहीपतिकथा * // अथ कूटशताष्टोत्तरनामोपरि वीरनृपतिकथा / वीराह्वो भूपतिभूरि-पापकृत् सिद्धभूभृतः / अष्टोत्तरशतकूटं नाम व्यश्राणयन्मुदा // 1 / / वीरपुर्यां नृपो वीरः कुर्वन् पापं निरन्तरम् / न मन्येत गुरु देवं मातृपित नपि क्वचित् / / 2 / / पापर्द्धि-परलागी-स्व-हरणादिपापकृत् सदा / वारितोऽपि क्षणं नैव विग्राम स भूपतिः // 3 // एकदाऽन्यधनं हवा यावदागात स्ववेश्मनि / भूपस्तावदमु श्लोकं शुश्राव वनवर्त्मनि // 4 // धर्मादधिगतेश्वर्यो धर्ममेव निहन्ति यः / कथं शुभायतिः स्वामि-द्रोहकस्येह तस्य तु // 5 // अमु श्लोकार्थ-शो ज्ञात्वा दध्याविदं हदि / भूरिपापकृतो मे न छुट्टनं हि भविष्यति // 6 // तस्यै नमश्छिदे वह्नौ प्रविशामि जलेऽथवा / ध्यायन्नेवं ययौ यावद् वहिः पुर्या नरेश्वरः // 7 // तदाऽकस्मात् समायाता गौन न्ती मनुजान बहून् / हताऽसिना महीशेन तेन वीरेण निर्दयम् // 8 // - तदा काचित् समेत्य स्त्री कर्तिकां दधती करे / जगौ रे नृप ! किं जघ्न गौरियं भवता मुधा // 9 // प्रारब्धपापशुद्धिना हता गौरस्त्रवर्जिता / यद्यस्ति कापि ते शक्तिस्तद् युध्यस्व मया सह // 10 // अवैतद् वनिता-रोक्तं कठोरं मेदिनीपतिः / नारी प्रति जगावुच्चै-स्तरं चोत्पाटयनसिम् // 11 // भवन्ती युवती काचित् कदलीदलकोमला / अहं तु क्षत्रियः शूरः शस्त्रशास्त्रविशारदः // 12 // स्त्री प्राह यदि ते शक्ति-युध्यस्वाऽमा मया तदा / तदा भूपो न्यहस्तां च खङ्गेन निर्दयं दृढम् // 13 // ततः सा चाऽजुनी भूत्वा भापते स्म नृभाषया / कथं गो-स्त्रीवधात् पापात् छुटिष्यसि नरेश्वर ! // 14 // यतः-तावद् बलं महस्ताव-त्तावत् कीर्तिर खण्डिता / यावत् पुराकृतं पुण्यं नो म्लानिमधिगच्छति // 15 // पुण्यमेव प्रमाणं स्याद गिनां शुभकर्मभिः / क्षोणतेजाः कियत्कालं तपत्यपि प्रभाकरः // 16 // पुष्यैः सम्भाव्यते सर्व सुख दायि सदाऽऽयतिः / तदेव हीनपुण्यस्य विषवद् दुःखदायकम् // 17 / /